14 फलाधिकरणम्

सर्वस्मात् परत्वं प्राप्यत्वमिति पाठो दृश्यते, तस्यायमर्थः- प्राप्यत्वोपयुक्त्तं सर्वस्मात् परत्वं तत्कल्याणगुणान्तर्भूतमपीति आयुर्घृतमितिवत् अभेदोपचारात् सामानाधिकरण्यनिर्देशः । तच्च कल्याणगुणगण इति - अन्तर्भूतमितिशेषः, समूहसमूहिनोरभेदोपचाराद्वा सामानाधिकरण्यनिर्देशः कल्याणगुण इति पाठे तु नानुपपत्तिः । अत्र तु द्वारविशेषो निरूप्यत इति भिदेति - अतो न पूर्वोत्तरविरोधः, तत्र धर्मस्य द्वारतायाः कण्ठतोऽनुक्त्तेरितिभावः । उत कर्मोपासनाराधितादित्यादि - अत्र कर्माराधितत्वं वाय्वादिदेवतारूपस्य, उपासनाराधितत्वं केवलस्य ब्रह्मण इति योग्यतावशेन यथाक्रमेण सम्बन्धः, यथा शीतोष्णस्पर्शगुणकं जलं तेजश्च, इति निर्देशे इति द्रष्टव्यम् । भाष्ये- नह्यचेतनं कर्मेति, अयं भाव, किं कर्मजनितस्यापूर्वस्य फलसाधनत्वम्? उत कर्मण एव तावत्पर्य्यन्तमवस्थतायित्वम्? उत फलस्यापि कर्मानन्तरमेवोत्पत्तिः? इत्यभ्युपेयते, उत विनष्टस्यैव कर्मणः कार्यजनकत्वमिति चतुर्धाविकल्पमभिप्रेत्य प्रथमं दूषयति, भाष्ये- नह्यचेतनमिति, यद्यदचेतनं तत्सर्वं चेतनाधिष्ठितमेव प्रवर्त्तत इति प्रत्यक्षागमाभ्यामवधारितत्वात् नापूर्वस्य फलहेतुत्वमित्यर्थः । द्वितीयं दूषयति - कर्म क्षणध्वंसीति । तृतीयं दूषयति - कालान्तरभावीति । अधुना स्वर्गोत्पत्तेः बाधितत्वादितिभावः । चतुर्थं दूषयति - भवितुमर्हतीति । विनष्टस्यापि कार्यजनकत्वे अतिप्रसङ्गः स्यादिति भावः ॥37॥is not available.भाष्ये- कृष्यादिकं गात्रर्दनादिकं चेति, गात्रमर्दनादिकं साक्षात् सुखहेतुः, कृप्यादिकं तु परम्परया, शास्त्रं दर्शयति- एवं वेदेऽपीति, क्कचित्पठ्यते स तु न समीचीनः, शास्त्रं दर्शयति, तथा यजेतेति पठ्यते, अयं तु पाठः समी चीनः ॥39॥अपयोरणशतयातनासाध्यसाधनभावेति । अपगोरणं- वदोद्यमः, शतयातना- नरकविशेषः, “यो ब्राह्मणायाप गुरेत् तं शतेन यातया’दित्येतद्धि तस्मात् “ब्राह्मणाय नावगुरेत’ इति निषेधविधेरर्थवादः, तत्र च “हेतुहेतुमतोर्लिङ्’ इत्यनुशासनबलात् अपगोरणशतयातनयोः साध्यसाधनाभावस्य अर्थवादप्रतिपन्नस्य स्वीकारादित्यर्थः । शर्कराञ्जनद्रव्यपशुविशेषादीति- अत्र विशेषशब्दश्शर्कराञ्जनद्रव्येणापि सम्बध्यते, “अक्त्ताः शर्करा उपदधाति’ इत्यत्र शर्कराञ्जनसाधनद्रव्याकांक्षायां तेजो वै घृत’मिति स्तुतस्य घृतस्यैवाञ्जनसाधनत्वेन स्वीकारात्, तथा छागस्य वपाया’मिति मन्त्रवर्णप्रतिपाद्यस्य छागरूपविशेषस्य च स्वीकारादित्यथर्ः । देवतानामपि फलदत्त्वमस्त्विति - कर्मोपासना राधितस्य प्रसन्नस्य फलदत्त्वपक्षेऽपि कर्मानुष्ठानानन्तरमेव प्रसादः वक्त्तुं न शक्यते, परमस्वतन्त्रस्य प्रसादे सति फले विलम्बायोगात्, प्रयाजादिभिरङ्गैः तदनुष्ठानानन्तरमेव प्रसादे सति प्रधानाननुष्ठानेऽप्यङ्गान्तरवैकल्येऽपि फलनिष्पत्तिप्रसङ्गाच्च, तस्मात् कर्मान्तरमपूर्वे निष्पादिते तस्य परिपक्वतया फलजननौन्मुख्यदशायामीश्वरस्य प्रसादो वक्त्तव्य इति भावः, भाष्ये- प्रामाणिका न सहन्ते इति, न च देवताप्रसादहेतुत्वपक्षेऽप्यपूर्वस्यापि द्वारत्वमकामेनापि स्वीकायर्मिति वाच्यं, भोजनादिना राजानमाराधायत्सु पुरुषेषु भोजनाङ्गभूतासनविशेषसमर्पणाद्युपचारैः प्रीतिविशेषस्योत्पादनवत्, प्रयाजादिमिरपीश्वरे प्रीतिविशेषस्य फलप्रदानहेतु भूतप्रीतिविशेषसम्पादकस्य उत्पत्तिसम्भवेन जीवसमवेताङ्गापूर्वकल्पने प्रमाणाभावादिति भावः ॥ * ॥ विग्रहाद्यभावमिति । आदिशब्देन तृप्तिप्रसादादयो विवक्षिताः । उपबृहण सिद्धत्वादिति । न तु ध्यान वत् मोक्षसाधनत्वादिति भावः । ॥ इति फलाधिकरणम् ॥ 8 ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ समुदिताधिकरणसङ्ख्यां - 82 - सनुदितसूत्रसङ्ख्या - 354 ॥