47 सर्वान्नानुमत्यधिकरणम्

अस्ति नेति विचार्यत इति - प्राणविदामिति शेषः । प्राणविद्यानिष्ठस्यापीति - ननु वामदेव्योपासननिष्ठस्य “न काञ्चन परिहरेत्तद्व्रत’मिति सर्वस्त्र्यपरिहारानुमतिदर्शनात्, किं पुनर्न्यायेन ब्रह्मविदामपि सर्वस्त्र्यपरिहारप्रसङ्गः । यदि च विद्यान्तरप्रकरणे श्रुतस्य विद्यान्तरान्वये प्रमाणाभावात् वामदेव्योपासनाङ्गस्य सर्वस्त्र्यपरिहारस्य न ब्रह्मविदः प्रसक्त्तिरस्तीति, तर्हि प्राणविद्याङ्गभूतस्य सर्वान्नीनत्वस्य न ब्रह्मविदि प्रसक्त्तिरस्तीति चेन्न, वामदेव्योपासने “न काञ्चन परिहरेत्तद्व्रत’मिति सर्वस्त्र्यपरिहरणे विस्पष्टविधिविभक्त्तिश्रवणेन विधेयत्वावगमेपीह तादृशविधिप्रत्ययाभावेन सर्वान्नीनत्वस्य्राङ्गत्वेन विधानाभावेन “एवंविदि पापं कर्म न श्लिष्यते’ इत्यादिवत् “न ह वा एवंविदि किञ्चनाऽनन्नं भवति’ इत्यत्रापि अभक्ष्यभक्षणकृतदोषाभावमात्रप्रतिपादनपरत्वे सिद्धे किमिदं । कामकृतेष्यभक्षणे दोषाभावप्रतिपादनपरम्, उत प्रामादिक एवेति चिन्ताया एवास्मन्नधिकरणे प्रवृत्ततयगा तत्र च प्राणविद्यायाः कामकारस्थलेऽपि अन्नदोषास्पर्शरूपफलसामर्थ्ये पूर्वपक्षिणोपक्षिप्ते सति यदि प्राणविद्याया अपि ईदृशं सामर्थ्यम्, तर्हि सर्वविद्यश्रेष्ठाया ब्रह्मविद्याया अपि कामकृताभक्ष्यभक्षणकृतदोषासस्पर्शहेतुत्वं किन्न स्यादिति यदि कश्चिच्चोदयेत्, तम्प्रति तदपि पूर्वपक्षिणो नानिष्टमित्येवं परत्वादस्य ग्रन्थस्य न दोषगन्ध इति ध्येयम् । पूर्वपक्षभिप्रेतेति - यद्यपि प्राणविद्याविषयविचारे न ब्रह्मविद्याया सङ्गतिरस्ति, तन्मात्रपर्यवसितत्वादस्य विचारस्य, नहि ब्रह्मविदः सर्वान्नीनत्वसदसद्भावयोः पूर्वोत्तरपक्षफलत्वपिति शक्यते वक्त्तुम्, सिद्धान्ते ब्रह्मविदः सर्वान्नीनत्वाभावस्य प्राणविदः सर्वान्नीनत्वाभावे साधकत्वोपन्यासेन फलत्वासम्भवात् । ब्रह्मविदामपीति - ननु ब्रह्मविदां दोषसत्त्व्ेपि “न ह वा एवंविदि किञ्चनाऽनन्नं भवति’ इति प्राणविदां दोषाभावकीर्तनान्नाभक्ष्यभक्षणदोष इति चेन्न, “एवंविदि पापं कर्म न श्लिष्यते’ इति ब्रह्मविद्विषयेति दोषाभावदर्शनसाम्यात्, यदि च “नाविरतो दुश्चरितात्’ इति दुश्चरितस्य निषिद्धतया तद्वचनं प्रामादिकविषयमिति, तर्हि “प्राणसंशयभाषन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा’ इति तस्मात् “ब्राह्मणः सुरां न पिबेत्’ इत्यादिक्लृप्तसामान्यशास्त्राविरोधेनैव न ह वा एवंविदी’ति शास्त्रस्य कल्प्यविधिभावस्य निर्वाह्यत्वात्, यद्वा नायं फलविधिः, क्लृप्तो हि विशेषविधिः सामान्यविधिं बाधते, अत्र क्लृप्तसामान्यविधिविरोधे " न ह वा एवं विदि किञ्चनानन्नं भवति’ इत्यस्य फलविधिकल्पनायोगेन अर्थवादत्वस्यैव युक्त्तत्वात्, न चैवं “एवंविदि पापं कर्म न श्लिष्यते’ इत्यादेरपि स्तुतिमात्रत्वप्रसङ्गः, पाप्मनामश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फलविधित्वस्य वक्त्तव्यत्वात्, प्राणविद्यायाश्च च्येष्ठत्वश्रेष्ठत्वादिफलकत्वेन फलाकाङ्क्षाया अभावात्, “स होवाच किम्मेऽन्नं भविष्यतीति यत्किञ्चिदिदमाश्वम्य आशकुनिम्य इति होचुः तद्वा एतदनस्यान्नम्’ इति श्वपर्यन्तप्राणिजाते विहितस्य प्राणविद्याङ्गस्य प्राणान्नत्वचिन्तनस्य स्तुतिः क्रियते “न ह वा एवंविदि किञ्जनानन्नं भवति’ इति, अतः फलविधित्वाभावात् प्राणविदः प्राणात्यय एव सर्वान्ननुमतिः, अनाविष्कुर्वत्रन्वद्या’दित्यत्र क्लृप्ततैव विशेषविधेः “नाविरतो दुश्चरिता’दिति विशेषशासिेण सङ्कुचितविषयत्वम्, इह तु क्लृप्तसामान्यशास्त्रानुरीधेन “न ह वा एवंविदि’ इत्यस्य विधिकल्पनाभङ्ग इति विवेकः, केचित्तु परमतवद्वामदव्योपासकस्य सर्वस्त्र्यपरिहारवत् प्राणविद्यानिष्ठस्य तदङ्गतया सर्वान्नानुमतिर्विर्धीयत इति पूर्वपक्षं कृत्वा सिद्धान्तमपि तथैव वणयन्ति, परापरमतदूषणपरस्य टीका ग्रन्थस्य च परापरोक्तसूत्राक्षरयोजनामात्रदूषणपरतया विरोधप्रसङ्गो नास्तीति प्रतिपादयन्ति ।
ज्ञानस्य फलत्वादिति - अङ्गभूतज्ञानस्य फलत्वेन कीर्तनादपापश्लोपश्रवणवदर्थवाद इत्यर्थः ॥28॥
॥ इति सर्वान्ननुमत्यधिकरणम् ॥is not available.is not available.is not available.