10 मुग्धाधिकरणम्

भाष्ये - निमित्तं हि मूर्च्छाया अभिघातादिरिति, सुषुप्तेस्तु श्रमादिर्नििमित्तमिति भावः, सदञ्चोपलक्षणम्- आकारवैरुप्यस्यापि, भाष्ये स्पष्टत्वात् नोदाहृतम्, सुषुप्तौ हि प्रसन्नवदनत्वश्चासपूर्णत्वादिरुपलभ्यते, मूर्च्छायां तु करालवदनत्वसूक्ष्मश्वासादिरूपमाकारवैरूप्यम्, मूर्च्छामरणयोरप्येवमेव निमित्तवैरूप्यमाकारवैरूप्यञ्च स्पष्टमेव, अतो निमित्तवैरूप्यादाकारवैरूप्याच्चैतद्वयमपि सुषुप्तिमरणयोर्द्वयोरप्यन्वेतीति केचिद्वर्णयन्ति, न चैवं निमित्तवैरूप्यात् सुषुप्तिव्यावृत्तिः, आकारवैरूप्यात् मरणव्यावृविरिति टीकाविरोध इति वाच्यम्, मार्गान्तरस्य मार्गान्तरादूषकत्वात्, न चास्यां योजनायां निमित्ताकारवैरूप्याभ्यां मूर्च्छायाः सुषुप्ति मरणभेदस्य सिद्धत्वात् मरणं हि सर्वप्राणदेहसम्बन्धोपरतिरित्याद्युत्तरभाष्यग्रन्थो व्यर्थ इति वाच्यम्, मरणार्द्धसम्पत्तिर्मूर्च्छेत्युक्त्ते किं तन्मरणं केयमर्द्धसम्पत्तिरित्याकाङ्क्षायाम् अस्य ग्रन्थस्य प्रवृत्तेः नासङ्गति । मरणार्द्धसम्पत्तिः मूर्च्छेति वाक्यस्यायमर्थेः, मरणं सर्वप्राणवियोगसर्वप्राणवियोगार्थाः कतिपयपाणवियोगसम्पत्तिः मूर्च्छेति, न च यत्रौषधादिवशास्त्र मरणम् । तत्र सर्वप्राणविरतिलक्षणमरणार्थत्वाभावात् तत्र कतिपयप्राणवियोगसम्पत्तिरूपमूर्च्छायाः मूर्च्छात्वं न स्यदिति वाच्यम्, मरणार्थाधर्सम्पत्तिरित्यत्र फलोपधानस्य विवक्षितत्वात् , नहि प्रतिबन्धकवशेन मरणकार्यानुत्पविमात्रेण स्थूलप्राणविर्योगरूपमूर्च्छायाः मरणार्थत्वं हीयते, अतः सुष्टूक्त्तम्- मरणायार्थ सम्पत्तिरिति, ननु मरणत्र्यावर्त्तकाकारवैरूप्यविवरणात् प्रागेव सुषुप्तिमरणपारिशेष्यकथनं कथं युज्यते, सुषुप्तिव्यावर्त्तककथनात् सुषुप्तिपारिशेष्यकथनं हि युज्यत इत्याशङ्कयाह - न सुषुप्तिमरणे इत्युक्त्तेरिति ॥ ॥ इति मुग्धाधिकरणम् ॥ 4 ॥