किं विद्याङ्गभूतानीति - विद्याङ्गभूतान्याश्रमकर्माणि नवेति विचारः, आश्रमकर्माणीत्यस्य विवरणं केवलाश्रमिणोपीति, न तु विद्याङ्गभूतान्याश्रमकर्माणीति पक्षनिर्देश इति मन्तव्यम्, विद्याङ्गभूतानामाश्रमकर्भत्वस्यैवाऽस्मिन्नधिकरणे सिषाधयिषितत्वादिति द्रष्टव्यम् । केवलाश्रमाङ्गत्वमिति - आश्रमशब्देन तद्वान् पुरुष उच्यते, आश्रमनिश्रेष्ठपुरुषार्थत्वमित्यर्थः, अथवा केवल आश्रमो यस्येति बहुव्रीहिः पुरुषो अन्यपदार्थः । कर्मान्तरत्वे सतीत्यादि - अयमित्यन्वयः- नित्यानित्यसंयोगविरोधप्रसङ्गेन एकस्य कर्मणो विनियोगपृथकत्वस्याप्यभावेन च कर्मान्तरत्वे सति विद्याभ्गसूतानां केवलाश्रमाभ्गत्वासम्भवात् तान्यमुसुक्षोर्नानुष्ठेयानि, विनियोगपृथकत्वेन नित्यानित्यसयोगविरोधाभावात्, कर्मान्तरत्वं नास्ति चेत्, विद्याङ्गानामेव तेषां केवलाश्रमाङ्गत्वस्भवात् केवलाश्रमिणोप्यनूष्ठेयानीति । अनुष्ठानञ्च विरुद्धमिति - वास्तवस्य विरोधस्य न वाक्यसहस्त्रेणापि निवृत्तिर्यक्त्तेत्यर्थः, एतेन, “एकस्य तूभयत्वेसयोगपृथकत्वम्’ इति पूर्वतन्त्राधिकरणमपि आक्षिप्तं द्रष्टव्यम् ॥32॥नित्यानित्यसंयोगविरोधपरिहारः सूत्रद्वयफलमिति - अयम्भावः - सिद्धरूपेस्तुनि नित्यत्वानित्यत्वादेरिव नित्यत्वकाभ्यत्वयोर्न वस्तुतो विरोधः, षोडशिग्रहणे कर्तव्यत्वाकर्तव्यत्वर्यारिव सम्भवात्, अपितु एकस्य वाक्यस्य उभयबोधकत्वासम्भवात्, विध्येकावसेये च प्रमाणान्तराप्रवृत्तेः विरोधो वक्त्तव्यः, अत्र तु विनियोवकप्रमाणद्वयमप्यस्ति, तत्र प्रमाणद्वयवशादुमयार्थत्वेन विरोध, ननु विद्याया नित्यसमीहितफलत्वाभावतदङ्गत्वेनाऽनुष्ठीयमानस्य नित्यत्वं न स्यात्, ततश्च विद्यार्थत्वं कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यपयोयोऽपि पृथकर्तव्यः, न चैवं नित्यप्रयोगस्यैवाऽनित्यत्वं स्यादिति, चेन्न, अथा स्वर्माथेर् ह्यग्निहोत्रप्रयोगः काभ्यो नैमित्तिको वा नित्यमधिरुत्यैव निविशत इति न्यायात नित्यप्रयोगं विकृत्य प्रयोगस्य उभयत्राप्यविशेषात् नित्यविधेः प्रयोजकत्वमात्रं बाधित्वा निविशते; यथा “यदि राजन्यं वैश्यं वा याजयेत् स यदि सोमं विभक्षयिष्येत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दध्नयुन्मृज्य तमस्मै मक्ष प्रयच्छेन्न सोमम्’ इति नित्यं सोमं विकृत्यैव निविशते, न तावता नित्यप्योगस्याऽनित्यतापत्ति, एवमिहापि न विरोध इति भावः । न त्वेकस्येति - फलमिति शेषः ॥33॥भाष्ये- कर्मस्वरूपभेदे प्रमाणाभावाञ्चेति, मासाग्निहोत्रे सन्निहिताग्निहोत्रहोमासम्भवेनाऽनुवादत्वासम्भवेन विधित्वे सिद्धे विहितस्य विधानायागेन विहितात्प्रसिद्धाग्निहोत्रहोमात् अस्य होमस्याऽन्यत्वसिद्धौ तत्र वर्तमानमाख्यातपरतन्त्रमग्निहोत्रमिति नाम्ना प्रसिद्धाग्निहोत्रप्रत्यभिज्ञापनसमर्थमिति तत्र प्रकरणभेदात् कर्मान्तरत्वमस्तु नाम्, इह तु यज्ञादिषु विधेरश्रवणात् विद्यायामेव विधिश्रवणेन न प्रसिद्धयज्ञापेक्षयैषा भेदः, नन्विहापीष्यमाणविद्योद्दोन यज्ञादिकमेव विधयम्,न तु विद्या, तस्याः फलत्वेन विधेयत्वायागात् अग्निहोत्रतुल्यत्वमेव, न च प्रसिद्धस्यैव यज्ञादेः फलसम्बन्धितया विधानमस्त्विति वाच्यम्, तर्हि प्रसिद्धस्यैवाग्निहोत्रस्य माससम्बन्धितया विधानप्रसङ्गात् । अतो मासाग्निहोत्रभेदवत् इह यज्ञादिशब्दोपात्तस्य प्रसिद्धयज्ञादेरनन्वत्वे प्रसिद्धयज्ञादीनां मध्य कस्य रूपमतिदिश्य इति दुर्ज्ञानत्वात्, यज्ञादिनाम्ना द्रव्यदेवताद्यतिदेशे देवतोद्देश्यकद्रव्यत्यागत्वादिरूपयज्ञादिाब्दप्रवृविनिमित्तप्राप्तेरनिवार्यत्वेन विधेयस्य कर्मणो यज्ञादिभिन्नत्वासम्भवाच्च, “यज्ञोऽध्ययनं दानमिति प्रथमः’ “यज्ञानां यपयज्ञोस्मि “भोक्तारं यज्ञतपसाम्’ इत्यादिष्विव प्रसिद्धयज्ञादिपरत्वमेव युक्त्तमिति भावः ॥34॥आदिशब्दो यज्ञादिवाक्पर इति - यज्ञादीनां प्रतिपादकं वाक्यं यज्ञादिवाक्यं “कषाये कमर्भिः पके’ इत्यादिकं गृह्यते । अङ्गत्वं वदतेति अयमिहान्वयः- अङ्गत्वं वदता “यज्ञेन दानेने’ त्यादिना ये निर्दिष्टाः तानेवाङ्गत्वेन किञ्चित्कारं वदद्वाक्यमपि यज्ञादिपर्यायधर्मकर्मादिशब्देन निर्दिशतीत्यर्थः इति । ततश्च तत्रापि वाक्ये प्रसिद्धविलक्षणधर्मभ्रान्तिः कार्योति भावः । सिद्धवदिति - सिद्धवन्निदेशरूपादित्यर्थः । “अग्निहोत्रं जुहोति’ इत्यादौ हि साध्यावस्तार्थाभिधायित्वस्वभावेनाऽऽख्यातेनापूवर्म् रूपमुत्पाद्यते, नैव कृदन्तेषु यज्ञादिशब्देष्वित्यर्थः ॥35॥ ॥ इति विहितत्वाधिकरणम् ॥