ऐहिकोपासनविषयत्वाभावमात्रे विरोध इति - अस्मन्मते मुक्त्तिव्यतिरिक्त्तफलकोपासनविषयत्वात् पूर्वाधिकरणम् ऐहिकोपा सनमात्रविषयत्वम्, परमते तु सर्वविषयत्वमिति विरोध इत्यर्थः । तद्देहपात इति - विद्यादेहपात इत्यर्थः । आपरोक्ष्ये तारतम्यसम्भवादिति -साध्यतारतम्याभावेपि साधनतारतम्यसत्वात् विलम्बाविलम्बरूपानियम उपपद्यत इति भावः ॥51॥ ॥ इति मुक्त्तिफलाधिकरणम् ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतिप्रकाशिकाव्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य चतुर्थः पादः ॥ ॥ समाप्तश्चाध्यायः ॥ समुदिताधिकरणसङ्ख्या - 123- समुदितसूत्रसङ्ख्या 468 ॥