अवस्थास्वित्यर्थ इति - सुषुप्तिमुग्ध्युत्क्रान्तीनां स्थानत्वासम्भवादिति भावः, भाष्ये - तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवतीति, कर्मणां दहयोग द्वारा अपुरुषार्थसाधनत्वमित्यर्थः ॥11॥is not available.पूर्वसूत्रेऽनिगव्याख्यानेति - अनिगदव्याख्यानेति छेदः अनिगदव्याख्या अस्पष्टार्था नेयार्थेति भावः, निगदः पाठः, पाठमात्रेण यस्य व्याख्यानं नास्ति सा तथोक्ता, नित्यादिसाधारणस्यामृतशब्दस्यनिर्दोषत्वार्थकस्यास्पष्टार्थकत्वात् । अप्रकृतविग्रह इति - अत्र तद्योग्यत्वं विवक्षितमम्, अतःतादात्विकाप्राकृतविग्रहशून्ये जीवे नानुपपत्तिरिति द्रष्टव्यम् ॥13॥भाष्ये - नामरूपेति, उदाहृतश्रुतौ नामरूपनिवर्ोदुः तत्सम्बन्धा भावः उक्त्तः, स च बाधितः निर्वाह्यनिर्वाहकभावरूपसम्बन्धस्यैव सत्त्वात्, अतः तत्कार्यरूपदुःखेर्ष्यादिसम्बन्धाभावपरा सा श्रुतिरिति भावः । अर्थानुपपत्त्येति - सर्वज्ञस्य सर्वनियुन्तुरीश्वरस्य बुदध्यद्यधीनज्ञानवत्त्वस्य विधिप्रेर्यत्वस्य वा प्रयोजनस्यानुपपत्त्येत्यर्थः । सद्वारकं कर्मवश्यत्वमिति - सर्वज्ञस्यसर्वनियन्तुरपि ज्ञाप्यत्वप्रेर्यत्वादिकं सद्वारकमुपपद्यते- इति भावः । अधिकारस्तादर्थ्यबोधनमिति - अधिकारो विनियोग इत्यभियुक्त्तेः अधिकुर्वन्ति । विनियुञ्चत इत्यर्थः इत्यभिप्रायः, विनियोगो हि व्यापारणम्, कर्मवश्यानेव ब्राह्मणादीन् तदर्थज्ञापनेन व्यापारयन्तीत्यर्थः ।is not available.आह च - इतरनिषेधव्यवच्छेदपर इति । सत्यज्ञानादिवाक्यस्य सर्वज्ञत्वादिगुणान्तरनिषेधपरत्वव्यवच्छेदपर इत्यर्थः ॥ * ॥अथोशब्दः कार्त्स्न्यपर इत्यर्थ इति - अत्रार्थशब्दोऽभिप्रायपरः, अथो पीति सूत्रे “ओत्’ इति प्रगृह्यसंज्ञायां प्लुतप्रगृह्मा अचि’ इति प्रकृतिभावः । गुणविशेषनिषेध इति - सति निर्गुणमिति सामान्यनिषेधस्य तत्पर्यवसायित्वादिति भावः, न चैवं ब्राह्मणो न हन्तव्य इति निषेधस्यआत्रेयन्न हन्यादिति विशेषनिषेधपर्यवसायित्वं किन्न स्यादिति वाच्यम्, अत्र गुणविशेषविधायकवचनसत्त्वेनासङ्कोचेन निषेधाप्रवृत्या विशेषपर्यवसानमपेक्षमाणस्य श्रुतेर्गुणविशेषनिषेधे पर्यवसानस्यावश्यकत्वात्, अत एव चोक्तम् । एकस्वभाव इत्यर्थ इति - “आकाशमेकं हीयथा’ इत्यादिस्मृतौ पृथक् पृथक् संयुज्य वघटादिषु वर्तमानमाकाशं तद्गतदोषाद्यसंस्पृष्टं यथा एकस्वभावमेव भवति, यथा नानाजलाधारेषु प्रतिबिम्बिर्तोंऽशुमान् तथा अनेकस्थोऽप्यात्मा तद्गतदोषास्पृष्टतया एकस्वभाव एव भवतीत्युद्देश्यविधेयभाव इति भावः ॥ 17 ॥ ॥ 18 ॥is not available.तुल्यत्वाभावादिति - तुल्यत्वाभावप्रसङ्गादित्यर्थः, ततश्च सूत्रे न तथात्वमित्यत्र स्यादिति शेषोऽध्याहतर्व्य इत्याचार्याणामभि प्रायः ॥ 19 ॥भाष्ये - पृथिव्यादिस्थानान्तर्भावादिति - अत्र प्रतीयमानादिति शेषोऽध्याहर्तव्यः, ततश्च प्रतीयमानात् पृथिव्यादिस्थानान्तभर्ावाद् यत् प्रसक्त्तम् - वृद्धिह्रासभाकत्वम्, तन्निवर्त्त्यत इत्यर्थः, प्रतीतिश्च प्रमाभ्रमसाधारणी, ततश्च घटादिष्ववस्थिततया प्रतीयमानस्य वस्तुतोऽसतोऽप्यंशुमतः तद्गतदोषास्पृष्टत्वम्, तथा पृथिव्यादिस्थानस्थिततया प्रतीयमानस्य परमात्मनः तद्गतदोषास्पृष्टत्वमुपपद्यत इत्यर्थः, एतेनान्तर्भावप्रयुक्त्ततद्दोषस्पर्शशङ्कायाः तदन्तर्भावशून्यांशुमद्दृष्टान्तेन कथमपनेयत्व मिति शङ्काप्यपास्ता, तदन्तर्भावप्रतीतिप्रयुक्त्तशङ्काया एवात्रापनेयत्वात्, तत्र यथाऽन्तर्गततया प्रतीयमानस्यांशुमतो न तद्दोषभाकत्वमिति दृष्टान्तोपन्याससम्भवाच्च, भाष्ये - द्वे वा व ब्रह्मणो रूपे इति, अत्र मूर्तशब्देन पृथिव्यप्तेजांसि, अमूमृर्तशब्देन वाय्वन्तरिक्षे च कथ्यन्ते, उत्तरत्र “तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च अतोऽभूर्तं वायुश्चान्तरिक्षञ्च’ इति श्रवणात् यथा महारजनं वासो यथा - पाण्ड्वाविदिक यथेन्द्रकोपो यथाऽग्न्यचिर्र्यथा पुण्डरीकम्’ इत्यादिना आत्मनो मूर्तामूर्तानुभवजनितवासनाजन्यविज्ञानविषयभूतस्वप्नरूपाणि च उपन्यस्य “अथात आदेशो नेति नेति’ इति रूपद्वयमपि प्रतिषिध्य “सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम्’ इति प्राणशब्दोपलक्षितस्य प्रपञ्चस्य व्यावहारिकसत्यत्वमुकत्वा ब्रह्मण एव परमार्थसत्यत्वमुक्त्तमित्युपसंहृतम् । वृहदारण्यक इति - अथ स्यादिति भाष्यप्रस्यार्थः ॥20॥अत्र तु तैर्गुणैः यदेतावत्वमिति समासद्वयमप्यभिप्रेतम्, ये ब्रह्मणो विशेषाः प्राकृताः तद्विशिष्टतया ब्रह्मणः प्रतीयमाना इयत्तेति च या ब्रह्मण इयत्ता प्रकृतेति च भाष्ये दर्शनात् उक्त्तप्रकारमात्रविशिष्टतया ब्रह्मण इयत्ता प्रकृतेति, ननु गुणानां प्रकृतत्वेऽपि कथं तन्मात्रतन्मात्रगुणकत्वं प्रकृतम्? गुणान्तरनिषेधस्य अशर्ब्दत्वात्’ आह च तन्मात्रै इति न्यायविरुद्धत्वाच्चेति चेत् सत्यम्. “सर्वं वाक्यं सावधारणम्’ इति न्यायेन गुणान्तरनिषेधविशिष्टतद्गुरणवत्वरूपविशिष्टस्य एतावत्वस्य प्रकृतत्वमभिप्रेत्य तथोकत्युपपत्तेः । एतावदित्येव वक्त्तव्यमिति - वस्ततस्तु न तदपि वक्त्तव्यम्, प्रकृतान् प्रतिषेधतीत्येवं चारिताथ्यर्ादिति द्रष्टव्यम् । भूयिष्ठत्वमुच्यत इति गुणभूयिष्ठत्वमुच्यत इत्यर्थः, ततश्च भूयो भूयो व्रवीतीति न क्रियान्वय इति भावः । सार्थसंग्रहमिति - अर्थसंग्रहयुक्त्तं विषयवाक्यमुपादात्तुं सौत्रं पदं पुनरप्युपादत्ते, अतो न पौनरुकत्यशङ्का कार्येति भावः । अचेतनजीवव्यावृत्तिरिति - अचेतनस्य जडरूपतया स्वरूपतो निकृष्टत्वम्, जीवस्य तु गुणतो निकृष्टत्वमियर्थः ॥ ॥ इति उभयलिङ्गाधिकरणम् ॥is not available.is not available.is not available.