ननु “द्वे वा व ब्रह्मणो रूपे’ इत्यत्र चिदचित्संवलनरूपस्यैव मूर्त्तामूर्त्तशब्दिततया कथं मूर्त्तामूर्त्तात्मकाचित्प्रपञ्चस्येति भाष्योक्तिरित्याशङ्क्य आह - चिदचिदात्मकेत्यादिना । भाष्ये - अहिकुण्डलन्यायेनेति, यथा ह्यहेंरहित्वेनाऽभेदेऽपि कुण्डलभावर्जुभावरूपसंस्थानविशेषापत्त्या भेदः, एवं ब्रह्मणः स्वरूपेणाभेदेऽपि कार्यप्रपञ्चरूपापत्त्या भेदः, न चाहेर्विश्रान्तिसञ्चारणादिप्रयुक्त्तभोगविशेषलाभार्थं कुण्डलभावर्जुभावापत्तिर्भवतीति युक्त्तम्, ब्रह्मणस्तु सर्वज्ञस्य सर्वशक्त्तिकस्य ज्ञानानन्दरहिताचित्प्रपञ्चतापर्त्तिर्न युक्त्तेति वाच्यम्, नह्यहिवत् ब्रह्म स्वप्रयोजनार्थं प्रवर्तते, अपि तु प्राणिनामनुग्रहार्थम्, तदनुग्रहश्च भोगानुष्ठानाद्युपयुक्त्तप्रपञ्चात्मतापत्त्यभावेन भवतीति तदात्मतां ब्रह्म प्रतिपद्यते । अचिद्धर्मप्रतिषेध इति - अज इत्यादिना जननाद्यचिद्धमर्प्रतिषेध इत्यर्थः । पृथगधिकरणत्वे निदानं श्रोतव्यमित्यादि - यद्यपि “अतोऽनन्तेन तथा हि लिङ्ग’मिति सूत्रस्य परमसाध्योपसंहारत्वप्रतिपादनमुखेन अधिकरणसमाप्तेराविष्करणात् प्रकृतैतावत्त्वमित्यादेः तादर्थ्यानन्तर्याभ्यां न पृथगधिकरणत्वमित्यादेर्वक्ष्यमाणत्वात् तत्रैव सूत्रे अनन्तरशब्देन ततश्शब्दो व्याख्यातः, भूयश्शब्देन भूयिष्ठत्वमुच्यत इति ततोभूयश्शब्दयोर्व्याख्यातत्वाच्च न श्रोतव्यान्तरमवशिष्यते, तथापि तदर्थस्य गहनत्वमभिप्रेत्य तथोक्तमिति द्रष्टव्यम् ॥26॥द्वितीये जगत्कारणत्वेति - जातेर्जगत्कारणत्वसर्वज्ञत्वाद्यसम्भवादितिभावः ॥द्वितीये जगत्कारणत्वेति - जातेर्जगत्कारणत्वसर्वज्ञत्वाद्यसम्भवादितिभावः ॥परे त्वित्यादि - अतत्प्रधानेभ्याहि बलीयांसीति । श्रुतिप्रतिपाद्ययोः एकत्वनानात्वयोः एकस्मिन् वस्तुन्यसम्भवात्, अन्यतरस्मिन् समाश्रयणीये एकत्त्वस्य मानान्तराप्राप्तत्वेन विधेयत्वस्य उचिततया एकत्वविधानाय प्रमाणान्तरसिद्धं नानात्वं तदङ्गतयाऽनूद्यत इत्यस्यैवार्थस्योचितत्वात्, भेददर्शने निन्दायाः श्रवणात् साक्षात् भूयसीभिः श्रुतिभिः अभेदप्रतिपादनाच्चाकारवद्व्रह्मविषयाणाञ्च कासाञ्चित् श्रुतीनान् उपासनारूपत्वं कासाञ्चित् द्वैताभिधायिनीनां द्वा सुपर्णा’ इत्यादिश्रुतीनां बुद्धयुपाध्यस्तकर्त्तृत्वनिषेधमुखेन निर्विशेषप्रतीत्युपयोगित्वमिति अतत्प्रधानभेदश्रुतिभ्यः तत्प्रधानानाम् अभेदश्रुतीनां प्राबल्यमित्यर्थः । “तर्हि निषेधप्रपञ्चं ब्रह्म कीदृशं तत्राह’ इति क्वचित् पाठो दृश्यते, स तु चिन्तनीयः । “आह च तन्मात्र’मिति सूत्रेणापि निष्प्रपञ्चत्वस्यैव तन्मते प्रतिपिपादयिषितत्वेन निष्प्रपञ्चत्वं सिद्धवत्कृत्य तत् कीदृशमिति जिज्ञासायां तस्य सूत्रस्यानवतारात् । पुरश्चक्रे द्विपद इति - पुरः पुराणि द्विपदोपलक्षितानि शरीराणि चक्रे, पुरः पुरस्तात्, चक्षुराद्यभिव्यक्त्तेः पूर्वमेव, स ईश्वरः पक्षी, लिङ्गशरीरस्य तैत्तिरीयादौ पक्षपुच्छादिसम्पादनात् पक्षीति लिङ्गशरीरमुच्यते, तदभिमानी पुरुष आविशत् प्रविष्ट इत्यर्थः, ततश्च इयं श्रुतिः “अनेन जीवेन आत्मना अनुप्रविश्य’ इत्यादि श्रुतिश्च परमात्मन एव अन्तर्भावादिति पूर्वसूत्रोक्तमुपाध्यन्तर्भावं दर्शयतीति हि सूत्रार्थ इति भावः । अन्यस्य नास्तित्वमिति - ब्रह्मण इति शेषः “न ह्येतस्मादिति नेत्यन्यत्परमस्ती’ति वाक्यम् “नेति नेतीत्यस्य निर्वचनम्, न हि एतस्मात् ब्रह्मणः व्यतिरिक्त्तमस्तीत्यतो नेत्युच्यते, न पुनः स्वयमेव नास्तीति कृत्वा नेतीत्युच्यत इति तस्य वाक्यस्यार्थः । ततश्च यतोन्यत्परं नेतीति प्रतिषिध्यते । तस्य ब्रह्मणः सिद्धमेवास्तित्वमिति न तस्य प्रतिषेध इति भावः । इदं वाक्यमिति - न ह्यतस्मादिति नेत्यन्यत्परमिति वाक्यमित्यर्थः । अथ नामधेयमिति वाक्यविषयमिति - न ह्येतस्मादिति नेत्यन्यत्परमस्तीति वाक्यस्य इति नेत्येवंरूपान्यादेशनिषेधपरत्वेन ब्रह्मान्यनिषेधपरत्वाभावेन ब्रह्मपरिशेषकत्वासम्भवात्, अथ नामधेयमिति वाक्यस्यैव “ब्रवीति च भूयः’ इति सूत्रखण्डविषयत्वम्, तत्र हि वाक्ये सत्यस्य सत्यमिति ब्रह्मणः परमार्थसत्यत्वावेदनात् । ब्रह्मणोपि सूर्यप्रकाशाद्यवैशेष्यं तत्तुल्यत्वमिति - सूर्यप्रकाशादेरवैशेष्यं सूर्यप्रकाशाद्यवैशेष्यम् अवैशेष्यम्- विशेषरहि तत्वम्, अङ्गुल्याद्युपाधिकृतर्जुवक्रत्वादिविशेषरहितत्वमिति यावत्,सम्प्रतिपन्नमिति शेषः, तत्तुल्यत्वं ब्रह्मणोपीत्यन्वयः । सूर्यप्रकाशादिवत् ब्रह्मणोऽप्यवैशेष्यम्; निविर्शेषत्वम्, उपाधिकृतविशेषराहित्यमित्यर्थः । नतु सौत्रस्यावैशेष्यशब्दस्य तत्तुल्यत्वमित्येतद्विवरणमिति भ्रमितव्यम्, परैस्तथा अव्याख्यानात्, प्रकाशादिवदिति वतिप्रत्ययेनैव तुल्यत्वस्य प्रतिपादितत्वेन प्रकाशादिवच्च तुल्यत्वमित्यस्यासङ्गतत्वाच्चेति बोध्यम् । अवस्थाभेदादिति - “उभयव्यपदेशा’दिति सूत्रे जीवस्य परमात्मावस्थाभेदत्वात् संराध्यसंराधकभावाविरोध उपन्यस्तः, “प्रकाशाश्रयवद्वे’ति सूत्रे तु जीवस्य ब्रह्मैकदेशत्वेन तदंशत्वात् संराध्यसरोधकभावस्समर्थित इत्यर्थः । अर्थान्तरत्वामितिगन्धविधितन्निषेधश्रुत्योः प्राकृताप्राकृतगन्धविषयत्वेत विषयभेदः अङ्गीकार्य इत्यर्थः ।सार्वज्ञ्यादीनां स्वरूपपरवाक्यसिद्धत्वादिति - “यः सर्वज्ञः सर्ववित्’ इत्यादिवाक्यसिद्धत्वादित्यर्थः, इदमुपलक्षणम्, चतुष्पात्वषोडशकलत्वादीनां “बुद्ध्यर्थः पादवत्’ इति न्यायेन उपासनार्थानां व्यावहारिकसत्यत्वाभाववत् सार्वज्ञ्यादीनाम् उपासनार्थत्वे व्यावहारिकसत्यत्वाभावप्रसङ्गाच्चेति द्रष्टव्यम् । अन्यतराप्रमाण्यमेवोक्तं स्यादिति - उक्त्तं हि- को हि मीमांसको ब्रूयात् विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरस्त्वप्रमाणं भवेदिति । प्रतिज्ञानुगुणहेतुसिद्धौ तु नान्योन्यश्रय इति - साकारत्वनिराकारत्वरूपोभयलिङ्गत्वप्रतिषेधस्य साध्यत्वे निश्चिते तदानुगुण्येन सर्वत्र निर्विशेषप्रतिपादनस्यैव हेतूकर्तुमुचितत्वेन योगैयतावशेन तस्यैवाध्यहारो युक्त्त इति भावः । एकत्वेन निर्देश इति - सदसत्त्ववदिति भावः । अतद्वचनत्वं च तदुदाहृतश्रुतौ नास्तीति - यद्यपि “यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुराणः, यश्चायम्, अध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुराणः, अयमेव सोऽयमात्मे’ ति प्रत्युपाधिभेदवचनेनाभेदवचनत्वरूपमतद्वचनतत्वमस्त्येव, तथापि न तावता निर्विशेषत्वसिद्धिः, न हि सर्वत्रावस्थितस्य ब्रह्मणः एकत्वमात्रेण शास्त्रप्रतिपादितानां तेजोमयत्वादीनां मिथ्यात्वसिद्धिरिति भावः । निर्विकारत्वानन्दरूपत्वेति - एतत् द्वयमप्यमृतमयशब्दफलितमिति भावः । अरूपवदित्यत्र वच्छब्दवैयर्थ्यमिति - मतुप्प्रत्ययवैयर्थ्यमिति भावः, न विद्यते रूपमस्येति बहुव्रीहिणैव मत्वर्थस्योक्तत्वात् उक्त्तार्थानामप्रयोग इति न्यायेन मतुप्प्रत्ययो व्यर्थ इति भावः । यद्यपि “उगवादिभ्यो यत्’ इत्यत्र महाभाष्ये अनरवन्तिचक्राणीति प्रयुक्त्तं, तथापि यत्र बहुव्रीहिमत्वर्थयोःतुल्यार्थत्वं तत्र बहुव्रीहिरेव लाघवात् भवति, यथा अगुः- अनश्व इति, नतु अगोमान् अनश्ववानिति भवति, यत्र त्वतुल्यार्थत्वं तत्र कृते मत्वर्थीयतदन्तेन नञ्समासः, यथा अहस्तीति, नह्यहस्त इत्युक्त्ते जातिपर्युदासप्रतीतिः, यत्रापि मत्वर्थीयेनार्थविशेषप्रतीतिः, यत्रापि तदन्तेन नञ्समासः, यथ अदण्डी अक्षत्री अवाग्मीति, दण्डछत्रसंयोगनिषेधस्य सम्यग्भाषितत्वनिषेधस्य च बहुव्रीहेरनवगमात्, अत एव कैयटे “उगवादिभ्यः’ इत्यत्र अनराणीति वक्त्तव्ये जातिविशेषप्रतिपत्यर्थो मतुबनिर्देशः, अनराणीति ह्युक्त्ते भग्नाराण्यपि चक्राणि प्रतीयेरन् तस्मात् अरवत्पर्युदासेन अनुपजातारचक्रप्रतीतिः- अनवरन्तीत्यनेन भवतीति अर्थविशेषसत्वात् मतुब् निर्देशः उपपादितः, अत्र तु अर्थभेदाभावात् मतुप्प्रत्ययो दुर्लभ इति भावः । तात्पर्यलिङ्गावगमाच्चेति - सद्विद्यायां सविशे षत्व एव षड्विधतात्पर्यलिङ्गस्य प्रथमे सूत्र एव समर्थितत्वादिति भावः । औपाधिकाकारयोगे दृष्टान्तत्वादिति - ततश्च प्रकाशवच्च औपाधिकाकारयोग इत्येव सूत्रं स्यादिति भावः । आस्त्रीबालं प्रसिद्धत्वादिति - यद्यपि स्वपक्षेऽपि समानोऽयं दोषः, तथापि स्वपक्षे पृथिव्यादिस्थानानवस्थितिपर्यन्तत्वात् आक्षेपस्य तस्यच अवश्यपरिहरणीयत्वाच्च तत्परत्वे न दोष इत्यभिप्रायः । चिह्नपर्यां यत्वाच्चेति - नचात्र लिङ्गशब्दस्य अन्यार्थदर्शनरूपलिङ्गपरत्वात् श्रुतेश्च तादृक्त्वसम्भवात् न दोष इति वक्त्तुं शक्यम्, उक्त्तार्थसाक्षात् प्रतिपादकस्य “ब्रह्मवेद ब्रह्मैव भवती’त्यस्यार्न्यार्थदर्शनरूपलिङ्गत्वाभावादिति भावः । प्रकाशादिवदिति सूत्रस्य तत्प्रयुक्त्तजीवभेदव्युदासकत्वाभावादिति - तथात्वे हीदं सूत्रद्वयं मतान्तरोपन्यासपरं स्यात्, तस्यैव निराकृतत्वादिति भावः । अपरे त्वित्यादि - स्वाप्नाद्यवस्थानां प्रकृतत्वादिति । ननु भाष्ये “भेदादिति चेति’ति सूत्रे देवादिदेहयोगरूपावस्थाभेदादित्येवोक्तम्, न तु स्वप्नाद्यवस्थाभेदादिति चेन्न, तत्र स्वप्नाद्यवस्थदेहयोगरूपावस्थाभेदस्यैव विवक्षितत्वेन दोषाभावादिति भावः । अन्ये त्वित्यादि - मधुविद्या वाक्य इति । वृहदारण्यके मधुविद्यावाक्ये “यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चा यमध्यात्म’मित्यादिभिर्वाक्यैः प्रतिपर्यायमेकत्ववचनादित्यर्थः, “न स्थानतोऽपी’त्यारभ्य “अरूपवदेव ही’त्यन्तं ब्रह्मस्वरूपाभेदप्रतिपादनपरमेकमधिकरणं, “प्रकाशवच्चावैयथ्यर्’मित्यारभ्य “प्रकृतैतावत्व’मित्यतः प्राक् ब्रह्मणो दीप्तिमत्ताप्रतिपादनपरमेकमधिकरणं, “प्रकृतैतावत्व’मित्यारभ्य “उभयव्यपदेशा’दित्यतः प्राक् रूपद्वयातिरिक्त्तं ब्रह्मेति सिद्धान्तयन्ति, “उभयव्यपदेशा’दित्यारभ्य “परमतस्सेतून्माने’त्यतः प्राक् ब्रह्मजगतोरहिकुण्हलन्यायेन अत्यन्ताभिन्नतया उपादानोपादेयभावः, ईश्वरस्य तु निर्विकारत्वात् तस्य जगतश्च मणिप्रभयोरिव शक्त्तिमच्छक्त्तिविक्षेपरूपेण उपादानोपादेय भाव इति वर्णयन्ति । व्रवीति च भूयोऽपीत्युपपादनादिति । व्रवीति च भूय इत्यस्य सूत्रखण्हस्य पूवोर्क्त्तार्थोपपादकत्वमभ्युपगच्छता तेन खण्डेन तदुपपादनार्हं तस्यैव “प्रकृतैतावत्वं हि प्रतिषेधती’ति सूत्रखण्हऽप्रतिपाद्यत्वस्य वक्त्तव्यतया “व्रवीति च भूय’ इति निर्दिष्टस्य सत्यमिति वाक्यार्थस्य रूपद्वयनिषेधेन प्रपञ्चातिरिक्त्तकारणरूपास्तित्वस्य च उपपाद्योपपादकत्वायोगादित्यर्थः ॥ ॥ इति अहिकुण्डलाधिकरणं ॥