53 अनाविष्काराधिकरणम्

भाष्ये- बालस्य यत्स्वभावानाविष्काररूपं कर्मेति, नचानाविष्करणस्याऽभावरूपस्य कथं बाल्यशब्दार्थत्वमिति शङ्कनीयम्, आविष्करणविरोधिक्रियाविशेषस्यैवानाविष्करणाब्दार्थत्वात् । एतदाश्रमनिष्ठस्य विशेषतो नियमदर्शनादित्यर्थ इति - ब्रह्मविद्यानिष्ठस्येत्यर्थः ॥49॥ ॥ इत्यनाविष्काराधिकरणम् ॥