51 स्वाम्यधिकरणम्

कर्माङ्गाश्रयाणीत्युक्त्तमिति - प्रणयनाश्रितगोदोहनस्यैव उद्गीथाश्रितस्य उपासनस्याऽङ्गत्वाभावात्- उद्गीथस्याऽऽश्रयत्वमात्रतयाऽङ्गित्वाभावादित्यर्थः । भाष्ये- उद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः इति, इदमुपलक्षण “तया कार्मोर्थसंयोगात्’ इत्यधिकरणे यदि कामयत वर्षुकः यर्जन्यस्स्यादिति नीचैस्सदो मिनुयात्’ इति विहितानां सदोमानाश्रितानां गुणानां फलं यजमानगाम्येव, यथा “त्र्यहं नाश्नीया’दित्यादिकं तपः सत्यप्याध्वर्यवसमाख्याने याजमानम्, तपसः प्रधानफलसिद्धयर्थत्वात् प्रधानफलस्य च याजमानत्वात्, तथा कर्माङ्गफलमपि यजमानगाम्येव, कुतः? अर्थसंयोगात् “यजेत’ इत्यात्मनेपदेन संङ्गप्रधानफलस्य यजमानगामित्वश्रवणात् अङ्गाश्रितफलानामपि परम्परया तत्साध्यत्वादिति समर्थितत्वात्, अङ्गाश्रितोपासनफलं यजमानगाम्मेव, अतो “वर्षति वर्षति हे’त्यादीनामपि वृष्टयादिफलानां यजमानगामित्वं सिद्धमिति द्रष्टव्यम् । तदाश्रयस्य गोदोहनस्येति - स आश्रयो यस्येति बहुव्रीहिः, यत्र हि गुणः कारकतां प्रतिपद्यते, स आश्रय इति निर्वर्त्य एव मीमांसकानामाश्रयत्वव्यवहारात् निर्वर्तकतयोपादानं कर्तुमशक्य इत्यर्थः ॥44॥भाष्ये- फलसाधनभूतस्येति, भूतस्य प्राप्तस्येत्यथर्ः, फलसाधनगोदोहनोपासनादिगुणकामयुक्त्तस्येत्यर्थः । यद्वा- साङ्गस्येत्येतद् अङ्गाश्रितानामप्युलक्षणम्, ततश्च “तस्मै हि परिक्रियते’ इति सूत्रे हिरष्यर्थः उद्गीथाद्युपासनमार्त्विज्यम्, तस्माद् अपि परिर्कियते’ ॠत्विगिति सूत्रार्थ इति भाष्यकृतामाशयः । भाष्ये- साङ्गं कर्म ॠत्विग्मिरनुष्ठेयमित्यवगम्यत इति, न चैवं प्रधानस्य, द्रव्यत्यागात्मकस्य यागस्यापि ॠत्विक्कर्तृकत्वप्रसङ्ग इति वाच्यं, यजमानद्रव्यस्य त्यागे ॠत्विजामसामर्थ्येन लिङ्गबलात् हविस्त्यागदक्षिणादानादिव्यतिरिक्त्त एव ॠत्विजां कर्तृत्वमिति सामर्थ्यादवसीयते । नहि ॠत्विजान्येनेति - यदि शकत्यशकत्योरेव कर्तृनियमे नियामकत्वम्, तर्हि अध्वर्य्वादिना कार्यस्यापि यजमानेनापि कर्तुं शक्यत्वात् याजमानत्वप्रसङ्गः, अतश्च “शास्त्र फलं प्रयोक्तरि’ इत्याधिकरणं द्वितीयपूर्वपक्षन्यायेन अशक्त्तस्यैव यजमानस्य ॠत्विक्द्वारा कर्तृत्वमित्यापतेत्, तस्मात् परिक्रयवचनबलादेव अङ्गानां यजमानभिन्नकर्तृकत्वं वक्त्तव्यम्, तादृशं वचनमुपासनेप्यविशिष्टमिति भावः । वचननिबन्धनमिति “गोदोहनेन पशुकामस्य प्रणयेत्’ इत्यध्वर्युकर्तुकप्रणयने गोदोहनस्य कारकत्वविधायकवचनबलादित्यर्थः, गोदोहनस्याऽप्यध्वर्युकर्तृकव्यापारविषयत्वाभावे तत्कारकत्वासम्भवादिति भावः । प्रकृते तु परिक्रयवचनबलात् ॠत्विक्कर्तृकत्वसिद्धिरिति द्रष्टव्यम् - अङ्गत्वे सति हि ॠत्विक्कर्तृकत्वमिति । दक्षिणानतानामअत्विजां साङ्गप्रधानानुष्ठानापरपर्यायभावनाशब्दवाच्यप्रयोगाङ्गत्वान्न गुणकामेषु कर्तृत्वं सम्भवतीत्यर्थः । ॠत्विक्कर्तृककर्मोपयोगित्वेनेति - अङ्गभूतस्याऽप्युपासनस्य क्रतुप्रयोगाद्वहिरनुष्ठातुमशक्यत्वेन तत्प्रयोगमध्यपातित्वाविशेषात् परिक्रयस्य च चिकीर्षितसर्वाथर्त्वावगमाच्च उद्गीथोपासनस्यापि ॠत्विक्कर्तृकत्वं सिद्धमिति भावः । प्रोक्षणादिवदिति - “नीजैस्सदो मिनुया’दिति प्रतिपादितसदोमानादिगुणाः आदिपदेन परामृश्यन्ते । अग्रयप्रायन्यायादिति - “तत्सामान्यादितरेषु तथात्वम्3 इति न्यायादित्यर्थः, अग्रयप्रायन्यायोऽपि अत्रैव पर्यवसितः, “तस्मादुहैवंविदुद्गाता ब्रूयादिति एवंविदन्तरादित्ये अन्रक्षिणि चोपदिष्टं परमात्मरूपं सर्वपापोदितत्वादिधर्मैः, देवलोककामावाप्तिफलाभ्यां सह विद्वान् उद्गाता यजमानं प्रति ब्रूयात् कं ते काममैहिकमामुष्मिकं किं फलमुद्दिश्य आगायानीति, तत्फलानुकूलोपासनसहितं गानं करवाणीति, हि यस्मात् एष एवोद्गाता कामगानस्य अभिमतफलसाधनोपासनसहितगानस्य ईष्टे व एवंविद्वानधिदैवताध्यात्मोपदिष्टपरमात्मस्वरूपं विद्वान् साम गायतीत्यर्थः । अत्र उद्गातृकर्तृकमेवोपासनं यजमानगामिफलजनकमिति स्पष्टं प्रतीतेः ॠत्विजां परिक्रीततया यजमानस्य प्रयोजककर्तृत्वसम्भवेन “शास्त्रफलं प्रयोक्तरि’ इति न्यायस्थाऽप्यविरुद्धत्वादिति भावः ॥45॥ ॥ इति स्वाम्यधिकरणं ॥