अनन्तराधिकरणद्वयमिति - पुरुषार्थाधिकरणापेक्षयेति शेषः । भाष्ये- परमः परार्थ्य इति, परमात्मप्रतीकत्वात्परमः परस्य ब्रह्मणः अर्थं स्थानमर्हतीति परार्थ्यः । पूर्वं सप्तानां रसानामिति - “एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ॠग्रस ॠचस्साम रसः साम्न उद्गीथरसः’ इति पृथिव्यादीनां सप्तानां पूर्वं रसानां कीर्तितन्वादित्यर्थः । भाष्ये- अत्र प्रतिपादितमुपासनपरत्वमित्यादि, नन्वस्मिन्नधिकरणे “स एव रसानां रसतमः’ इत्यादिवाक्यानामुपास्यविशेषसमर्पकत्वम्, उत स्तुतिपरत्वमित्येव चिन्ता प्रक्रियते, न तु “ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिवाक्यानामपि उपासनविधिपरत्वमस्ति, नेति विचारः प्रवर्तते, तेषां वाक्यानामनुदाहृतत्वादिति चेत्- मैवम्, रसतमादिवाक्यानामपि स्तावकत्वमिति पूर्वपक्षिणो द्वेधाभिप्रायः, अत्र “उद्गीथमुपासीत’ इति नोपासनं विधीयते, उद्गीथविधिसिद्धानुष्ठानौपयिकज्ञानसामान्यवाची उपासनशब्दः, अतोऽनुवाद एव । अतश्च रसतमादिवाक्ये समभिव्याहृतविध्यभावेन तदेकवाक्यतया स्तावकत्वाभावेन उद्गीथपदोपस्थापितक्रतुपकरणगतोद्गीथविथ्येकवाक्यतयैव रसतमादिवाक्यानां स्तावक्रत्वम् । न च स्तावकवाक्यानां स्तुतिविधिसमभिव्याहारनियमोऽस्ति “एतद्व्राह्मणान्येव पञ्च ह वीषि यद्व्राह्यणानीतराणि’ इत्यतिदिष्टेष्वर्थवादेषु व्यभिचारादित्येकः पक्षः, “उद्गीथमुपासीत’ इत्युपासनाविधिमभ्युपेत्य तदेकवाक्यतया तत्स्तावकत्वम् नोपासनाविषयसमर्पकत्वम् । “ओमित्येतदक्षर’ मित्यनेनैव उपासनविषयसमर्पणादिति द्वितीयः पक्षः, तत्र द्वितीयपक्षे उपासनानां सद्भावेपि प्रथमपक्षे उपसनाविध्यभावात् अत्र प्रतिपादितमुपासनाविधिपरत्वमित्येतत्तदभिप्रायेणेति द्रष्टव्यम् । स्तुतिर्ह प्रमाणान्तरप्राप्तेति - “विरोधे गुणवादः स्यादनुवादोऽवदारिते । भूतार्थवादस्तद्धानात् अर्थवादस्त्रिधा मतः’ इति वाक्यविद्भिरुक्त्तत्वात्, मानान्तरविरोधे गुणवादो यथा “यजमानः प्रस्तरः’ “ग्रावाण।प्रवन्ते’ इत्यादौ । मानान्तरावधारिते अनुवादो यथा “अग्निर्हिमस्य भेषज’मिति । साधकबाधकप्रमाणभावे भूतार्थवादो यथा - “वज्रहस्तः पुरन्दरः’ इत्यादौ । अप्राप्तगुणविधानेन वेति - अप्राप्तधर्मोपदेशेन भूतार्थवादेनेत्यर्थः । अतश्च कथं गुणविधायकस्यार्थवादान्तर्भाव इति शङ्का न कार्या - अत्र तु तथा सन्निहतत्वाभावेनेति । “एतद्व्राह्मणान्येव पञ्च हर्वीधि’ इत्यादिवचनबलात् पञ्चसञ्चरविध्येकवाक्यत्वमिति भावः ॥21॥भाष्ये- विधिपरत्वमेव न्याय्यमिति, विस्पष्टविधिविभक्त्तिश्रवणात् ध्यानपर्यायस्योपासनस्थाऽफ्राप्तत्वाच्च उपासनविधिपरत्वमेव न्याय्यम् । ततश्च समभिव्याहृतोपासनविध्येकवाक्यत्वे सति नासमभिव्याहृतोद्गीथविध्येकवाक्यत्वं युक्त्तमित्यर्थः । नन्वस्तु समभिव्याहृतोपासनविध्येकवाक्यत्वं, तथापि स्तुत्यर्थेत्वेनान्वयः किन्न स्यादिति शङ्कमुपसंहारव्याजेन निरस्यति, भाष्ये- तस्मादुपासनविधानार्था एताश्श्रुतय इति, उपास्यत इत्युपासनम्, कमर्णि बहुवचनात् ल्युट् उपास्यविधानार्था इत्यर्थः, यद्वा उपासने विषयविधानार्था इत्यर्थः, उपासनविषयसमर्पकतया प्रवृत्तिविशेषपरत्वेन सम्भवति व्यर्थप्रयासस्तुत्यर्थत्वकल्पनायोगादिति भावः ॥ * ॥ ॥ इति स्तुतिमात्राधिकरणम् ॥