गुणचिन्तनार्थञ्चति - ब्रह्मण इमे गुणा अपहतपाष्मत्वादय इत्यनुसन्धानार्थमित्यर्थः । गुणिपर्यन्तानामेव गुणानाम्म् उपासनं विहितमिति - तस्मिन्यदन्तस्तदन्वेष्यव्य’मिति वाक्ये यो दहराकाशः यच्च तदन्तर्वर्ति तदुभयमन्वेष्टव्यमिति द्वयोरपि साम्येनान्वेष्टव्यत्वप्रतीतेः, “य इहात्मानमनुविद्यव्रजन्त्येतांश्च सत्यान्कामान्’ इति फलवाक्येपि द्वयोरपि साम्यप्रतीतेः, द्वावपि पृथगेव चिन्तनीयाविति पूर्वपक्ष्यभिप्रायः, “अस्मिन्कामाः समाहिताः’ इति ब्रह्मणि कामसामधानाधारत्वमुकत्वा “अपहतपाष्मा विजरो विमृत्यु’रिति तद्विशिष्टविशेष्यपर्यन्ततया निर्देशात् अननैव प्रकारेण उपासनं कर्तव्यमिति श्रुत्याशय उन्नीयत इति वैशिष्ट्यमनुसन्धेयम् । वैशिष्टये च विशेष्यविशेषणतत्सम्बन्धानामन्तर्गतत्वात् सम्बन्धिचिन्तने विशेष्यावृत्तिस्सिद्धेति सिद्धान्त्याशयः, भाष्ये- विशिष्टतयानुसन्धानार्थमावृत्तिः कर्तव्येति, वैशिष्टयस्यापि विशिष्टान्तःपातित्वात् तस्य च विशेष्यविशेषणोभयनिरूप्यस्य प्रतीतौ उभयोरपि प्रतीत्याराहमन्तरेणाऽसम्भवादेकप्रतीत्युपारूढत्वं यिणां वक्त्तव्यमिति विशेष्यरूपचिन्तनावृत्तिस्सिद्धेत्यर्थः । नाना वा देवतापृथकत्वादिति । तन्नानाप्रदानाधिकरणमित्थम्- अस्ति त्रैधातवीयोष्टिः “इन्द्राय राज्ञे’ इत्यादिवचनविहिता, सा त्रिपुरोडाशा, तेषां पुरोडाशानाम् उपर्युपरि अधिश्रयणं सर्वेषां युगपदवदानञ्च विहितम्, तेषां पूर्वाधर्ादवदानं प्रकृतिवत् कर्तुं शक्यम् । तथापि मध्यादवदानं कर्तुमशक्यम्, पुरोडाशानां मध्ये नलकप्रवेशाद्युपायेन मध्यादपि युगपदवदानं ग्राह्यम्, एवं स्थिते प्रदानमपि युगपत्कर्तव्यम्, क्रमेण वेति संशये “तेषामपृथक्पदानमवदानैकत्वात्’ इति सूत्रेण अवदानवत् प्रदानमपि युगपदेव कार्यमिति पूर्वः पक्षः । तत्रेदं सिद्धान्तसूत्रम् “नाना वा देवतापृथकत्वा’दिति, त्रयाणां यागद्रव्याणां भेदात् विशिष्टरूपाणां देवतानाञ्च भेदात् त्रिभिदद्रव्यदेवतासम्बन्धैः कल्प्यानाञ्चयागानां तत्तद्देवतोद्देशेन क्रमिकाणि प्रदानानि कर्तव्यानीति सूत्रार्थः । परे चापरे चेत्यादि - वायुप्राणयोस्तत्त्वैक्यादिति- “यः प्राणस्स वायुः’ इति विस्पष्टमेकत्वविज्ञानात् विद्यैक्याच्च उभयविषयमेकमेव चिन्तनम्, “ऐन्द्रयोर्दधिषयसोः प्रदानवत्’ इति पूर्वपक्षं कृत्वा विद्याया एकत्वेऽपि पृथगेव प्रवृत्तिः, यथा अग्निहोत्रहोमस्यैकत्वेपि युगपदनुपसंहरणीयसायम्प्रातःकालरूपगुणभेदात् प्रवृत्तिभेदः, एवमिहापि युगपदनुपसंहरणीयस्थानद्वयवशेन प्रयोगभेदोस्ति, प्रदानवत्, यथा “इन्द्राय राज्ञे’ इति त्रिपुरोडाशायां त्रैधातवीयायामिष्टौ देवतापृथकत्वात् प्रदानपृथकत्वात्, इयांस्तु विशेषः- दृष्टान्ते यागर्भेदोस्ति, प्रकृते तु न विद्याभेदोस्तीति प्रवृत्तिभेदांशे दृष्टान्त इति परे वर्णयन्तीत्यर्थः । विद्याभेदस्य समर्थितत्वादिति - अस्मद्भाष्टकृतेति शेषः । वितिभेदापादकत्वेति - यद्यपि परमते नात्र विद्याभेदः, तथापि स्वमतदार्ढ्येन इदमुक्त्तमिति द्रष्टव्यम्, परपक्षे प्रदानवदेवेति सूत्रमयुक्त्तम् इन्द्राय राज्ञे’ इत्यादौ प्रदानभेदस्य सिद्धतया तद्दृष्टान्तीकरणेन दार्ष्टान्तिकेषि विद्याभेदस्यैव प्रतीतेर्विद्यैक्यवादिपरमते सूत्रमस्वरसमिति द्रष्टव्यम् । विद्याद्वयोतीर्णत्वेनेति - विद्याद्वयाकारभ्रष्टत्वादिति भावः ॥42॥ ॥ इति प्रदानाधिकरणम् ॥