भाष्ये- ऐहिकमभ्युदयफलमुपासनमप्रस्तुतप्रतिबन्धे इति, अयमत्रान्वयः- अभ्युदयफलमुपासनम्, अप्रस्तुतप्रतिबन्धे ऐहिकं भवतीति अभ्युदयफलं मुक्त्तिव्यतिरिक्त्तफलमित्यर्थः, एवं मुक्त्तिफलानियम इति मुक्त्तिफलकचिन्तान्तरस्य प्रस्तोष्यमाणत्वादिह तद्वयतिरिक्त्तमुपासनं सर्वं विवक्षितम्, ऐहिकम्- इह जन्मनि भवम्, ऐहिकमित्यस्यैव विवरणम् अनन्तरमिति, अस्मिन्नेव जन्मनीत्यर्थः, न च सौत्रस्यैहिकशब्दस्य साध्यनिर्देशपरत्वे किमैहिकफलोपासनं स्वसाधनपुऱ्यकर्मानन्तरमेव उत्पद्यत इत्यैहिकशब्दस्य पक्षविशेषणत्वस्फलोरकटीकाविरोध इति वाच्यम्, टीकागतैहिकशब्दस्य ऐहिकामुष्मिकसाधारणपलमात्रलक्षकस्य सौत्रैहिकपदात् भिन्नत्वात्, ऐहिकशब्दं हि लोके इह जन्मनि भवेपि प्रयुञ्जते, सौत्रस्त्वैहिकशब्द इह जन्मनि भवे वर्तते, तत्रैव प्रसिद्धिप्राचवात्, अत व योगसिध्यधिकरणे कारीर्यभिचारादेरैहिकत्वमेव स्वर्गस्यामुिेमकत्वमेव, पशुपुत्रादिरूपस्य फलस्यासति प्रतिबन्धे ऐहिकत्वम्, सति तु प्रतिबन्धे आमुष्मिकत्वमिति व्यवस्थापयन्ति, तत्रैहिकत्वं नाम एतजन्मयोग्यत्वम्, आमुष्मिकत्वं नाम जन्मान्तरभोग्यत्वम्, नत्वहलौकिकत्वं पारलौकिकत्वं पारलौकिकत्वं वा पशुपुत्रादेः पारलौकिकत्वाप्रसिद्धेः, ततश्च सौत्रस्यैहिकशब्दस्य साध्यनिर्देशपरत्वमेव युक्त्तम्, पक्षविशेषणत्वाभ्युपगमे ऐहिकपदस्य ऐहिकफलसाधनोपलक्षकत्वं वक्त्तव्यम्, तत्राप्यामुिेमकफलोपासनसङ्ग्रहायोपलक्षपरत्वमाश्रयक्षयम्, साध्यवाचि च पदमध्याहर्तव्यम्, तस्य साध्यनिर्देशपरत्वे उपासनरूपस्य पक्षस्य प्रकृतत्वादेव नाध्याहारमपेक्षते इति सामञ्जस्यमस्ति, केचित्तु- अस्मिञ्जन्मनि सम्भवतीत्येतीवन्मात्रं न साध्यं येनेदं साध्यसमर्पकं स्यात्, किन्तु सादनानुष्ठानकालाव्यवहितोत्पत्तिकत्वम्, अत एव हि पुण्यानन्तरभेवोत्पद्यत इति भाष्यम्, अतश्च सर्वर्था साध्यवाचिपदमध्याहर्तव्यमेव, ततश्च प्रकृतिमऱ्डलान्तर्वर्तिभोगफलकम्, इहशब्दो हि सन्निकृष्टार्थवचनः मुक्त्तप्राप्यमगवल्लोकापेक्षया प्राकृतभोगस्तानभोगोपकरणानां सन्निकृष्टत्वेनैहिकाब्दवाच्यत्वोपपत्तेः, नचैवं स्वर्मेष्वैहिकपदप्रयोगापतिः, एतादृशार्थविवक्षया प्रयोगे दोषाभावात् ॥50॥ ॥ इति ऐहिकाधिकरणम् ॥