01 आवृत्त्यधिकरणम्

साध्यसाधनभावसम्बन्धज्ञापनार्थमिति - द्वयोरपि सम्बन्धिनोरेकाध्यावप्रतिपाद्यत्व एव एकप्रतीत्युपारोहस्सुशक इति भावः । कर्मयोगापेक्षया न साध्यत्वमस्तीति - इतिर्हेतौ, च्रोभिन्नक्रमः, कर्मयोगापेक्षया च साध्यत्वसत्वाच्च अत्र चिन्तायुक्त्तेत्यर्थः । सकृत्कृतं शास्त्रार्थ इति पाठः, भाष्ये- असकृदावृतौ प्रमाणाभावात् इति, अत एव पूर्वतन्त्रे प्रयाजादीनि फलभूमार्थिना पुनः पुनः प्रयोग्यानीति “क्रतुवद्वानुमानेनाभ्यासे फलभूमा स्यात्’ इति पूर्वपक्षं कृत्वा “सकृद्वा कारणैकत्वात्’ इति सकृदनुष्ठानेनैव कार्य सिद्धेरङ्गमात्रावृतौ फलभूयस्त्वे प्रमाणाभावाञ्चानावृत्तिरिति सिद्धान्तितमिति भावः । अत एव कर्मण्यनारम्भभावित्वात् कृषिवत्प्रत्यारम्भं फलानि स्युः’ इति न्यायेन फलभूमार्थतया काम्यानामावृत्तिवत् वेदनस्यापि आवृत्तिरिति शङ्का परास्ता, मोक्षरूपफले तारतम्याभावात् । भाष्ये- नचावधातादिवदिति, “व्रीहीनवहन्ति’ इति श्रुतस्यावधातस्य दृष्टे सम्भवत्यदृष्टकल्पनायाअन्याय्यत्वादिति न्यायेन क्रत्वपेक्षिततण्डुलविष्पत्त्यर्थत्वात् तण्डुलनिष्पत्तेश्चावधातावृत्तिमन्तरेणाऽसम्भवात्, आश्रुताष्यवधातावृत्तिः कार्येति, “कियाणामर्थशेषत्वात्प्रत्यक्षे तन्निर्वृव्याऽपवर्गस्स्यात्’ इति साधितम् तद्वदिति भावः, भाष्ये- उपासिना उपसंह्रियत इति, ननु छागपशुन्यायेन संवर्गविद्यगातस्य “यस्तद्वेद यत्स वेद’ इति वेदनशब्दस्य “यां देवतामुपास्से’ इत्युपसंहारवशात् उपासनारूपत्वपर्यवसानमस्तु नाम्, न तावन्मात्रेण आनन्दवल्ल्याद्युक्त्तब्रह्मवेदनानामावृत्तिस्सिध्यति विद्याभेदात्, नहि प्रतिवसन्तं ज्योतिष्टोमस्यावृत्तिविधानात् द्वादशाहादीनामावृत्तिः सिध्येदिति चेत् भ्रान्तोसि, क्कचिद्विद्याविशेषे आवृत्तेः श्रवणादन्यत्र विद्यान्तरेपि आवृत्त्या भवितव्यमिति यदि प्रतिपाद्येत, तदेदं चोद्यं स्यात्, नैवमत्र प्रतिपाद्यते, अपि तु विदिनोपक्रान्तस्योपासिना सिद्धवत्कृत्याऽनुवादरूपात् अन्यार्थदर्शनरूपाल्लिङ्गात् वेदान्तेषु वेदनशब्दः आवृत्तवेदनपरः, यथा “न सुकृतं न दुष्कृतं, सर्वे पाष्मानोऽतो निवर्त्तन्ते’ इति सुकृतस्यापि माष्मशब्दपरामर्शरूपाल्लिङ्गाद्वेदान्तेषु पाष्मशब्दः सुकृतदुष्कृतसाधारणः, ततश्च वेदातेषु सर्वेभ्यः पाष्मभ्य उदितः’ “अपहतपाप्मा’ इत्यादिष्वपि पाप्मशब्दः सुकृतदुष्कृतसाधारण इत्युक्त्तौ ईदृशोपलम्भस्याऽप्रसक्त्तं । यस्तद्वेदेति - अत्र वक्त्तव्यं सर्वं लघुसिद्धान्ते प्रतिपादितम्, तत्रैव दृष्टव्यम्, भाष्ये- समानार्थेष्विवेति, मोक्षसाधनविधिष्वित्यर्थः । छागो वा मन्त्रवर्णदिति न्यायोभिप्रेत इति- ननु “छागस्य धपाया’ इति मन्त्रस्यनित्यतयाङ्गत्वप्रतीतेः तदङ्गत्वं मावधीति सामान्यवाचिपशुशब्दस्य मान्त्रवर्णिकछागरूपविशेषपर्यवसानं युक्त्तम्, इह नानापकरणाम्नातानां वेदनध्मानोपासनादिमोक्षसाधनविधीनामेकार्थपर्यवसायित्वस्याऽनपेक्षिततया कथमत्र छागपशुन्यायावतारः, न च कासांचिद्विद्यानामावृत्त्यनपेक्षाणामेव मोक्षसाधनत्वे मोक्षसाधनध्यानादिविधीनामननुषांनलक्षणाप्रामाण्यप्रसङ्ग इति वाच्यम्, प्रपत्तिवदावृत्तिनिरपेक्षविद्याया महाविश्वासशाल्यधिकारविशेषविषयतोपपत्त्या ध्यानपर्यवसायित्वस्य वेदनादिविधीनामनावश्यकत्वादिति चेन्न, अनन्यथासिद्धप्रमाणबलेन प्रपत्तावधिकारिविशेषपरिकल्पनेऽपि वेदनवित्रदस्थले तादृशाधिकारिविशेषकल्पनाभावेन वेदनविधीनामेकार्थपर्यवसानस्याऽवश्यं वक्त्तव्यत्वेन छागपशुन्यायप्रवृत्तौ दोषाभावात् ॥1॥उपदेशक्रियाया इति - उपदोक्रियामात्रस्यावृत्तिर्विवक्षिता, न तु श्रवणादिविशिष्टोपदेशक्रियाया इत्यर्थः, ततश्रच श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्युपदेशक्रियाया आवृत्तिरस्तीति भावः । द्विसस्त्रिः प्रत्ययमात्रेणेति - द्वित्रिवेदयैरपि कृतार्थत्वादित्यर्थः । ज्ञानवेदनशब्दान्वितेति - इदं वाक्यं श्रवणमनननिदिध्यासनानामावृत्तिरपेक्षिता नवेति विचारयन्ति, तदयुक्त्तमित्यस्याऽनन्तरं पठितं चेत् सुसङ्गतमिव भाति, पाठो निरीक्ष्यः, ननु अपरोक्षार्थविषयकप्रत्ययावृत्तेः तदापरोक्ष्यं व्रूमः, अतो न ज्योतिष्योमवाक्यार्थप्रत्ययावृत्तौ व्यभिचार इत्यत आह - एक श्चन्द्र इति । भेदवासनाचेदिति - अन्यत्वं वक्त्तुमशक्यत्वादिति भावः । कल्पनापोहेनेति - भेदसत्यत्वकल्पनाव्युदासपूवर्कभेदमिथ्यात्वनिश्चयायेत्यर्थः । प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वरूपमिथ्वात्वप्रतीतावुपाधिप्रतीतिर्नान्तरीयकेति भावः । वाक्यार्थज्ञानार्थश्रवणादिविहिदूषणप्रसङ्गादन्तःकरणविलयरूपज्ञानार्थसमाधिं दूषयति । समाधिविधिश्चाऽनुपपन्न इति - बन्धनिवर्तकस्य वाक्यार्थज्ञानस्य त्वदभिमतान्तः- करणविनाशरूपसमाधिविरुद्धत्वादिति भावः । मुक्त्तस्य सर्वज्ञत्व इत्याक्षेपश्च, ननु मुक्त्तस्यान्दाधिक्य इत्याक्षेपश्च प्रासङ्गिक इति नाशङ्का कार्या, केचित्तु- अत्र कानिचिद्वाक्यानि पातितानीति मन्यन्ते । रश्मिबहुत्वं पर्यावर्तयेदिति । इदञ्च पुत्रं प्रति कौषीतकीवाक्यम्- हे पुत्र रश्मीनादित्यं चाऽभेदेन पर्यावर्तयात् , पर्यावर्तयतादित्यर्थः,उपास्वेति यावत् । अहङ्ग्रहोपासनेति - प्रत्यगात्मोपासनेत्यर्थः ॥2॥ ॥ इति आवृत्त्यधिकरणम् ॥