43 पारिप्लवाधिकरणम्

शङ्कया सङ्गतिरिति - विचारणात्सङ्गतिरित्यर्थः, ननु “दक्षिणत आहवचीयस्य हिरण्यकशिपावसीनोऽभिषिक्त्ताया पुत्रामात्यपरिवृताय राज्ञे पारिप्लवमाचक्षीत प्रथमेऽहनि “मनुर्वैवस्वतो राजा’ इति पारिप्लवशब्दस्याऽऽख्यानाभिधायकत्वदर्शनात् कथमाख्यानानां पारिप्लवनामकशस्त्रार्थत्वपूर्वपक्ष इत्यत आह - पारिप्लवा आख्यानानि इह पारिप्लवशब्देन आख्यानशंसनं विवक्षितमिति - शंसनम् शस्त्रम्, आख्यानसाध्यं शसमिित्यर्थः । परिप्लुत्य परिप्लुत्य शंसनमिति पारिप्लवशब्दस्य शस्त्रेपि वृत्त्युपपत्तेरिति भावः, भाष्ये- विद्याविशेषप्रतिपादनार्थानीति “ते हैते माहशाला महाश्रोत्रियाः स्रमेत्य मीमांसांचक्रुः’ इत्याख्याभिकया विद्यायाः परमात्मविषयत्वरूपविशेषप्रतिपत्तेः “मटचीहतेषु कुरुष्वाटक्या सह जायया’ इत्याख्यायिकया विद्यायां भक्ष्यनियमनादिरूपविशेषप्रतिपत्तेर्दर्शनात्तदथर्ानीत्यर्थः, तथा आख्यायिकाश्रवणे अनवहितानामपि अवधानसम्पादनेन प्रतिपत्तिसौकर्या र्थानीत्यर्थः, ननु पारिप्लवे वाक्येन विनियुक्त्तानामपि सन्निधेर्विद्यार्थत्वमपि स्यादिति शङ्कां निरस्यति, भाष्ये- न विद्याप्राधान्यं न्याय्यमिति, “वेधाद्यर्थभेदा’दिति न्यायविरुद्धमिति भावः । ननु “ऐ वाव प्रथमो यज्ञो यज्ञानां यज्जयोतिष्टोमः तस्मादेतेनेष्ट्वा अथान्येन यजेत’ इत्यत्राऽन्यशब्दस्य ज्योतिष्टोमेतरसर्वक्रतुपरामर्शिनः “यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते स त दीपयति यः पञ्चदशम्’ इत्यादिवाक्यशेषगतत्रिवृदादिस्तोमकक्रतुसङ्कीर्तनानुसारेण तावन्मात्रे सङ्कुचितवृत्तित्वापत्त्या अनेकस्तोमकानां क्रतूनां ज्योतिष्टोमात् प्रागप्यनुष्ठानं स्यादिति, ततश्च “एकस्तोमे वा क्रतुसंयोगात्’ “सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम्’ इति पूर्वपक्षसिद्धान्तसूत्राभ्यां प्रवर्तितेन पाञ्चमिकाधिकरणेन विरोधः स्यात्, तस्मादुपक्रमगतसवर्श्रुत्या विद्याप्रकरणगतःरूपानानामपि कर्मसु विनियोगात् पारिप्लवार्थत्वमेव स्यात्, न विद्यार्थत्वमित्यस्वरसादाह - प्रकरणोपात्तेति । उपक्रमानुसारेण उपसंहारनयनस्यौत्सर्गिकत्वेऽप्यत्रानन्तशाखागतशंसनस्य अशक्यत्वेन स्वत एव उपक्रमगतसर्वश्रुतेः सङ्कोचकापेक्षासत्वात् वाक्यशेषेण चापेक्षितसमर्पणात् वाक्योषगतेष्वाख्यानेषु सङ्कोचः, यथा “अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते’ इत्यत्र सवर्शब्दस्याऽसङ्कुचितसर्वपरत्वासम्भवेन सङ्कोचकापेक्षायां ज्योतिष्टोमे प्रकृतेषु ॠत्विक्ष्वेव सङ्कोचः, न सर्वेषाम् । किञ्च यद्युपक्रमगतसर्वश्रुत्या आख्यानानां सर्वेषां गृहीतिस्स्यात्, तदा “मनुर्वैवस्वतो राजा’ इत्यादिवाक्यशेषविशेषणमनर्थकमेव स्यात्, न चार्थवत्वे सम्भवति आनर्थक्यं युक्त्तम्, अतः सङ्कोचः । “यो वै त्रिवृदन्यम्’ इत्यादिवाक्यशेषस्तु संयोगमात्रेणैवोपपद्यते, अन्यशब्देन चाविशेषः प्रतीयते, त्रिवृदादीनामनेकस्तोमकेष्वपि विनापि व्याप्त्या संयोगमात्रेण दीपकत्वं सम्भवतीति वैषम्यमस्तीति द्रष्टव्यम् ॥23॥हिरण्यदक्षिण्यत्ववाक्येनोति - रजतहिरण्यस्येत्यर्थः, तस्माद्धिरण्यमिति श्रुतेरिति भावः ॥ ॥ इति पारिप्लवार्थाधिकरणम् ॥