यज्ञादिश्रुतेरश्ववत्, यज्ञादीनां ज्ञानसाधनत्वे सत्येव इत्यदिभाष्यमयुक्त्तम्, प्रकृतिप्रत्यययोर्मध्ये प्रत्ययार्थप्रादान्येन इच्छायामेव तृतीयया साधनत्वप्रतीतेरित्यत्राह - परमसाध्येच्छया विनेत्यादि । नन्वन्नद्वेषेण कार्श्यं प्राप्तस्य तत्परिहारायान्यविषयौन्मुख्यलक्षणायामिच्छायां सत्यामपि उत्कटाजीर्णादिप्रयुक्त्तधातुवैषम्यदोषात्, तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधवत् निरतिशयानन्दं ब्रह्म तत्प्राप्तौ विद्यासाधनमित्यर्थे प्राजीनबहुजन्मानुष्ठितानमिसंहितनित्यनैमित्तिककर्मोपसञ्जातचित्तप्रसादमहिम्ना सम्पन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ तत्साधनविद्यायाञ्च औन्मुख्यलक्षणायामिच्छायां स्यामपि अनादिमवसञ्चितानेकदुरितदोषेण आस्तिककामुकस्य हेयकर्मणीव विषयभोगप्नावण्यं सम्पादयता प्रतिबन्धाद्विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धादिनिरासपूर्वकमिच्छासम्पादकयज्ञादिविधानमुपपन्नतरमिति चेन्न, सत्यम्, यद्यनेन वाक्येन कर्मणामिच्छादिसंयोगः प्रतिपाद्यते, तदा श्रुतनिर्वाहाय कथञ्चिदियं प्रणाड्याश्रीयेत, नत्वेतदस्ति, नत्वेतदस्ति, प्रकृतिप्रत्ययार्थयोर्मध्ये प्रत्ययार्तस्य प्राधान्यमित्यौपगवादिदृष्टसामान्यन्यायापेक्षया इच्छाविषयतया शब्दबोध्य एव शब्दसाधनान्वय इति स्वर्गकामादिवाक्ये क्लृप्तविशेषन्यायस्य बलीयस्त्वात्, “अश्वेन जिगमिषति’ “असिना जिधांसति’ इत्यादिलौकिकप्रयोगे न अश्वादिरूपसंधनस्य “तसिद्वजिज्ञासितव्यं’ “निदिध्यासितव्यम्’ इत्यादिवैदिकप्रयोगे च तव्यप्रत्ययार्थीभूतविधेश्च सन् प्रत्यया भिहितेच्छाविषय एव गमनान्वयस्य क्लृप्तत्वाच्च प्रकृत्यभिहितायां विद्यायामेवाऽन्वयस्य क्लृप्तत्वादिति भावः । उत्पत्तावपेक्षैव सूत्रप्रतिपाद्येति - यद्यपि परैः पूर्वसूत्रे फलोत्पत्तावनपेक्षत्वमस्मिन्सूत्रे विद्योत्पत्तौ कर्मापेक्षितत्वमित्येवोक्तम्, तथाप्यश्ववदित्यत्र यथाऽश्वो न लाङ्गलाकर्षणे विनियुज्यते, रथचर्यायान्तु युज्यते, एवमाश्रमकर्माणि विद्यया फलोत्पत्तौ नापेक्ष्यन्ते, उत्पत्तौ त्वपेक्ष्यन्त इति, भाष्योक्तत्वात् फलोत्पत्तावनपेक्षाष्यस्मिन्नधिकरणे प्रतिपाद्यत इत्यभिप्रेत्य दूषणमुक्त्तमिति द्रष्टव्यम् । अनन्तराधिकरणपूर्वपक्षहेतुरिति - आद्यसूत्रापेक्षया अनन्तराधिकरणे इत्यर्थः ॥26॥ ॥ इति सर्वापेक्षाधिकरणम् ॥