09 कर्मानुस्मृतिशब्दविध्यधिकरणम्

अत्र न कञ्चन पाप्मानं स्पृशतीति श्रुतिरभिप्रेतेति - “आसु तदा नाडीषु सुप्तो भवति तन्न कश्चन पाष्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति’ इति श्रूयते, तत्र पाष्मशब्दस्यसुकृतदुष्कृतसाधारणत्वेन सर्वोपाधिविनिर्मोक्षाभिप्रायत्वादिति भावः, ततश्च सुषुप्तस्य पुनारावृत्तिहेत्वाभावादन्य एवोत्तिष्ठति, ततश्च कर्मानुस्मृतिशब्दविधयो यथाकथञ्चिदुपपादनीयाः,कथं कर्माफलभोगनियमस्सुषुप्तयभावे, अतः पुण्यफलं भोगार्धिना सुषुप्तितोऽपि रक्षणीयम्, अनुस्मृतिस्तु भ्रान्तिरूपैव, त इह व्याघ्रो वा’ इत्यादिशब्दो यच्छरीरकः प्राचीनः तच्छरीर एवान्य उत्तिष्ठत्येवं परः, मोक्षार्थविधयोऽपि ब्रह्मानन्दानुभवार्थिविषयाः, सुषुप्त स्य तु स्वरूपानन्दानुभव एव, न ब्रह्मानन्दानुभवोऽपि , अतो नानुपपत्तिरिति भावः । यद्यद्भवन्तीति - “त इह व्याघ्रो वा सिंहो वा वराहो वा कीटो वा दंशो वा मशको वा यद्यत् भवन्ति’ इति छान्दोग्ये श्रूयते, यद्यत् भवन्ति- ये येऽभवन् तत्तदेव त एवेत्यर्थः, आसुषुप्तादागत्य भवन्तीत्यर्थः । पूर्वं ये यथा भवन्ति ते तथा भवन्ति इत्यर्थः इति - भवन्तु फलितार्थकथनम्, श्रुतौ यथातथाशब्दाभावात् यद्यत् भवन्ति तथा भवन्तीति हि श्रुतिवाक्यम् । अनुष्ठानाशक्त्तिर्विवक्षितेति - ननु परमात्मसम्पत्तिदशायां तन्महिम्ना पाष्मनामस्पर्शः परं कथ्यते, न त्वनुष्ठानाशक्त्तिः, अशब्दार्थत्वात्, “तेजसा हि तदा सम्पन्नो भवति’ इति परमात्मसम्पत्तेः पापासंस्पर्शहेतुत्वप्रतिपादकोत्तरवाक्यविरोधाच्चेति चेत्,. भैवम्, “तेजसा हि तदा सम्पन्नो भवति’ इति परमात्मसम्पत्तेः पापासंस्पर्शहेतुत्वप्रतिपादकोत्तरवाक्यविरोधाच्चेति चेत्, भैवम्, “तेजसा हि तदा सम्पन्नो भवति’ इत्यत्र आशंशायां त्यप्रत्ययः, ब्रह्मणा सम्पत्तिं तदाभिलषति ततश्च अनुष्ठानाशक्त्तस्सन् तदानीं परमात्मनं हि विश्रान्तिस्थानमभिलषतीत्यर्थः सिध्द्यति । अर्थान्तरप्रत्यङिज्ञाधारत्वमिति - मयेदं प्रक्रान्तं मयेदं दृष्टमित्यर्थान्तरप्रत्यभिज्ञानं कर्मशब्देन उच्यते, “योऽहं सुप्तः स एव जागर्मि’ इत्यादिस्वविषयप्रत्यभिज्ञानमनुस्मृविशब्देनोच्यत इति वैषम्यमिति भावः । निर्हेतुकत्वप्रसङ्गाभिप्रायत्वादिति - “नायुक्त्तं क्षीयते कर्म, इत्यादि स्मारकत्वादिति भावः ॥9॥ ॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणः ॥