उभयलिङ्गात् ब्रह्मण इति - यद्यप्येतदधिकरणपूर्वपक्षदशायां नोभयलिङ्गत्वं ब्रह्मणः सुप्रतिष्ठितं, उभयलिङ्गस्थेमार्थत्वादस्याधिकरणस्य, तथापि पूर्वपक्षस्य अतिमन्दत्वात् उभयलिङ्गत्वं सिद्धवत्कृत्य एवमुक्त्तं, अत एव भाष्ये- कैश्चिद्धेत्वाभासैराशंक्येत्युक्त्तमिति द्रष्यव्यम्, भाष्ये- चतुष्पात् ब्रह्मेति, षोडशकलब्रह्मविद्यानां हि ब्रह्मणश्चत्वारः पादा निरूपिताः “प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम । पृथिवीकलान्तरिक्षं कला द्यौः कला समुद्रः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः अनन्तवान्नाम, अग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः ज्योतिष्मान्नाम, प्राणः कला चक्षुष्कला श्रोत्रं कला मनः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नामे’ति, गवां पादेषु पुरस्तात् द्वौ खुरौ पश्चात् द्वौपार्ष्णी’ इत्येकैकस्मिन् पादे चत्वारश्चत्वरोखुरांशास्सन्ति, ते कला शब्देन उच्यन्ते, प्राची प्रतीची दक्षिणोदीची दिगिति चतस्त्रः कलाः अवयवा इव कलाः स प्रकाशवान् प्रथमः पादः, तदुपासनायां प्रकाशवान् उपासको भवती’ति प्रकाशवान् पादः, पृथिव्यन्तरिक्षं द्यौस्समुद्र इति चतस्त्रः कलाः एष द्वितीयः पादोऽनन्तवान्नाम, सोऽयमनन्तवत्वेन गुणेनोपास्यमानोऽनन्तवत्वमुपासकस्यावहतीति अनन्तवान् पादः, अग्निस्सूर्यश्चन्द्रो विद्युदिति चतस्त्रः कलाः स ज्योतिष्मान्नाम तृतीयपादः, तमुपासीनो ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः, प्राणश्चक्षुः श्रोत्रं मन इति चतस्रः कलाः चतुर्थः पादः आयतनवान्नाम, तदुपासनादायतनवान् भवतीत्यायतनवान्नाम पादः, तदेवं चतुष्पाद् ब्रह्म अष्टाशफं षोडशकलं , भाष्ये- अनुन्मितस्यास्तितां द्योतयतीति, नन्वेतस्योन्मितत्वमात्रेण तत्प्राप्यस्य कथमनुन्मितत्वं, नह्युन्मितेन मृद्दार्वादिप्रचयात्मकेन सेतुना प्राप्यस्य प्रदेशान्तरस्यानुन्मितत्वमस्तीति चेत्मै- वं,यत्प्राप्यं मोक्षशास्त्रेषु अपरिमितं प्रसिद्धं, तस्यानेन सेतुना प्राप्यत्वरूपभेदेनास्तितां द्योतयति, चतुष्पात्त्वादीनामनुन्मितत्वात् ब्रह्मणो वेदान्तप्रसिद्धादनुन्मितात् प्राप्यात् भेदोऽवसीयत इति पर्प्यवसितोऽर्थ इति भावः ॥30॥भाष्ये- सेतुसामान्येनेति, अत्र सामान्यशब्दो भावप्रधानः, सर्वलोकासङ्करकरत्वस्य “एषां लोकानामसम्भेदाये’ति श्रुत्रौ साधारणधर्मत्वेन श्रवणात् तद्गुणयोगेन तत्र सेतुशब्दो गौण इत्यर्थः ॥ * ॥ भाष्ये- पादोऽस्य विश्वाभूतानीति, अत्र पादस्यांशपरत्वेन स्वरूपोपदेशपरत्वात् बुध्यर्थत्वोक्तिः प्रौढिवादेनेति द्रष्टव्यम् । भाष्ये- ब्रह्मणो वागादिपादव्यपदेश उपासनार्थ इति, ब्रह्मप्रतीकस्य मनस आकाशस्य वावागादिपादव्यपदेश उपासनार्थ इत्यर्थः । एवं हि श्रूयते- “मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयामादिष्टं भवत्यध्यात्मञ्चाधिदैवतञ्चे’ति । “तदेतत् चतुष्पाद्व्रह्म वाक् पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतम्- अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमादिष्टं भवत्यध्यात्मञ्चावाधिदैवतञ्श्चे’ति, तदेतत् चतुष्पाद् ब्रह्म, तदेतन्मान आस्यं ब्रह्म चतुष्पात् चत्वारः पादा अस्येति, कथं चतुष्पात्त्वं मनोरूपस्य ब्रह्मण इत्यत आह - वाक्पाद इत्यादि । मनो हि वक्त्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिस्सञ्चरत इति सञ्चरणसाधनतया मनसः पादाः, आकाशस्य ब्रह्मप्रतीकस्य अग्निर्वायुरादित्योदिश इति चत्वारः पादाः, ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति भावः ततश्च अध्यात्मब्रह्मप्रतीकस्य मनस अधिदैवतब्रह्मप्रतीकस्य चाकाशस्य वा वागादिपादत्वव्यपदेशो यथा वस्तुतः मनस आकाशस्य वा वागादिपादत्वासंभवाद् उपासनार्थः तथा ब्रह्मणोऽपि चतुष्पात्वषोडशकलत्वाद्युपदेश उपासनार्थ इति भावः ॥ निखिलजगत्कारणस्येश्वरस्येति - निखिलजगत्कारणेश्वरप्रतीकस्य मनस आकाशस्य वेत्यर्थः ॥32॥is not available.is not available.तत्रैवेति व्याख्येयं पदम् - समाधिकनिषेधः कृतस्स्यादिति । अयमेव सर्वस्मात्परः, अतोऽन्यः सर्वस्मात् परो नास्तीत्युक्त्तेः समाधिकनिषेधः सिध्यतीत्यर्थः । परत्वेन विवक्षितेति - अपरं परभूतरुद्रव्यतिरिक्त्तं यस्मात्परं नास्तीत्यर्थः । अपरशब्दाभावे हि रुद्रस्यापि परत्वनिषेधप्रसङ्गः, अतोऽपरशब्दास्यार्थत्वमिति भावः । अनन्यथासिद्धसङ्कोचकाभावादिति - अपरशब्दस्य यस्मादिति श्रुतपञ्चम्यन्तपदान्वयेन एव समाभ्यधिकनिषेधकतया सप्रयोजनतसंभवेनान्यथा सिद्धत्वेनापरशब्दो न सङ्कोचक इति भावः । तस्यान्यथासिद्धिः कथमित्याहेति - अन्यथासिद्धिं वक्त्तुं प्रश्नमवतारयतीत्यर्थः, अतो निधायेति वत्वाप्रतिपाद्यनिधानसमानकर्तृकत्वोपपत्तिरिति द्रष्टव्यम् ॥35॥उपपत्तेश्चेति सूत्रार्थमाह - ईदृश इति । नह्यनपायिना स्वरूपेण सम्बन्धः संयोगादिर्भवितुमर्हति, अपि तु भेदोपशमरूप एवेत्यर्थः । न हि कारणमेवेति - यदि हि कारणमेव सेतुः, कार्यमेव तत्प्राप्यमिति नियमस्स्यात्, तदा सेतुवत् प्राप्यभेद साधकस्य कायर्कारणभेदसाधकत्वमपि भवेत्, न त्वेतदस्तीतिभावः । तस्य भेदरूपत्वाभावादिति- सर्ववस्तुसामानाधिकरण्यानर्हत्वस्यैव वस्तुपरिच्छेदरूपत्वादित्यर्थः । अन्यथा ईश्वरद्वयप्रसङ्गादिति - अन्यथा स्वरूपभेदाभ्युपगम इत्यर्थः ॥ ॥ इति पराधिकरणम् ॥