44 अग्नीन्धनाद्यधिकरणम्

भाष्ये- उर्ध्वरेतसो यज्ञाद्यभावादिति, “ये चेमेरण्ये श्रद्धा तपः इत्युपासते’ इति विद्यासम्बन्धबोधकवाक्यानामान्यपयर्माश्रयणीयमिति भावः, यदि च अवश्यमूर्ध्वरेतसां विद्यासम्बन्धो वक्त्तव्यः’ तर्हि अङ्गानुप्रकृतीविद्यायाः फलानवाप्तेः अङ्गभूतयज्ञाद्यनुष्ठानस्य आवश्यकत्वात् तदर्थं दारान्तरं परिगृहद्याधानं कर्तव्यम् । न च दारपरिग्रहे सति उर्ध्वरेतस्त्वविरोधापत्तिः, विद्याङ्गकर्मार्थं दारपरिग्रहेपि भीष्मवदूर्ध्वरेतस्त्वोपपत्तेः, “सोयमुपनयन्नादधीत होमसंयोगात्’ इति पूर्वतन्त्राधिकरणपूर्वपक्षरीत्या पूर्वपक्षः, तत्र हि उपनयनाङ्गहोम आहवनीये कर्तव्यः, अस्मिन्दारपरिग्रहे सति उपनयनविधिपूर्वकविद्याग्रहणोत्तरकालविहितो दारपरिग्रहः प्रजार्थो भविष्यतीति पूर्वपक्षः प्रवर्तितः, तद्वदत्रापि, नचाश्रमधर्मैतेव विद्याङ्गसिद्धेः यमाद्यनुष्ठानार्थम्, आदानदारसङ्गूहयोराक्षेषो न प्राप्नोतीति वाच्यम्, यज्ञेनेत्यादितृतीयाश्रुत्या विशिष्य यज्ञादीनामपि विद्याङ्गत्वविधानात्, कर्मत्यागश्रुतिस्तु विद्याङ्गकमर्विषया । सिद्धान्तस्तु केवलपुत्रार्थमिव केलधर्मार्थं दारसङ्गहायोगात् “धर्मे चार्थे च नातिचरितव्ये’ति स्मृतेः, भीष्मस्य तु धर्मप्रजोभयार्थे दारपरिग्रहे निर्वृत्त एव पितृप्रीत्यर्थमूर्ध्वरेतस्त्वप्रतिज्ञया पुत्रोत्पादनान्निवृत्तौ सत्यां दाराणां धर्मार्थत्वमात्रमवशिष्यमिति तेन यज्ञाद्यनुष्ठानम्, न तु ऊर्ध्वरेतस्त्वप्रतिज्ञानन्तरं केवलधर्मार्थदारसङ्ग्रहः, श्रुतिस्मृतिसिद्धनिकेतनत्वादिसंन्यासधर्मपर्यालोचनया न संन्यासिनो दररपरिग्रहादिकमुपपद्यत इति भावः । विद्यया फलोत्पत्तौ न कर्मापेक्षेति - क्रत्वर्थत्वाभावेन स्वशेषिभूतकर्मापेक्षा नास्तीत्यर्थः, निगमनप्रयोजनमाह - इदञ्च निगमनमिति ॥25॥ ॥ इति अग्नीन्धनाद्यधिकरणम् ॥