अवकीर्णिपशुश्च तद्वदिति - “अवकीर्णिपशुश्च तद्वदाधानस्याऽप्राप्तकालत्वात्’ इति जैमिनिसूत्रम्, अवकीर्णिनां ब्रह्मचर्य प्रच्युतानां “ब्रह्मचार्यवकीर्णी नैॠतं गर्दभमालभेत’ इति स्मृतिविहितनैर्ॠतपशुरूपं प्राश्चित्तं सिद्धंकृत्व तत्राऽग्निर्वचारितः, तदधिकरणमित्थम्- “यदाह्रवनीये गुहोती’ति सर्वेषां होमानामाहवनीयाधारत्वविधेरवकीर्णी ययाऽवकीणर्ः, तया सह वा भार्यामधिगम्य वा अग्नीनाधाय आहवनीये अवकीर्णिपशुं करोतु इति पूर्वपक्षं कृत्वा जायापती अग्निमादधीयाताम्’ इत्याथानस्य दम्पत्तिकर्तृकत्वस्मरणेन परिस्त्रया सहाग्न्याधानासम्भवात् लक्षण्यां स्त्रियमुद्वहेत्’ इत्यस्खलितब्रह्मचर्यस्य विवाहविधानेन अकृतप्रायश्चितस्य विवाहायोणाच्च अग्न्याधानासम्भवात् उपनयनहोमवत् लौकिकाग्नावेवावकीर्णिपशुरिति पूर्वाधिकरणे लौकिकाभावेव उपनयनहौजः समावर्तनानन्तरं नुतस्यदारपरिग्रहस्य उपनयनात्पूर्वमसम्भवेन अग्न्याधानरहितस्य माणवकस्याऽऽहवनीयाभावात् लौकिकाग्नावेवोपनयनहोम इति निरूपितम्, तदर्थस्सूत्रे तद्विदिति परामृश्यते ॥40॥इदञ्चोद्यसूत्रमिति - अस्योपपातकत्वप्रतिपादनपूर्वकप्रायश्चित्तसद्भावप्रतिपादनमुखेन ब्रह्मविद्याधिकारप्रतिपादनपरत्वादेवमुक्त्तम्, प्रायश्चित्तसद्भावमात्रप्रतिपादनपरत्वे तु सिद्धान्तसूत्रत्वमेव, नहि सामान्यमुखेन प्रवृत्तौ नैर्ॠतपशुः आरूढो नैष्ठिकं धर्मम्’ इति स्मूत्या विशेषविषययापि न सङ्कोचमर्हति, स्मृतेर्नैष्ठिकरूपब्रह्मचारिविशेषविषयत्वेऽपि प्रायश्चित्तं न पश्यामि’ इति स्मृत्या विशेषविषययापि न सङ्कोचमर्हति, स्मृतेर्नैष्ठिकरूपब्रह्मचारिविशेषविषयत्वेऽपि प्रायश्चित्तं न पश्यामि’ इति प्रायश्चित्तदर्शनाभावेन प्रायश्चित्ताभावानुमानम्, तेन च श्रुत्यनुमानमिति विलम्बद्वयमस्ति “यो ब्रह्मचार्यवकिरेत्’ इति प्रायश्चितश्रुतेः सामान्यमुखेन प्रवृत्ततया सामान्यद्वारा विशेषपर्यवसानमित्येक एव विलम्ब इति प्रायश्चित्तश्रुतेरेव बलीयस्त्वम्, ततः “प्रायश्चित्तं न पश्यामि’ इति स्मृतिस्संव्यवहार्यतापादकप्रायश्चित्ताभावपरैवाभ्युपगन्तव्या, ततश्च प्रायश्चित्तसद्भावमात्रपर्यवसितत्वेन चोद्यसूत्रत्वं तन्मुखेन विद्याधिकारप्रतिपादनपर्यन्तत्वमस्य सूत्रस्य प्रकृतोपयोगाद्वक्त्तव्यमित्यभिप्रेत्य चोद्यसूत्रत्वमुक्त्तमिति द्रष्टव्यम् ।ननूपकुर्वाणस्येव नैष्ठिकादीनां मध्वशननिषेधस्यादर्शनात् कथं साम्यमित्याशङ्कयाह - भाष्ये तदुक्त्तं स्मृतिकारैरिति । प्रायश्चित्तञ्च परामृशतीति - ननु प्रायश्चित्तं न प्राङ्निर्दिष्टम्, ब्रह्मचर्याग्नीन्धनभैक्षचरणसत्यवचनमधुमांसगन्धमेंदिस्यप्नेञ्चनाभ्यञ्चनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीताद प्राङ्निर्दिष्टत्वात्, तद्वयाख्यातृभिश्च उत्तरेषामप्याश्रमाणामिदं वृत्तं द्रष्टव्यम् किमविशेषेण नेत्याह - अविरोधीति । यत्स्वाश्रमाविरुद्धं द्यूतादिवर्जनं तदेव भवति, नतु विरुद्धम्, अतो नाग्नीन्धनं प्रव्रजिते प्राप्नोति, न गुरुकुलवासो वैस्वानसे प्राप्नोति न ब्रह्मचर्यं गृस्थे प्राप्नोतीति व्याख्यातम्, ततश्च प्रायश्चितस्याऽप्रकृततया नैतच्छब्दस्यप्रायश्चित्तपरामर्शित्वं सम्भवति, अत एव स्वश्रमाविरोधिशब्दः स्त्रीसंसर्गादिनिमिवप्रायश्चितादेः गृहस्थेष्वनापातार्थ इति ग्रन्थोष्यसङ्गतः,स्त्रीसंसगर्ादिनिमिवप्रायश्चित्तादेः प्रागनुक्त्तेरिति चेदत्राहुः, ब्रह्मचर्यस्याऽतिदेशे “गर्दभेनावकीर्णी निर्ॠतिं चतुष्पथे यजेत् तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रस्सप्त गृहान् भैक्षं चरेत् कर्माचक्षाणः सम्वत्सरेण शुध्येत्’ इति प्रायश्चिवप्रकरणे वक्ष्यमाणस्य प्रायश्चित्तस्य सापवादकमेकं शास्त्रं “कार्यकालं संज्ञापरिभाषम्’ इति न्यायेन तदेकवाक्यतापन्नतया ब्रह्मचर्योपदेशे तत्प्रायश्चित्तमप्यतिदिष्टं भवतीत्यभिप्रायेण प्रायश्चित्तञ्च परामृशतीत्युपपत्तेरिति, ननु ब्रह्मचर्ये निर्दिष्टे “गर्दभेनावकीणी’ति प्रायश्चित्तप्रकरणगतस्योपदिष्टातिदिष्टब्रह्मचर्यसाधारण्येनोपदेशत एव प्राप्तिसम्भवात् “उत्तरेषां चैतदविरोधि’ इत्यनेनातिदेशो व्यथर् इति चेत्, नूनं भवान् “अनारम्य विदानानां प्रकृतौ वा द्विरुक्त्तत्वा’दिति न्यायमनालोचितपूर्वी, तथाहि सति उपदिष्टातिदिष्टजुहूसादारण्येन पर्णताया अपि प्राप्तिप्रसङ्गात् यदि चयेनादिदेशेन जुहूः प्राप्यते तेनैव पर्णताया अपि प्राप्तिसम्भवात् द्विरुक्त्तिदोषप्रसङ्गेन विकृतौ पर्णतोपदेशो व्यर्थः, यद्येवमुपकुर्वाणस्यापि ब्रह्मचर्यं नोपदिष्टं, “प्रागुपनयनात् कामचारवादभक्षो हुतान्ब्रह्मचारी’ इत्यनुपनीतस्यैव ह्युपदिष्टम्, उपकुर्वाणे तु “उक्त्तं ब्रह्मचर्यमग्नीन्धनभैक्ष्चरणे’ त्यादिना अतिदिष्यते, अत उपकुर्वणस्यापि ब्रह्मचर्यमतिदिष्टमिति कृत्वा अनुपनीतब्रहकमचर्य एव प्राश्चिवमुपदेशतः प्राप्नोति, नोपुर्वाणब्रह्मचर्येऽपीति चेत्, मादूदू ब्रह्मचर्यमुपदिष्टं, माच भूत्प्रायश्चित्तमपि, तथाप्यनुपनीते उपदिष्टस्य प्रायश्चित्तस्य “उक्त्तं ब्रह्मचर्यमबग्नीन्धनभैक्षचरणे’ त्यनेनोपकुर्वणेऽतिदिष्टतया तस्य “उत्तरेषां चैतदविरोधी’त्यनेन परामर्शे दोषाभावात्, ननु “अतातोऽग्निमग्निष्टोभेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेण’ इत्युपदेशत एव अग्नेरग्निष्टोमोक्थ्यादिसाधारण्यमुपदिश्यते, ततश्च तदाश्रिताः श्येनाकृत्यादिगुणकामाः सर्वसाधारणा भवन्तीतिवत् उत्तरेषां चैतदविरोधी’त्यस्यापि एव प्रायश्चित्तस्य सर्वसाधारणत्वेन नातिदेशतः प्राप्तस्य प्राप्तिरिति चेन्न, इष्टापत्तेः, अतिदेशतोऽपि प्राप्तिमपेक्षमाणानामुपदेशतः प्राप्तिर्लभ्यते चेत्, कथमनिष्टाय सा स्यात् ॥42॥भाष्ये- कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवतीति, “बालप्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृश्च स्त्रीहन्तृश्च न संवसत्’ इति मनुवचनम्, न संवसेत्- अन्योन्यं गृहभोजनादिसंव्यवहारं न कुर्यादित्यर्थः । नास्मिन् लोके प्रत्यापत्तिर्विद्यते, कल्पषं तु निहन्यते “प्रायश्चित्तैरषत्येनो यदज्ञानकृत भवेत् । कामतो व्यवहायर्स्तु वचनादिह ज्जायते’ इत्यादिस्मरणात्, अज्ञानकृतञ्च यद्भवेत् तत्प्रायश्चित्तैरषैति, तत्कामाच्चेत् वचनादव्यवहार्यस्तु जायत इत्यर्थः, अतश्च “प्रायश्चित्तं न पश्यामी’ति स्मृतेरपि तदनुगुण एवार्थ इत्यर्थः । परे त्वित्यादि - प्रत्यवरोधः पूर्वाश्रमप्राप्तिः । विद्याधिकारानधिकारसिद्धमिति - पूर्वेणान्वयः । पूर्वाश्रमधर्मस्वनुष्ठानचिकीर्षयेति - पूर्वाश्रमधर्मेषु यागहोमादिषु सुखानुष्ठेयताप्रयुक्त्तचिकीर्षयेत्यथर्ः । रागादिनेति - गृहस्थोहं पत्यादिपरिवृतस्स्यामित्याशयेनेत्यर्थः । नियमश्रुत्येति - नेषां तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः इति सूत्रपाठ इत्यर्थः, तद्भूतस्य- उर्ध्वरेतस आश्रमान्प्राप्तस्य, नातद्भावः- न ततः प्रच्युतिः, न ततः प्रत्यवरोह इति यावत्, “अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्नरण्यमियात् न पुनरेयात्’ इति नियमादित्यर्थः । “यथा ब्रह्मचर्यं समबाप्य गृही भेवेत् गृही भूत्वा वनी भवेत्’ इत्यारोहवचोदर्शनवत् अवरोहवचसो अदर्शनादिति भावः, आभावाच्च- शिष्टाचाराणामभावच्चेत्यर्थः, इत्येवं नियश्रुत्या अतद्रूपेणाऽभावेन च प्रत्यवरोहाप्रामाणिकत्वं सिद्धान्तयन्तीत्यर्थः, तदप्रामाणिकत्वं सिद्धान्तयन्तीत्यस्यानन्तरं “न च अधिकारिकमपि’ इत्यधिकरणान्तरं नैष्ठिकादीनामाश्रमभ्रष्टानां प्राश्चित्तसम्भवासम्भवपरं वर्णन्तोऽसम्भव इति सिद्धान्तयन्तीति केषुचित्पाठो दृश्यते, सत्वग्रन्थः, तदंशे उत्तरत्र दूषणस्य कस्याप्यनुक्त्तेः, परमते च न चाधिकारिकमपि पतानानुमानात्तदयोगात्’ इति सूत्रेण प्रायश्चित्तासम्भवं पूवर्पक्षीकृत्य भावमशुनवत्तदुक्त्तम्’ इति सूत्रेण प्रायश्चित्तासम्भवं पूर्वपक्षीकृत्य “उपपूर्वमपीत्येके भावमशनवत्तदुक्त्तम्’ इति प्रायश्चित्तसद्भावस्सिद्धान्तितः, “बहिस्तूभयथापि’ इति सूत्रञ्च कृतप्रायश्चित्तानामप्यसंव्यवहार्यतापादनपरं कृथगधिकरणम् । अतो नायं परमतानुवादो भवितुमर्हतीति लेखकदोषायत्तः, केचित्तु “वहिस्तूभयथापी’त्यधिकरणे कृतप्रायश्चित्तस्याप्यसंव्यवहार्यताप्रतिपादनात् संव्यवहार्यतापादकप्रायश्चित्तासम्भवपरोऽवं ग्रन्थ इत्याहुः । सद्भावे प्रमाणविरुद्धत्वे चेति - प्रामाणिकत्वाप्रामाणिकत्वयोरित्यर्थः, प्रामाणिकत्वरूपप्रथमाधिकरणपूवर्पक्षोत्थापकाभावात् प्रथमाधिकरणसंशयोनुपपन्न इति भावः । मूलविचार इति - मूलभूतप्रायश्चित्तविचारे निर्णायकोत्तरसूत्रप्रतिपाद्यन्यायगर्भतयैकमतधकरणमित्यर्थः । प्रच्युतिरस्ति नेतीति विचार इति - प्रच्युतिः प्रामाणिकी अप्रामाणिकी वेति विचार इत्यर्थः ॥43॥ ॥ इति तद्भूताधिकरणम् ॥