दूषयति - शङ्का तावदयुक्त्तेति । तथापीति वैयर्थ्यमिति - यमाद्यपेक्षयैव शमदमादेर्विरोधप्रसक्त्तिसत्त्वेन तदनुपेक्षया साकं विरोधाभावात् विरोधसूचकस्य अपीत्येतस्य वैयथ्यम्, ततश्च तथापीत्यस्य यज्ञाद्यपेक्षायामपीत्येवार्थो न तु यज्ञाद्यपेक्षत्वेपीत्यर्थ इति भावः । पूर्वसूत्रविवक्षितस्येति - स्तुत्यर्थपरत्वनिरासस्येत्यर्थः । ततोपि वरमिति - विविदितषासंयोगसमर्थनपरे पूर्वसूत्रे स्तुत्यर्थत्वनिरासस्याऽपेक्षिततया तत्रैव तन्निरासस्योचितत्वादिति भावः ॥27॥ ॥ इति शमदमाद्यधिकरणम् । ।