39 विकल्पाधिकरणम्

न्यासविद्य्राभिप्रेतेति - न्यासविद्याप्यभिप्रेतेत्यर्थः ॥57॥समुच्चयनिरासायोगाच्चेति - ब्रह्मानुभवविशेषहेतुसाक्षात्काराथर्तया समुच्चयशङ्का तदिवस्थ्यादिति भावः । ये चेमेरण्ये इत्यत्रेति - “तद्य इत्थं विदुर्ये चेमेरण्ये’ इति सर्वब्रह्मविद्यानां ब्रह्मप्राप्तिफलकत्वश्रवणेन षण्णामाग्नेयादीनां समुच्चित्य स्वर्गासाधनत्ववत् इहापि वक्त्तव्यमिति भावः । सैवाविशिष्टफलत्वेन निराकार्येति - फलातिशयसम्भावनैवाविशिष्टफलत्वादिति सूत्रखण्डेन निरसनीयेत्यर्थः ॥ * ॥ ॥ इति विकल्पाधिकरणम् ॥