अकृतदार इति - समावृत्य अकृतविवाह इत्यर्थः ॥36॥is not available.is not available.भूयोधर्माल्पधर्मकयोः भक्त्तिप्रपत्त्योर्व्यभिचारादाह - शक्त्तमिति । पारिव्राज्यव्यावृत्त्यर्थमिति - ननु मृतभार्यस्याकृतदारस्य वा दारालाभेन दारसाध्याश्रमासम्भव्रेपि सन्यासाश्रमस्य सम्भवात् किमित्यनाश्रमित्वं स्त्रोदव्यमिति शङ्काव्यावृत्यर्थम् अवैराग्ये सतीत्युक्त्तमित्यर्थः । परे चेत्यादि - आश्रमबहिष्ठनम्नचर्यास्मरणपरमिति । आश्रमासाधारणधर्मबहिर्भूतनग्नचयर्ास्मरणपरमित्यर्थः, यद्यपि शाङ्करभाष्ये सवर्तकप्रभृतीनाच्च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इति महायोगित्वस्यैव स्मर्यमाणत्वमुक्त्तम्, न तु नम्नचर्यायाः, तथापि नग्नचर्यावदो महायोगित्वं स्मयर्त इत्युक्त्ते महायोगिनो नग्नचर्या स्मर्यत इत्युक्त्तप्रायत्वात् तथोक्तमिति द्रष्टव्यम्, ननु नग्नचर्यायोगात् अनपेक्षिताश्रमकर्मणां महायोगित्वं स्मर्यत इति किमभिप्रेतम्, नग्नचार्यायोगात् महायोगित्वं स्मर्यत इत्यन्वयोंऽभिप्रेतः,ततश्च “अपि स्मर्यते’ इति सूत्रस्य “विशेषानुग्रहश्च’ इतिसूत्रस्य चासाधारणधर्मानुग्राह्यत्वपरत्वम्, उत न्गचर्यायोगादनपेक्षिताश्रमकर्मणामित्यन्वयोऽभिप्रेतः, ततश्च “अन्तरा चापि तु तद्दृष्टेः’ इति सूत्रस्य च “अपि स्मर्यत’ इति सूत्रस्य चाश्रमकर्मानपेक्षत्वपरत्वमिति विकल्पमभिप्रेत्य प्रथमं दूषयति । विद्यायास्साधारणधर्मानुग्राह्यत्व इति - अतस्सूत्रदूयस्येति । साधारणधर्मानुग्रहपरत्वमिति शेषः, द्वितीयं दूषयति - उन्मत्तचर्यास्मरणेनेति । दृष्टे सम्भवतीति - आश्रमकर्मसाध्यस्यादृष्टस्थानेनानुत्पत्तेः माहात्म्याच्छादनं दृष्टमेव प्रयोजनमिति भावः । विध्यन्तरादर्शनादिति - “तपसा ब्रह्मचर्याण श्रद्धया विद्यया आत्मानमन्विष्ये’दिति भावः ॥39॥ ॥ इति विधुराधिकरणम् ॥