52 सहकार्यन्तराधिकरणम्

मननस्य प्रवृत्तिरूपत्वेऽपीति - यमादिवदिति शेषः, उताथर्ान्तरं मननरूपमित्यस्यानन्तरं मुनिशब्दस्य प्रकृष्यमननशीले व्यासादौ प्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति नेतीति पाठोस्ति चेत् समाचानः । किं मनन विधातुं योग्यमुत नेति - सर्वाश्रमधर्माङ्गकविद्यासहकारितया विद्याङ्गभूतसर्वाश्रमधर्मवदिति शेषः, तस्यैवैतदधिकरणकृत्यत्वात्, अत्र च- अतस्सर्वेष्वाश्रमेषु स्थितस्यैवेत्युपसंहारभाष्यस्यैव साक्षित्वात् । किं मननस्येति - मननशब्दो निदिध्यासनपरः, उत्तरत्रापि तथैवेति द्रष्टव्यम् । यज्ञादिश्रुतिविरोध इति - आश्रयमधर्मप्रतिपादकयज्ञादिश्रुतिविरोध इत्यर्थः, नचाऽस्याश्शङ्कायाः प्रकृतासङ्गतिश्शङ्कया, सर्वाश्रमाङ्गक विद्यायां सर्वाश्रमधर्मवत् तत्सहकार्यन्तरतया मौनं विधीयत इत्यस्य प्रकृततया प्रकृतासहतेरभावात् । किं कतिपयोक्तिरनुक्त्तानादरमूलैव स्यादिति - वाजसनेयके “यक्षं चरे’दिति पारिव्राज्यधर्मोपदोः, “कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’ इत्यादि छान्दोग्यविहितगार्हस्थ्यधर्मादिपरिसङ्खयार्थः, एवं छान्दोग्यगतागार्हस्थ्यधर्मश्रुतिरपि वाजसनेयविहितसन्यासाश्रमधर्मादिपरिसङ्खयार्थः । स्वप्रदेशानुक्त्तधर्मप्रतिक्षेपार्थ इति यावत् । मननस्य यज्ञादिश्रुतिविरुद्धतया विधातुमयोग्यत्वादित्यादि - अयमर्थः निदिध्यासनस्य सर्वाश्रमधर्मनिरपेक्षतया सर्वाश्रमधर्माङ्गकविद्यायाम् आश्रमधर्मदृष्टान्तेन मननस्य विधातुमयोग्यत्वात् “अथ मुनि’रिति मुनिशब्दो मननविधायकत्वायोगेन प्राप्ततपाण्डित्यानुवादीति मौश्रमनूद्यत इति फलं स्यादिति- एवं हि क्रमः, किमस्मिन् वाक्ये मौनं विधीयते, उतानूद्यते, किं पाण्डित्यमेव मौनम् उतार्थान्तरं मननरूपमिति, किं मुनिशब्दस्य प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति, नेति, तथा किं मननं सर्वश्रमधर्माङ्गकविद्यासहकारितया विद्याङ्गभूतसर्वाश्रमधर्मवद्विधातुं योग्यमुत नेति, तदर्थं च विद्या किं सर्वाश्रमधर्माङ्गिका, उत नेति, तदर्थञ्च विद्यायाः सर्वाश्रमधर्मविरोधोऽस्ति, नेति, किं विद्या सर्वकर्मप्रतिक्षेपिका, नेति, किं वाजसनेयके “भिक्षाचर्यं चरेत्’ इति पारिव्राज्यधर्मोपदेशः, छान्दोग्ये “कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’ इति गार्हस्थ्यधर्मोपदेशश्च स्वस्वप्रदेशानुक्त्तपरस्पराश्रमधर्मप्रतिक्षेपार्थः, उतानुक्त्ताश्रमधर्मप्रदर्शनार्थ इति, यदा परस्परप्रतिक्षेपार्थः, तदा विद्यायाः सर्वाश्रमधर्मसापेक्षतया सर्वाश्रमधर्माङ्गकत्वसम्भवात् सर्वाश्रमधमर्ाङ्गिकायां विद्यायां सर्वाश्रमधर्मबन्मननं विधातुमयोग्यम्, यदि च प्रकृष्यमननशीले व्यासादौ मुनिशब्दप्रयोगदर्शनमर्थान्तरत्वमुपोद्वलयति, तदं पाण्डित्यस्याऽप्राप्तत्वात् विधेयत्वमिति, भाष्ये- विद्यासहकारित्वेन गृह्येत इति, अत षव विध्यादिवदिति दृष्टान्तोपादानं सहकार्यन्तरत्वांश एव, न तु विधित्वांशेपीति भावः, सहकार्यन्तरविधित्वांशे विद्यादेः दृष्टान्तत्वं वक्त्तव्यमिति यद्यभिलाषः, तदा विध्यादिवदित्यस्य बाल्यपाणिडत्यवदित्यर्थो वर्णनीय।, तयोर्मौनविध्यादित्वादिति द्रष्टव्यम् । भाष्ये- पक्षेण प्रकृष्यमननशील इति, पक्षेण प्रयोगः पाक्षिपप्रयोग इत्यर्थः । यद्वापक्षः- परिग्रहः, “पक्ष परिग्रहे’ इति धातुः आदरेण स्वीकारः, तेन हि गमनं प्रकृष्यते, प्रकर्षश्च मननस्य स्नेहपूर्वकतया चिरविरहितनायिकानायकविषयस्येव निरन्तरमनुवर्तमानत्वरूपमुपासनालम्बनस्य शुभाश्रयस्य भगवद्विग्रहादेः पुनः पुनः संशीलनम्, तदपि विद्यानिष्पत्त्यर्थमेव, सति ह्यस्मिश्र उपासनकालेऽपि तद्विषयचित्तैकाग्रयात् विद्या दृढिभवति, यस्योपासनव्यतिरिक्त्तकालेषु चिन्तान्तरावेशः तस्योपासनकालेऽपि चेतसि समवान्तरचिन्तितविषयन्तरानुप्रवेशात् न विद्या दृढीभवेदिति भावः, भाष्ये- परिशुद्धं च परिपूर्णं विदित्वेति, उहापोहक्षमा धः, षण्डा, सा अस्य सञ्जातेति पण्डितः, तस्य कर्म पाण्डित्यम्, श्रवणमननान्तरं तदभ्यासपाटववशात् लब्धया ऊहापोहक्षमया नवनवोन्मेषशालिन्या अतिभयाश्रुतमतार्थानुकूल्येन सर्वकालोपनिषतात्पर्यप्रतिषांपनपरम्, भाष्ये- यावदायुषं गार्हस्थ्यधमर्ेणेति, आवदायुर्यस्येति अहुव्रीहिणा आवदायुश्शब्दः कालपरः “कालाध्वनो’रिति द्वितीया ।मौनं ज्ञानातिशयरूपमित्यर्थ इति । मौनं वानप्रस्थमित्यत्र तु आश्रमवाचिपदान्तरसहाचर्यात् पारिशेष्यात् तत्रोत्तराश्रमपरत्वेपि इह मौनशब्दस्य ज्ञानातिशयार्थवाचित्वमेवेति भावः । बाल्यादिप्रधान्रेपीति - बाल्यादिप्रधाने सत्यपीत्यर्थः । उपदेशाविशेषादिति - “तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ इत्यादिनेत्यर्थः । बहुवचनमिति - सौत्रं बहुवचनमित्यर्थः । षष्ठ्यन्ताध्याहारप्रसङ्ग इति - दर्शपूणमासादीनां विध्यादिवदित्यर्थः, ननु विध्यादिशब्दः प्रधानवाची, विध्यन्तशब्दाद्रङ्गवाची, ततश्च विध्यादिवत् विध्यादाविव अधाव इवैत्यर्थ इति आचस्पत्युक्त्तेर्नोक्तदोषावकारः इति चेन्न, विध्य न्तशब्दस्य अङ्ग इव विध्यादिशब्दस्य न प्रधाने प्रसिद्धिरिति तात्पर्यात् । तत्कारिषु प्रयोगादिति- मुनिशब्दस्येति शेषः, शङ्कते । तच्च विद्यावतस्सिद्धमिति - निष्पन्नविद्यस्य शुभाश्रयममनं सिद्धमेव, तदभावे विद्यानिष्पत्तेरभावादित्यर्थः । प्रारब्धविद्यविषयत्वादिति - निष्पन्नविद्यविषयत्वाभावादित्यर्थः । ब्राह्मणशब्दश्च न जातिवाचीति - पूर्वपक्षे ब्राह्मणशब्दस्य जातिवचनत्वात् कथं ब्राह्मण इत्यत्र यथा न विधेयत्वं, एवं “अथ मुनि’रित्यत्रापीति पूर्वपक्षे उपन्यस्तब्राह्मणशब्दजातिवचनत्वस्य सिद्धान्ते अप्रतिक्षेपात् ब्राह्मणशब्दस्य जातिवाचित्वं परेषां सिद्धान्तेऽप्यभिमतमिति मत्वा इदं दूषणमुक्त्तमिति दृष्टव्यम् । न च कल्पतरौ ब्राह्मणः ब्रह्माहमस्मीति साक्षात्कारवानित्यर्थ उक्त्त इति वाच्यम्, तस्याधुनिकत्वात् । तृतीयसूत्रव्याख्यानमप्ययुक्त्तमिति- भास्करीत्यमिति शेषः । पारिव्राज्यप्रस्तावादिति - परिव्राज्यस्य प्रकृतत्वादित्यर्थः । मौनस्य परस्ताद्वार्हस्थ्यस्येति - दहरविद्यायां छान्दाग्ये “मौनमित्याचक्षते ब्रह्मचर्यमेव तत्’ इति मौनोपदेशानन्तरं सर्वान्ते “स सल्वेवं वर्तयन्’ इति गार्हस्थ्येनोपसंहारादित्यर्थः । द्वितीयसूत्रनिर्वाहो दत्तोत्तर इति - परमतदूषणावसरे इति शेषः ॥47॥ ॥ इति सहकार्यन्तरविध्यधिकरणम् ॥मौनं ज्ञानातिशयरूपमित्यर्थ इति । मौनं वानप्रस्थमित्यत्र तु आश्रमवाचिपदान्तरसहाचर्यात् पारिशेष्यात् तत्रोत्तराश्रमपरत्वेपि इह मौनशब्दस्य ज्ञानातिशयार्थवाचित्वमेवेति भावः । बाल्यादिप्रधान्रेपीति - बाल्यादिप्रधाने सत्यपीत्यर्थः । उपदेशाविशेषादिति - “तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ इत्यादिनेत्यर्थः । बहुवचनमिति - सौत्रं बहुवचनमित्यर्थः । षष्ठ्यन्ताध्याहारप्रसङ्ग इति - दर्शपूणमासादीनां विध्यादिवदित्यर्थः, ननु विध्यादिशब्दः प्रधानवाची, विध्यन्तशब्दाद्रङ्गवाची, ततश्च विध्यादिवत् विध्यादाविव अधाव इवैत्यर्थ इति आचस्पत्युक्त्तेर्नोक्तदोषावकारः इति चेन्न, विध्य न्तशब्दस्य अङ्ग इव विध्यादिशब्दस्य न प्रधाने प्रसिद्धिरिति तात्पर्यात् । तत्कारिषु प्रयोगादिति- मुनिशब्दस्येति शेषः, शङ्कते । तच्च विद्यावतस्सिद्धमिति - निष्पन्नविद्यस्य शुभाश्रयममनं सिद्धमेव, तदभावे विद्यानिष्पत्तेरभावादित्यर्थः । प्रारब्धविद्यविषयत्वादिति - निष्पन्नविद्यविषयत्वाभावादित्यर्थः । ब्राह्मणशब्दश्च न जातिवाचीति - पूर्वपक्षे ब्राह्मणशब्दस्य जातिवचनत्वात् कथं ब्राह्मण इत्यत्र यथा न विधेयत्वं, एवं “अथ मुनि’रित्यत्रापीति पूर्वपक्षे उपन्यस्तब्राह्मणशब्दजातिवचनत्वस्य सिद्धान्ते अप्रतिक्षेपात् ब्राह्मणशब्दस्य जातिवाचित्वं परेषां सिद्धान्तेऽप्यभिमतमिति मत्वा इदं दूषणमुक्त्तमिति दृष्टव्यम् । न च कल्पतरौ ब्राह्मणः ब्रह्माहमस्मीति साक्षात्कारवानित्यर्थ उक्त्त इति वाच्यम्, तस्याधुनिकत्वात् । तृतीयसूत्रव्याख्यानमप्ययुक्त्तमिति- भास्करीत्यमिति शेषः । पारिव्राज्यप्रस्तावादिति - परिव्राज्यस्य प्रकृतत्वादित्यर्थः । मौनस्य परस्ताद्वार्हस्थ्यस्येति - दहरविद्यायां छान्दाग्ये “मौनमित्याचक्षते ब्रह्मचर्यमेव तत्’ इति मौनोपदेशानन्तरं सर्वान्ते “स सल्वेवं वर्तयन्’ इति गार्हस्थ्येनोपसंहारादित्यर्थः । द्वितीयसूत्रनिर्वाहो दत्तोत्तर इति - परमतदूषणावसरे इति शेषः ॥48॥ ॥ इति सहकार्यन्तरविध्यधिकरणम् ॥