41 पुरुषार्थाधिकरणम्

किमाचारदर्शनादिलिङ्गानुगृहीतमिति लिङ्गशब्दः प्रमाणमात्रपरः, आचारदर्शनादिरूपशेषत्वग्राहकप्रमाणानुगृहीतमित्यर्थः, एवमुत्तरत्रापि लिङ्गशब्दः प्रमाणमात्रपरो द्रष्टव्यः, इतरथा “तच्छ्रुते’रिति सूत्रोक्ततृतीयाश्रुतेरसङ्गृहीतत्वप्रसङ्गात् । केचित्तु “यदेव विद्यया करोती’त्यादिरपि वर्तमाननिर्देशतया अन्याथर्दर्शनरूपलिङ्गमेव, न चैवं सति “तच्छ्रुते’रित्यस्य लिङ्गमिदम्, प्राप्तिरुच्यताम्’ इत्यवतारिकाभाष्यतट्टीकाग्रन्थविरोय इति वाच्यम्, अस्याभ्युपेत्यवादत्वादिति वर्णयन्ति । अनैकान्तिक-त्वाभाव इति - आचारदर्शदीनां विद्यायाः कर्मशेषत्वानन्यथासिद्धत्वसाधकत्व इत्यर्थः, नन्वाचारदर्शनादीनामनैकान्तिकत्वाभावे विद्या क्रत्वर्थेत्येतावतैव फलफलिभावस्य परिपूर्णतया तदनुगृहीतसामानाधिकरण्येनेत्यादिरुत्तरग्रन्थसन्धर्भो व्यर्थ., शेषत्वसिद्धयुपजीवभावावगमस्य कथं शेषत्वसाधकत्वम्, अन्योन्याश्रयप्रसङ्गात्, तथाहि “आचारदर्शनादित्यादिपूर्वपक्षसूत्रपञ्चकोक्तन्यायेन विद्यायाः कर्मशेषत्वे सिद्धे पार्वणहोमयोः कालार्भेज्यात्वे आरादुपकारकत्वप्रसङ्गात् सामवायिकत्वलिप्सयाकर्मसमुदायेज्यात्वाङ्गीकारवत् सामवायिकाङ्गत्वे सम्भवति आरादुपकारकाङ्गत्वस्याऽन्याय्यत्वादिति न्यायेन कर्तृसंस्कारमुखेन शेषत्वस्योचितत्वात्, आत्मा द्रष्टव्यमः’ कर्तृतया उपयोगसम्भवे सक्त्तुन्यायेन विनियोगस्याऽयुक्त्तत्वात्, कर्तृसंस्कारमुखेन उपासनस्यक्रतुशेषत्वं न्याय्यम्, अतः कर्मक्रर्तुः वेदान्तविहितोपासनकर्मभूतब्रह्माभिन्नत्वम्, अतश्च “तत्त्वमसि’ इति सामानाधिकरण्यनिर्देशोऽपि अनुगृहीतो भवतीत्येवं शेषत्वसिद्धयुपजीवित्वात् जीप्रह्माभेदस्य कथं तस्य शेषित्वोपपादककोटौ निवेशनमिति चेत्- अत्राहुः, नह्याचारदर्शनादीनां लिङ्गत्वसद्भावमात्रे विद्यायाः क्रत्वर्थत्वसिद्धिः, लिङ्गानामनुग्राह्यप्रमाणसापेक्षत्वात्, अनुग्राह्यस्य च “आत्मानमुपासीत्’ इत्यादिवाक्यादन्यस्याभावात्, तत्र चात्मानमित्यस्य कर्तृजीवतिरिक्त्तविषयत्ववाक्यविधया क्रत्वर्थत्वबोधकासम्भवेन तस्य वाक्यस्य लिङ्गानुग्राह्यवाक्यविधाया क्रत्वर्थत्वबोधकत्वसिद्धेः जीवस्य ब्रह्माभेदमन्तरेणाऽसम्भवात् उत्तरग्रन्थस्य साफल्यादिति । केचित्तु सत्यं शेषत्वोपपाद्य एव जीवब्रह्मभेदः, तथापि न तत्साधितेन जीवब्रह्माभेदेन पुनस्तदेव साध्यते, येनान्योन्याश्रयः स्यात्, किन्तु शेषत्वसाधितेन जीवब्रह्माभेदेन कमर्कर्तृसंस्कारमुखेन शेषत्वं साध्यते, तावत्पर्यन्तो हि पूर्वपक्षः, न शेषत्वमात्रपर्यवसितः, “शेषत्वात्पुरुषार्तवातः’ इति सूत्रेऽपि कर्तृसंस्कारद्वारा शेषत्वं विवक्षितमिति भाष्याभिप्रायात् अस्याधिकरणस्य जीवब्रह्माभेदप्रतिपादनपर्यन्ततया तथैव सूत्राभिप्राग्रस्य वक्त्तव्यत्वादिति वदन्ति । प्रतिबन्धनिवृविद्वारकमिति - “अमृत इह भवती’ ति निर्दाषत्वश्रवणादित्यर्थः । उभयमप्यभिहितमिति - प्रतिबन्धनिवअविरिष्टप्राप्तिश्चेत्यर्थः ॥1॥अधीत्य स्त्रास्यन्निति ज्ञानमपि कमर्शेषत्वेनाऽवगतमिति - इदमाचारदर्शनादिति सूत्रपञ्चकोक्तस्योपलक्षणम्, अत्रापि भिन्नकमः, क्रमशेषत्वेनाऽप्यवगतमित्यर्थः । तस्स्वरूपप्रतिपादनपरमिति - तत्स्वरूपोपासनप्रतिपादनपरमित्यर्थः । पृथक्फलसाधनत्वान्न कर्माङ्गस्वमिति - यद्यपि क्रत्वर्थस्य श्रुतिलिङ्गादिमिरवगत्वादेव नास्याः शङ्काया अवतारः, तथापि विद्यायाः क्रत्वर्थत्वे “आत्मानमुपासीत’ इत्यादिवाक्यमपि प्रमाणयितुमियं शङ्काऽवतारितेति द्रष्टव्यम् । यद्वा तेषां लिङ्गमात्रत्वेन प्रापकप्रमाणत्वासमभवादित्यत्र तात्पर्यमिति द्रष्टव्यम् । भाष्ये- ननु च कर्तृसंस्कारमुखेनेत्यादिशङ्कापरिहारौ नोपपद्येते, यदि हि “यस्य पर्णमयी जुहूभर्वति’ इत्यादिवत् “आत्मानमुपासीत’ इत्यादिवाक्येन क्रत्वर्थत्वं बोध्यतेत्, तदा आत्मनो जुह्वादिवत् क्रत्वव्यभिचरिततया क्रतूपस्थापनसमर्थत्वात् जुहूपदस्य क्रत्वपूर्वीयजुहूपलक्षकत्ववत् आत्मशब्दस्य क्रत्वपूर्वलक्षकत्वात् क्रत्वथर्त्वमित्येवं क्रत्वर्थत्वे वाक्यं प्रमाणीकृतं स्यात्, तदा चेमौ शङ्कापरिहारौ युज्येते, न हि तथा प्राग्वाक्यं प्रमाणतयोपपादितम्, अपि तु आचारदर्शनादिलिङ्गेन “यदेव विद्यये’ति श्रुत्या च क्रतुशेषत्वमवमम्यते, “आत्मा द्रष्टव्यः’ इत्यात्मशेषता चावगम्यते, ततश्चोभयसामञ्जस्याय प्रोक्षणस्य प्रकरणावगतक्रत्वङ्गभावस्य द्वितीयाश्रुत्याऽवगतव्रीहिशेषभावनिर्वाहाय व्रीहिसंस्कारद्वारा क्रत्वर्थत्ववत् उपासनस्यापि कर्तृसंस्कारद्वारा कर्मार्थत्वं निर्वोऽव्यमित्यस्योपक्षिप्तत्वेन “आत्मानमुपासीत’ इत्यस्य वाक्यविधया कर्मार्थत्वपयर्न्तप्रतिपादकत्वस्याऽनुपक्षिप्तत्वादिति केषाचिन्मन्दाशङ्का पराकृता । अत्र वाक्यस्यापि “अतः कर्तुः संस्कारद्वारेण विद्यायाः क्रतुशेषत्व’मिति भाष्ये प्रमाणीकरणात् । भाष्ये- द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् इति, “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ “यदाङ्क्त्ते चक्षुरेव भ्रातृवयस्य वअङ्क्त्ते यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानाय भ्रातृव्याभिभूत्यै’ इत्यादिविधिविधेयेषु वाक्यप्रकरणावगतक्रत्वङ्गभावेषु पर्णतादिद्रव्येषु अञ्चनादिसंस्कारेषु प्रयाजादिकमर्सु च फलश्रवणमर्थवाद इति पूर्वतन्त्रे निर्णीतम् । न ह्यन्यशेषमन्यशेषं भवतीति - लौकिकवैदिककर्मसाधारणस्याऽऽत्मनो वैदिककर्माव्यभिचरितत्वं न सम्भवतीत्यर्थः । तदसाधारणमेव हि तदङ्गमिति - तत्प्रत्यभिज्ञापकमित्यर्थः ॥2॥गुणमुख्ययोर्विरोध इति । अङ्गप्रधानयोः दीक्षणीयासोमयोः “य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेत’ इत्येकस्मिन् पर्वकाले प्रसक्त्तौ प्रधानस्यैव पर्वकालकर्तव्यत्वम्, न दीक्षणीयायाः इति पूर्वतन्त्रे विर्णीतत्वात् सोमयागेषु सुत्यप्रयोगस्य अहोरात्रव्यापित्वात् विद्यायाश्चाऽन्वहं शीलनीयतया विरोधसद्भावात् विद्यायाः प्रधानत्वे तत्त्यगेन कर्मणामनुष्ठानं नोपपद्यत इत्यर्थः । ननु विद्ययेति तृतीयाश्रुतेः न शेषत्वप्रमाणत्वम्, तृतीयया साधनत्वमात्रप्रतिपादनेऽपि समाहितसाधनत्वरूपशेषत्वाप्रतिपादनादित्याशङ्कय श्रुतिमात्रस्य तत्राप्रमाणत्वेऽपि श्रुतिलिङ्गादिसहितचोदनायाः प्रमाणत्वं सम्भवति “कर्त्तुस्समीहितं येन सिद्धयत्यङ्गं तदुच्यते । प्रमाणञ्च विधिस्तत्र श्रुतिलिङ्गादिसंयुतः’ इत्यभियुक्त्तोक्तेरित्यभिप्रयन्नाह - आगमप्रमाणस्य श्रुतिलिङ्गादयोऽनुग्राहका इति । श्रुतिलिङ्गाद्यनुगृहीतस्य विधेः प्रमाणत्वमित्यर्थः ॥3॥नेयं श्रुतिरिति - विद्यापदश्रुतिरित्यर्थः, न तु प्रकृता तृतीया श्रुतिरिति भ्रमितव्यम् । विद्यामात्रविषया हीयं श्रुतिरिति - य एव वन्हिमान्देशः स एव धूमवान् इतिवत्, यदेवेति सर्वनामावधारणाभ्यां हि व्याप्तिरवगम्यते, यदेव कर्म करोति यद्यत्कर्म करोतीत्यर्थः, ततश्च कर्ममात्रे विद्या साधनत्वेन विधीयते, ततश्च विद्यायाः सर्वकर्माङ्गत्वं विद्याशब्दस्योद्गीथविद्यामात्रविषयत्वेनाऽवकल्पत इति विद्याशब्दस्य सर्वविद्याविषयकत्वमेव वक्त्तव्यमिति, अतोऽपि सर्वविषयत्वं विद्याशब्दस्यति द्रष्टव्यम् ॥4॥is not available.आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाऽभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधत’ इति छान्दोग्ये श्रूयते, आचार्यकुलवासी सन् वेदमधीत्य यथाविधानं स्मृत्युक्त्तनियमैयुक्त्त इत्यर्थः । स्मृत्युक्त्तनियमेष्वपि गुरुशुश्रूषायाः प्राधान्यमुच्यते- गुरोः कर्मातिशेषेणेति, कर्मानवरुद्धकालेन वेदमधीत्येतेयन्वयः, अभिसमावृत्यगुरुकुलान्निवृत्येत्यर्थः, कुटुम्बेगार्हस्थ्याश्रमे स्थित्वा, गार्हरथ्येऽप्यविस्मरणार्थं वेदाभ्यासंकुर्वन्नेव धार्मिकान्विदधत् पुतष्यादीन् धर्मनिरतान् कुर्वन् धर्मोपयुक्त्तानर्थान् सम्पादयन्निति वा, एवमर्थज्ञानपर्यन्ताथ्ययनवतः कर्मसु निरतेर्विधानात् अर्थज्ञानं कर्माङ्गमित्येवं परे वर्णयन्ति । आचार्यास्तु भुकत्वा सानन्दमास्ते’ इत्यादौ सानन्दमित्यास्यान्वेतुं योग्यत्वेऽपि न पूर्वनिर्दिेष्टेन वत्वाप्रत्ययान्तेनाऽन्वयः, अपि तु उतरेणास्त इत्यनेनैवेत्येवं दर्शनात्, यथाविधानं गुरोः कमर्ातिशेषेणत्यस्य न पूर्वेणादीत्येत्यनेनाऽन्वयः, व्यवहितान्वयदोषप्रसङ्गश्च, अतो “ब्रह्मचारी वेदमधीत्य उपेत्याऽऽहृत्य गुरवेऽनुज्ञातो दारान्कुर्वीत विद्यान्ते गुरोरर्थेन निमन्त्र्य कृत्वाऽनुज्ञातस्य वा स्नान’मित्यादिस्मृत्यनुसारात् “आचायर्ाय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’ इत्यादिश्रुत्यनुसाराच्च गुरोर्यथाविधानमाचार्यस्य नियमनमनतिलङ्घय तस्य कर्तव्यं कर्मातिशेषेणअशेषेणाऽभिसामावृत्य निर्वत्यर् इत्येवार्थो वक्त्तव्य इत्यभिप्रेत्य निश्शेषमिति व्याचक्रुः, अतिशेषेणेत्यत्र अतिरर्थाभावे वर्तते, अतिमर्यादोऽमर्याद इत्यर्थदर्शनात् । न च “गुरोः कर्मातिशेषेण जपे’दिति स्मृत्यैकरूप्यात्, तद्वदेव कर्मातिशेषशब्दस्यापि कर्मातिशेषशब्दस्यापि कर्मातिशिष्टकालपरत्वं वक्त्तव्यमिति वाच्यम्, शेषातिशेषशब्दयोः भिन्नार्थत्वेन तत्प्रत्यभिज्ञानभावात् तस्य नैष्ठिकब्रह्मचारिविषयत्वात् अस्मदुक्त्तार्थस्य स्मृत्यनुगुणाचार्योक्तार्थत्वमेव वक्त्तुं युक्त्तम् । अविवक्षितार्थत्वादीति - तात्पर्यासिद्धयादिदोषपरिहारार्थमित्यर्थः, अर्थावबोधसुद्दिश्य शब्दोच्चारणे हि लोके वाक्यानां तात्पर्यमवगम्य तन्निर्वाहाय मुख्यार्थासम्भवे लक्षणादिकं कल्प्यते, नतूच्चारणमात्रेण, अत एव गौरश्वः पुरुषो हस्तीति पादानामुच्चारणमात्रेण लक्षणा न कल्प्यते, यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते, तदेव तन्निर्वाहार्थम्, अयं गौर्वलवर्दः अश्वो वेगवान् पुरुषो नियतचेष्टः हस्ती महावलः- इत्यश्वादिपदानां लक्षराध्याहारादिकं कल्प्यते, एवञ्च वेदवाक्यानामर्थावबोधमुद्दिश्य उच्चारणाभेवे तात्पर्यासिद्धया तन्निर्वाहार्थं लक्षणागौणवृत्यध्याहारव्यवधारणकल्पनोच्छेददोषप्रसङ्गादवश्यं वेदेऽप्यर्थावबोधमुद्दिश्य उच्चारणस्य वक्त्तव्यत्वात् वेदे च लोक इव रागप्राप्तस्यार्थावबोधोद्देश्यकोच्चारणस्या भावात् विधिप्रयुक्त्तमेव तदाश्रयणीयम्, विधिश्चाध्ययनविधेरन्यो न दृश्यत इति तेनैवाऽर्थावबोधमुद्दिश्य गुरुमुखोच्चारणानूञ्चारणरूपमध्ययनं विधीयत इत्यकामेनापि स्वीकार्यम्, तत्समानार्थत्वात् “आचार्यकुलद्वेदमधीत्य’ इत्यत्रापि तथोक्तमिति भावः । स्नात्वा जुहुयादिति - वत्वाप्रस्ययेन सति सम्भवे कर्तृकारकैक्यावगमात् तस्य च प्रयोगैक्य एव सत्वात् प्रयोगैक्यस्य चाङ्गाङ्गिभावमन्तरेणानुपपत्तेः, कालाथर्सायोगस्य सति मत्यन्तरे अयुक्त्तत्वाच्चेति भावः । ननु अङ्गाङ्गिभावे सत्यपि औपनिषदब्रह्माविद्याया एवाङ्गित्वे किं न स्यादित्यत आह - न हि क्रतुज्ञानस्येति । पूर्वभागार्थज्ञानतुल्यत्वादौपनिषदार्थज्ञानस्येत्यर्थः ॥6॥is not available.ननु उपात्तेषु वेदान्तवाक्येषु “यस्सर्वज्ञः’ इत्यादीनां स्वरूपोपदेशपराणां सत्वेन वेदनोपदेशपरेष्विति भाष्ये, कथमुच्यत इत्यत आह - उपासनवाक्योपयोगित्वादित्यादिना ॥8॥अङ्गित्वे ह्यननुष्ठानं नोपपद्यत इति - ननु अङ्गत्वेप्यननुष्ठानं नोपपद्यत एव, यदिचानभिसंहितफलकर्मण एवाङ्गत्वं न’ तस्याऽनुष्ठानमिति, तर्हि तस्यवाङ्गित्वमप्यस्तु इति चेत्, तथा पूर्वपक्षिणोऽनभिप्रेतत्वादिति भावः ॥9॥भाष्ये- प्रस्तुतोद्गीथविशेषनिष्ठत्वादिति, विशेष्यत इति विशेषः, उद्गीथशब्दः उद्गीथविद्यापरः, ततश्च यच्छब्दस्य उद्गीथविद्याक्रियमाणसोमयागनिष्ठत्वादित्यर्थः, केचित्तु उद्गीथाख्यकर्मपरत्वेअपि न दोषः, प्रबलकर्मान्तराप्रतिबद्धफलजनकत्वरूपं वीर्यवत्तरत्वमुद्गीथेन सम्भवति, उद्गीथस्याङ्गत्वेन फलजनकत्वाप्रसक्त्तेरिति वाच्यम्, करणानुग्रहस्यैवाङ्गकार्यत्वेन तादृशफले वीर्यक्त्तरवस्य प्रबलकर्मान्तराप्रतिबद्धस्य सम्भवादित्याहुः । एकपदसामर्थ्यं हि श्रुतिरिति - अत्रैकपदमसहायंवाचि “अभिधातुं पदेऽन्यस्मिन् निरपेक्षो रवः श्रुतिः’ इत्यभियुक्त्तोक्तेः स्वत एव निश्चयसमर्थत्वमिति यावत्, इयांस्तु विशेषः, समभिव्याहृतपदान्तरसापेक्षत्वेन श्रुतित्वमित्यध्वरमीमांसकाः, सङ्कोचकाभावात् प्रापकप्रमाणान्तरनैरपेक्ष्यमपि श्रुतिकोटौ निविशत इत्याचार्याणामभिप्रायः, अत एवानुवादस्सन्निहितपरामर्शीति वाचोयुक्त्तिर्युक्त्तिमती, अनुवादस्याऽपि श्रुतिरूपत्वे सन्निध्यनुरोधेन सङ्कोचस्य क्लेशेन निर्वाह्यत्वात् । केचित्तु श्रुतिर्न सम्भवतीत्यर्थ इत्यस्य सति सम्भवे अनुवादस्य सन्निहितगामित्वात् प्रकृताप्रकृतग्राहिणी श्रुतिर्न सम्भवतीत्यर्थ इति व्याचक्षते ॥10॥is not available.अग्निशब्दस्य तावन्मात्रे प्रसिद्धिस्वारस्यादिति - जुह्रादिशब्दवत् क्रत्वपूर्वीयत्वस्यानादरणीयत्वात्, अयम्भावः, क्रत्वपूवर्ीयत्वं हि न शकत्या उपस्थाप्यम्, अपि तु लक्षणया, सा च मुख्यार्तानुपत्तौ सत्यामवकल्पते, यस्य पर्णमयी जुहूर्भवति’ इत्यत्र तु जुहशब्दस्य जुह्राकृतिमात्रे पर्यवसायित्वेन तस्याः पर्णतामन्तरेणापि सम्भवात् जुहूस्वरूपमात्रपर्यवसितपर्णताया आनर्थक्यप्रसङ्गेन जुहूपदस्य क्रत्वपूर्वीयलक्षणाश्रयणेऽपि अग्निशब्दस्य नक्त्तं गार्हपत्यमादधाति’ इत्यादिवाक्यपर्यालोचनया संस्मारव्शिेषविशिष्टवचनतया तावन्मात्रपर्यवसितत्वेपि आनर्थक्यप्रसङ्गेन जुह्रादिवत् क्रत्वपूर्वीयलक्षणाया अनावश्यकतया क्रतुपर्यन्तत्वाभावादित्यर्थः । शब्दस्वारस्यामिति - शब्दस्वारस्यमिति तव्यप्रत्ययस्वारस्यमित्यर्थः, तव्यप्रत्ययेन स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेः शोपित्वावगमादिति भावः । वेदमधीत्य स्नास्यन्निति - यद्यपि समावर्तनाङ्गकलापस्यैव अध्ययनानन्तर्थं शब्दार्थः, न तु समावर्तनस्य, यदि कत्वाप्रत्ययेन स्नानस्याऽध्ययनानन्तर्थं प्रतिपिदापयिषितं स्यात्, तदा पकत्वा भोक्ष्यमाणः स्नाति इत्यादौ स्नास्य पाकपूर्वभावित्ववत् गोष्ठप्रवेशादिनामध्ययनप्राग्भावित्वस्याऽपि प्रसङ्गात्, तथापि समावर्तनाङ्गानामानन्तर्थे समावर्तनस्याऽप्यानन्तर्यमिति भावः । स्वोपयोग्यर्थज्ञानस्येति - स्नानोपयोग्यर्तमानस्येत्यर्थः, न च तावन्मात्रस्यैवाऽवसरप्रदः स्यात्, नान्यस्येति, वाच्यम्, तुल्यन्यायतया स्नानानन्तरमेव दारपरिग्रहस्य कर्तव्यत्वेन दारपरिग्रहमारभ्य चाग्निहोत्रादेर्नैरन्तर्येण अनुष्ठयतया तस्यप्यवसरप्रदत्वसम्भवादित्यर्थः, ननु समावर्तनदारपरिग्रहादेरप्यथर्ज्ञानसाध्यतया तस्य च मीमांसामन्तरेण असाध्यत्वात्, अध्ययनशब्दस्य अर्थज्ञानपरत्वाभावे समावर्तनदारपरिग्रहादेरप्यनिष्पत्तिप्रसङ्गादित्यत आह - यावदर्थमानमिति । “न शूद्राय मतिं दद्यात्’ इत्यध्ययनस्यार्थज्ञानपर्यन्तत्वपक्षेऽपि “स्वाध्यायोऽध्येतव्यः’ इत्यध्ययननियमस्य स्वशास्वामात्रविषयतया स्वतीयेतरशास्वाविहिताङ्गजाते तदध्ययनविधिमन्तरेणैव तत्तदध्येतृभ्यो गृहीत्वानुष्ठानं युक्त्तमिति त्रैवणिर्केष्वभ्युपेतत्वात्, शूद्रं प्रति सर्वासामपि शाखानां स्वीयेतरत्वात् तदध्ययनाभावेपि तदध्येतृभ्यो गृहीत्वा कर्मानुष्ठानं को वारयेत्, ननु शूद्रस्य क्रत्वनुष्ठानापेक्षितं ज्ञानं कार्त्स्न्ेनाक्षेप्यम्, त्रैवर्णिकानान्तु स्वाशाखेतरशाखाविहिताङ्गमात्रविषयमित्याक्षेपलाघवात् क्रतुविषयस्तानेवाऽधिकुर्वन्ति, न शूद्रमिति चेत्, एवं तर्हि यस्य कर्मणो यस्यां शाखायां विधानं “भूयस्त्वेनोभयश्रुति’ इति न्यायेन प्रधानस्य्रापि विधानम्, शाखान्तरे तु किञ्चिदङ्गविधानम्, तत्र कर्मणि तच्छास्वाध्यायिनामेवाऽधिकारेः स्यात् ज्ञानाक्षेपलाघवात्, न तु शाखान्तराध्यायिनाम्, यस्य कर्मणः तदङगस्य कस्यचित् यस्यां शाखायां विधानं नास्ति, किन्तु शाखान्तर एव साङ्गस्य तस्य विधानम्, तत्र कमर्णि तच्छास्वाध्यायिनामधिकारो न स्यात्, शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कार्त्स्न्ेनाऽऽक्षेप्यत्वात्, तस्मात् त्रैवर्णिकानामपि ज्ञानाक्षेपस्य सम्प्रतिपन्नतया तद्वदेव शूद्रस्यापि कर्मानुष्ठानोपयोगिज्ञानाक्षेपसम्भवात् तत्तद्वेदविद्भयोऽवगत्य कर्मानुष्ठानमुपपद्यत एवेति अध्ययनस्य अथर्ज्ञानपर्यन्तत्वे शूद्राधिकारस्य अनिवार्यतया तस्माच्छूद्रो यज्ञेऽनववलृप्तः’ इत्यादिनिषेधविधिरेव शरणीकरणीय इति भावः । अध्ययनशब्दवाच्यव्यतिरिक्त्तत्वाद्विद्याया इति - अध्ययनफलव्यतिरिक्त्तत्वात् विद्याया इत्यर्थः ॥12॥अर्थज्ञानदर्थान्तरत्वं कर्मेतिकर्तव्यताकत्वच्चेति - कर्माङ्गत्वानर्हवक्यार्थज्ञानादर्थान्तरभूतायाः कर्माङ्गत्वस्वभाववत्तया कुर्वन्नेव’ इति वाक्यस्य अङ्गभूतकर्मविषयत्वेनाऽप्युपपत्तिरस्तीत्युक्त्तमित्यर्थः ॥13॥is not available.भाष्ये- येषां नोयमात्माऽयं लोकः- इति, लोक इव प्रत्यक्ष इत्यर्थः, एकेवजसनेयिन इत्यर्थः ॥15॥नह्यङ्गेनाऽङ्गिन इति - नन्वेवं सति कर्मणो विद्याङ्गत्वमपि न स्यात् अङ्गिना अङ्गोपमर्दस्याऽप्ययोगादिति चेन्न, येषां कर्मणां निवर्त्यत्वं तेषां विद्याङ्गत्वानभ्युपगमात्, न चैततत्परेणाऽपि कर्मभेदाभ्युपगमेन सुवचमिति वाच्यम्, जैमिनिना उपनिषदां जीवातिरिक्त्तब्रह्मपरत्वमपह्नुत्य देहातिरिक्त्तात्मपरत्वमभ्युपगम्य तद्वेदनं पारलौकिकसर्वकर्माङ्गमित्यङ्गीकृतत्वात्, तन्मते विद्यावितर्त्यकर्मणामपि पारगौकिकात्मवेदनसाध्यत्वाविशेषेण विद्यां प्रत्यप्यङ्गित्वस्य वक्त्तव्यत्वात्, अङ्गनाऽङ्गिन उपमर्दो न सम्भवतीति भावः ॥ 16॥is not available.भाष्ये- प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते इति, प्रकरिष्यमाणमित्यर्थः, “ओङ्कारेण सर्वा वाक् संतृण्णा ओङ्कार एवेदं सर्वम्’इत्युतरत्र प्रणवोपासनस्य विधित्सितत्वादिति भावः । भाष्ये- तेषामाश्रमाणामिति च्छेदः, ननु परामर्शेऽपि आश्रमा गम्यन्त एव, सत्यं गम्यन्त, स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः; न प्रत्यक्षया श्रुत्या, प्रत्यक्षश्रुतिविरोधे च “विरोधे त्वनपेक्ष्यं स्यात्’ इति नयेन सिद्धम्, अथवा अन्धपङ्ग्वादिकर्मानधिकृतविषया स्यात्, । ननु गार्हस्थ्यस्यापि परामर्शमात्रम्, “यज्ञोऽध्ययनं दान’मिति, ततश्च तदपि न सिद्धयेदिति चेत्- सत्यम्, एवं गृहस्थं प्रत्येव सर्वकर्मणां श्रुतिषु विधानात् श्रुतिप्रसिद्धमेव तदस्तित्वम् । भाष्ये- “येचेमेरण्ये’ इति देवयानविधिपरत्वादिति, “तद्य इत्थं विदुः ये चेमेरण्ये श्रद्धा तप’ इत्युपासते तेऽर्चिषमभिस्भवन्ति’ इति देवयानविधिषरत्वादित्यर्थः, “एतदेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ इत्ययन्तु लोकसंस्तवः, न पारिव्राज्यविधिरिति भावः । भाष्ये- योऽग्निमुद्वासयते’ इत्यादिकेति, आदिशब्देन “आचार्याय प्रियं धमामाहृत्य प्रजातन्तुं माव्यवच्छेत्सीः नापुत्रस्य लोकोस्ति, इत्यादि गृह्यते ॥18॥भाष्ये - अथ गृहस्थाश्रमस्थानुवादः इति, अन्यतः प्राप्तेरभावेन अनुवादत्वासम्भवेन यद्स्यैव विधिपरत्वमभ्युपेयते, तदितरेषामपि समानमिति भावः । परामर्शपक्षे विधानपक्षे तुल्यमित्याद्युपसंहारभाष्यानुसारात्, न च स्तुत्यर्थतयाऽनुवादसाम्यं प्रमाणान्तरप्राप्तिसाम्यं चोभ्यं सूत्राभिप्रेतमिति टीकाविरोध इति वाच्यम्, वर्षकृतं दुभिक्षमितिवत् प्रमाणान्तरप्राप्त्यभावकृतं साम्यमिति तदर्थात् इहैव विधिपक्षाश्रयणमिति पर्यवसितोऽर्थः । केचित्तु परामर्शपक्षे विधानपक्षे चेति भाष्यस्य मानान्तराप्राप्तपरामर्शपक्षे मानान्तरविहितपरामर्शपक्षे चेत्यर्थः, नत्वत्रैव विधित्वपक्ष इत्यर्थः, तस्यपक्षस्योत्तरसूत्रप्रतिपाद्यत्वाभावात् । न च अस्मिन् सूत्रे पक्षद्वयस्याप्यनुपक्षेपे “विधिर्वाधारणव’दित्यत्र वाशब्स्याऽवदारणार्थत्वप्रतिपादकभाष्यासामञ्जस्यम्, पूर्वत्र पक्षद्वयोपक्षेप एव अवधारखस्वारस्यादिति वाच्यम्, अप्रयोजकत्वादिति वदन्ति । भाष्ये- तपो ब्रह्मचर्यमिति सर्वैश्शब्दैरिति, यद्यपि श्रुतौ “ब्रह्मचार्याचार्यकुलवासी’ इति ब्रह्मचारिशब्द एव श्रूयते, तथापि ब्रह्मचारिधर्म एव ब्रह्मचर्यशब्देनाभिधीयते इत्युत्तरभाष्यानुरोधात् ब्रह्मचारिशब्दस्य ब्रह्मचर्यपरत्वात् ब्रह्मचर्यमित्युक्त्तमिति द्रष्टव्यम् । भाष्ये- ब्रह्मचर्यतपसोः गृहस्थस्यैव सम्भवादिति, “यज्ञोऽध्ययन’मिति निर्दिष्टस्य गृहस्थस्य सम्भवादित्यर्थः । अत उपकर्वाणेऽपि सम्भवात् गृडस्थस्यैवेत्येवकारोऽनुपपन्न इति चोद्यं निरस्तम्, एवकारस्वेतरव्यवच्छेदकत्वामावात् । भाष्ये- त्रित्वेन सङ्गह्येति, अत्र स्कन्ध शब्दो यद्याश्रमपरो न स्यात् ततो यज्ञादीनां आतिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्खया व्यवस्थाष्यते, एकैकाश्रमोपगृहीतत्वे त्वाश्रमधर्माणां त्रित्वाच्छक्यं त्रित्वो व्यवस्थापयितुमिति, आश्रमप्रतिज्ञोपपत्तिरिति भावः ॥19॥भाष्ये- दिष्टाग्निहोत्रे इति, मृताग्निहोत्र इत्यर्थः, दिष्टाग्निहोत्रे श्रूयते “उपरि हि देवेभ्यो धारयति’ सत्येषोऽनुवादः, वर्तमानोपदेशात् हिशबतदाच्चाराच्च उपरिधारणप्राप्तेः हविषोऽभ्यर्हितद्रव्यत्वात् प्रच्छादनं येन केन चित्प्राप्नोति, ततः “स्त्रुक्दण्डे सधिमुपसङ्गृह्याऽनुद्रवति’ इतिवाक्यान्तरप्रतिपत्तौ समिन्नियम्यते, तस्मादनुवाद इति प्राप्ते समिधो हविराच्छादनास मर्थत्वात् स्त्रुक्दण्ड इत्यनेन हविषः प्राक्देशस्य प्राप्तत्वेऽपि हविष उपर्यप्राप्तत्वात् विधिरिति स्थितं तृतीये । “वीरहा वा एष देवानां योग्निमुद्वासयते’ इति, एषेति च्छेदः, भाष्ये- अविरक्त्तविषया एवेति, गृहस्थस्यं उत्सर्गोष्यिपूर्वकत्यागे दोषदर्शनात् अविहितत्यागविषयैव दोषश्रुतिः, ततश्च प्रविव्रजिषोर्विरक्त्तस्य त्यागविधिसद्भावात् विहितस्त्यागो न दोषावहः, न च कर्माधिकृतान्धपङ्गुबधिरादिविषया पारिव्राज्यश्रुतिरिति वक्त्तुं शक्यम्, अविशेषश्रवणात्, जावालश्रुतौ “व्रती वा अव्रती वा स्त्रातको वा अस्त्रातको वा उत्सन्नाग्निरनग्निको वा’ इति पृथग्विधावात् । अतः प्रतिपन्नं गार्हस्थ्य “प्रमादादज्ञानाद्वा उद्वासयितुं प्रवृत्तं प्रति वा अविरक्त्तं प्रति वा’ इतिश्रुतिरुपपन्नेति भावः । परे त्वित्यादि - एकाधिकरण्यमित्यादि । यद्यपि कल्पतरावधिकरणभेदः सूचितः, तथापि भाष्यमामत्यारेनुक्त्तत्वादेवमुक्त्तमिति द्रष्टव्यम् । इत्यादौ विषय इति - विषयवाक्य इत्यर्थः । देवदत्तयज्ञदत्तौ मन्दप्रज्ञावित्यादि - अन्यतरः कश्चिदित्यर्थः, ननु च शाङ्करभाष्ये- नह्येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्तु तर्यार्महाप्राज्ञ इति, भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्राज्ञ इतीदृशोकत्यसम्भवपरतैव प्रतीयते नत्वीदृशीमुक्त्तिमभ्युपगम्य यज्ञदत्तस्योच्यमानत्वनिषेधपरत्वमिति चेन्न, न ह्येवं भवति, वह्रिस्सेककरणमित्युक्त्ते वह्रेस्सेककरणत्वमित्युच्यमानत्वं न सम्भवतीत्यस्याऽर्थस्य फलितत्वदर्शनात् फलितार्थमादायाऽनुवादोपपत्तेः । किञ्च दार्ष्टान्तिके “त्रय एते पुण्यलोका भवन्ति’ “ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुतावुक्त्तेरितद्धतया उक्त्तिं सिद्धवत्कृत्यैवेदृश्योकत्या उच्यमानत्वं न प्राङ्निर्दिष्टानाम् । अपि तु ततोऽन्यस्य परिव्राज इत्यस्मिन्नर्थ एव दृष्टान्तस्योपन्यसनीयतया दृष्टान्तेऽप्युक्त्तिं सिद्धवत्कृत्यैव प्राङ्निर्दिष्टानां वोच्यमानत्वं दृष्टम्, अपि तु ततोन्यस्यैवेति, एवमुपन्यासस्योचितत्वेन तत्रैव शाङ्करभाष्यस्यापि तात्पर्यमभिप्रेत्य तथाऽनूदितमिति द्रष्टव्यम् । प्रकृताश्रमन्नयेति - केवलयौगिकानाम् आग्नेयीन्यायेन सन्निहितगामित्वादिति भावः । कालभेदेनेति - पूर्वं मन्दप्रज्ञस्यैव इदानीं शास्त्राभ्यासपाटववशेन महाप्राज्ञत्वसम्भवादिति भावः । धर्म्यन्तरोपस्तापकेति - अन्यतरश्चासौ शब्दश्च अन्यतरशब्दः, नत्वन्यतर इत्ययं शब्द इति भ्रमितव्यम्, ततश्च निर्दिष्टमन्दप्रज्ञापेक्षया धर्म्यन्तरोपस्थापकस्ववत्क्यनिर्दिष्टपदद्वयान्यतरभूतमहत्पदसमभिव्याहारादित्यर्थः । यौगिकस्येति - यौगिकस्यापीत्यर्थः । इह तु ब्रह्मसंस्थशब्दातिरेकेणेति - त्रिष्वेवाश्रमेषु ब्रह्मसंस्थश्चेदमृतत्वभाग्भवतीत्यर्थकत्वेपि विरोधाभावादित्यर्थः । किञ्च ब्रह्मसंस्थपदस्य चतुर्थाश्रमपरत्वे उर्ध्वरेतस आश्रमा न सन्ति “त्रयोः धर्मस्कन्धाः’ इति तु विधेयब्रह्मसंस्थतास्तुतये अनुवादमात्रमित्येवमर्थकतया प्रयुक्त्तस्य “परामर्शं जैमिनिरचोदना’दिति सूत्रस्थ व्याहतार्थत्वप्रसङ्गः, तथा हि सति ब्रह्मसंस्थताविधिरेव संन्यासविधिरूपत्वेन उर्ध्वरेतसामाश्रमस्य सिद्धत्वेन पूर्वपक्षासिद्धान्तयोरप्रवृत्तेरिति द्रष्टव्यम् । अत्र परमंसस्य शिखोपवीताद्यावश्यकत्वं शतदूषण्यामाचायैरेव प्रपञ्चितमिति नात्र प्रयत्यते ॥20॥ ॥ इति पुरुषार्थाधिकरणं ॥