08 तदभावाधिकरणम्

तद्यत्रैतदित्यादिछान्दोग्ये श्रूयते, तत् तत्रैव सति यस्मिन् काले एतत् स्वप्नं सुषुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्रकारत्वात् सुषुप्तिसिद्धयर्थं विशेषणम् - समस्त इति । उपसंहृतसर्वकरण इत्यर्थः, विषयसम्पर्कजनितकालुष्याभावात्, सम्प्रसन्नः सुप्तो भवति प्रविष्टो भवतीत्यर्थः, इदन्तु छान्दोग्ये दहरविद्यागतं वाक्यम् “अथ यथा सुप्तो भवति’ इत्यादि वृहदारण्यकवाक्यम्, “यत्रैतत् पुरुषः स्वपिति’ इत्यादिकं छान्दोग्यसद्विद्यागतम्, ननु “न सता साम्य’ इत्यत्र सप्तम्या अश्रवणात् कथमाधारत्वप्रतीतिरिति चेत्, सत्यम्, तद्वाक्यशेषे “सति सम्पद्य न विदुः सति सम्पत्स्यामहे’ इति सप्तम्याः श्रवणात्, तथा “य एषोऽन्तर्हृदय आकाशः तस्मिन् शेते’ इति श्रुत्यन्तरैकार्थ्याच्च आधारत्वप्रतीतेः । खट्वापर्यङ्कवदिति - पर्यङ्कशब्दोऽयमास्तीर्णवाची, नागपर्यङ्कमुत्सृत्य’ इत्यादौ प्रयोजदर्शनात्, अतः पर्यङ्कशब्दस्य खट्वापर्यन्तत्वमेवेति न भ्रमितव्यम् । कार्यभेदावगमकत्वे त्विति - यद्यपि ब्रह्मणः प्रबोधश्रवणं ब्रह्मणो नियमेन सुषुप्तिस्थानत्वरूपस्य परमसाध्यस्यैवोपपादकम्, न तु कायर्भेदावगमद्वारां ब्रह्मणो नियमेन सुषुप्तिस्थानत्वोपपादकम्, तथापि समुच्चयरूपस्थाधिकरणार्थस्य कार्यभेदावगममन्तरेण अनिर्वाहात्, सोऽप्युपादककोटौ निविशत इति दृष्टव्यम्, ननु “सन्मूला सोम्येमाः सर्वाः प्रजाः सदायतानाः सत्प्रतिष्ठाः’ इति श्रवणात् नियमेन ब्रह्माश्रितस्य कथं तदनपेक्ष्य नाड्यां पुरीततीव सुषुप्तिराशङ्कयते, उच्यते, न केवलस्य ब्रह्मणोऽत्र विकल्पकोटित्वम्, किन्तु दहराकाशरूपस्य छान्दोग्य एव दहारविद्यायां दहराकाशरूपं बह्म प्रस्तुत्य एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्ति’ इति सुषुप्तिस्थानत्वश्रवणात्, किञ्च सद्धिद्यावाक्यशेषोऽपि “सत ;आगम्य न विदुः सत आगच्छामहे’ इति श्रूयते, तेन किञ्चित् प्रदेशावच्छिन्नमेव सुषुप्तिस्थानमिति सिद्धयति; नर्हि ग्रामादिवापरिच्छिन्नात् ब्रह्मण आगमनं सम्भवति, स च अवच्छेदकों हृदयपुण्डरीकरूप इति छान्दोग्य एव प्रदेशान्तरपर्यालोचनया निश्चीयते, श्रुत्यन्तरे “य एषोन्तर्हृदय आकाशस्तस्मिन् शेते’ इति हृदयपुण्डरीकावच्छिन्नब्रह्माधारकत्वस्य स्पष्टमाम्नानाच्च, तस्मात् उपपन्ना ब्रह्मणो वैकल्पिकाधिकरणत्वशङ्का, भाष्ये - निरपेक्षत्वप्रतीतेरिति, उक्त्तं हि पूर्वतन्त्रे “एकाथर्ास्तु विकल्पेरन् समुच्चये ह्यावृत्तिस्स्यात् प्रधानस्य’ इति, तत्र हि “व्रीहिभिर्यजेत् यवैर्यजेत ’ इत्यादिषु सर्वाङ्गोपसंहारिप्रयोगवचनानुग्रहायाष्टदोषदुष्टविकल्पपरिहाराय समुच्चय एव स्यात्, ततश्चज्योतिष्टोभवत् दर्शपूर्णमासप्रदानमागाभ्यासमाश्रित्य समुच्चयोऽभ्युपगन्तव्यः, अथवा व्रीहियवानां मिश्रणेन वा यागः कर्तव्य इति पूर्वपक्षं कृत्वा एकाथर्ानाम् एकस्मिन् उपकारे अन्योन्यनिरपेक्षतया विनियुक्त्तानां विकल्प एवाभ्युपगन्तव्यः, ज्योतिष्टोमे, हि द्रव्यदेवतासंयोगानाम् अदृष्टार्थानाम् अपर्य्यायविधायिना प्रकरणेन युगपत् ग्रहणात् सर्वसम्पादनाय युकतम्, यद्यभ्यस्यते व्रीहियवौ तु द्वाभ्यां वाक्याभ्याम् अन्योन्यनिरपेक्षौ यागद्रव्यपुरोडाशप्रकृतितया विधीयमानौ तद्द्वारेण प्रयोगवचनो गृह्णन् पर्यायेण गृहणाति, न यगपत्, येन बलात् ज्योतिष्टोमवत् प्रधानयागाभ्यासः स्यात्, मिश्रणमपि निरपेक्षविधानात् अयुक्त्तम्, मिश्रणे हि; वाक्यद्वयमपि बाधितं स्यात्, तस्मात् द्वाभ्यामपि वाक्याभ्यां द्वयोरपि निरपेक्षयोः प्रकृतित्वेन विधानात् तद्वलेन द्रव्यान्तरनिवृत्तिः प्रतीयते, तस्मात् विकल्प इत्युक्त्तम्, तन्न्यायेन इहापि विकल्प इति भावः । श्रुत्यनुसारादिति - स्वप्नाभावसुषुप्त्योः सम्बन्धस्य श्रुतिप्रसिद्धत्वात् स्वप्नाभाववाचिशब्देन सुषुप्तिलक्षणा उचितेति भावः । पूर्वपक्षयुक्त्तिव्युदासार्थमिति - पूर्वपक्षयुक्त्तित्वव्युदासार्थमित्यर्थः, त्रयाणशं स्थानत्वश्रुतेः विकल्पस्यैव साधकत्वेन पूर्वपक्षयुक्त्तित्वेन समुच्चयसाधकयुक्त्तित्वाभावादिति शङ्काव्युदासार्थमाहेत्यर्थः, अयम्भावः,असम्भवत्कार्यभेदस्थले एकविभक्त्तिनिर्देशस्य विकल्पसाधकत्वेऽपि सम्भवत्कार्यभेदस्थले एकविभक्त्तिनिर्देशस्याष्टदोषदुष्टविकल्पभीत्या समुच्चयस्यैव साधकत्वात्,इतरथा नित्यपदाम्नानभङ्गप्रसङ्गादिति । अथ तु यथासम्भवं बाध इति - अपूर्वोत्पत्तिबाधफलबाधयोरत्यन्तासम्भवादित्यर्थः, इदमुपलक्षणम्, व्रीहियवादिशास्त्रेष्विव प्रामाण्यपरित्यागाप्राकाण्यस्वीकारस्वीकृताप्रामाण्यपरित्यागपरित्यक्त्तप्रामाण्यस्तीकाराःचत्वारो दोषाः एकस्मिन् शास्त्र इति नाडीपुरीतद्व्रह्मशास्त्रेषु त्रिष्वपि प्रत्येकं चत्वारश्चत्वारो दोषाः इति द्वादश दोषा दृष्टव्याः, तथाहि एकस्यां सुप्तौ नाड्यां शयने पुरीतद्वाक्ये ब्रह्मवाक्ये च प्रत्येकं प्रामाण्यापरित्यागाप्रामाण्यस्वीकारौ द्वौ द्वौ दोषौ, सुप्त्यन्तरेपुरीतति शयने नाडीवाक्ये प्रामाण्यपरित्यागाप्रामाण्यस्वीकारौ द्वौ द्वौ दोषौ, परीतद्वाक्ये तु परित्यक्त्तप्रामाण्यस्वीकारस्वीकृताप्रामाण्यपरित्याग इति दोषद्वयमिति चत्वारो दोषाः पुनः सुप्त्यन्तरे ब्रह्मणि शयने ब्रह्मवाक्येऽपि स्वीकृताप्रामाण्यपरित्यागापरित्यागपरित्यक्त्ताप्रामाण्यस्वीकाररूपौ द्वौ द्वौ दाषौ, ततः सुप्त्यन्तरे नाड्यां शयने नाडीवाक्येऽपि पूर्ववत् दोषद्वयमिति स्वापचतुष्टये द्वादश दोषाः प्रादुःप्युः, “अष्टदोषदुष्टो विकल्प’ इति उक्त्तिस्तु प्रसिद्धव्रीहियवोदाहरणाभिप्राया,भाष्ये - नाडीपुरीतताविति, यद्यपि आन्तरं पुरीतदिति निघण्टुषु नपुंसकत्या निर्दिष्टं तद्वयाख्यातृभिर्व्याख्याञ्च, तथापि पुरीततमभिप्रतिष्ठन्त इति वैदिकव्यवहारदर्शनात् उभयलिङ्गत्वमस्तीत्यभिप्रेत्य भाष्यकृता पुल्ँलिङ्गतया निर्देशः कृत इति द्रष्टव्यम् ।परम्परया एकप्रयोजनत्व इति - अङ्गानाम् अवान्तरकार्यभेदद्वारा करणसामर्थ्यात् बोधनरूपैकप्रयोजनपर्यवसितानामपि समुच्चयदर्शनादिति भावः, न च साक्षात् एकप्रयोजनत्वं विकल्पप्रयोजकमिति वाच्यम्, एकवाक्यप्रतिपाद्यतया साकाङ्क्षयोः एकक्रयनिर्वर्त्तकयोरारुण्यैकहायन्योर्विकल्पाभावेन नैरपेक्ष्यस्याप्यपेक्षितत्वादिति भावः । नाड्यादिसमुच्चयश्च श्रुत्या प्रदशिर्त इति - “तासु तदा सुक्त्तो भवति’ इति श्रुत्या नाडीनां प्राणशब्दितस्य ब्रह्मणश्च समुच्चयः प्रदर्श्यते, इति भावः । कथमविरोध इति - पुरीतता हृदयात् बाह्यत्वेन प्रासादखट्वापर्य्यङ्कन्यायास्भवादिति भावः । हृदय इति वच इति - परमरत्मनो व्यापकत्त्वेऽपि हृदयावच्छिन्नपरमात्मनोऽतथात्वात्, तत्र शयनस्य पुरीतच्छयनं विरुद्धमेवेति भावः । अविरोध इति वाच्यमिति - तच्चायुक्त्तमिति शेषः । हृदि शयनस्य च विरोधादिति - 2अन्तर्हृदय आकाशः तस्मिञ्छेते’ इति प्रतिपादितेन हृदयाकाशसदनेन, “हिता नाम नाड्यो द्वासप्ततिसहस्त्राणि हृदयांत् पुरीततमभिप्रतिष्ठन्ते’ ताभिः प्रत्यवसृष्य पुरीतति शेते’ इति पुरीतति शयनस्य च विरोधात् न हि प्रासादान्निर्गत्य प्रासादप्रावरणप्राकारे शयानः प्रासादे शेते इति शक्यते वक्त्तुमिति भावः,कस्तर्हि परिहार सति चेत्, इत्थम्, अवहितमनाः ृणु, पुरीतताख्यं मांसं हृदयमध्यगतं दहरपुण्डरीकाधारभूतम्, दहरपुण्हरीकावच्छिन्नः आकाशः दहराकाशः, तत्र जीवस्य सुषुप्तिः, हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिँस्तद्दहरं पुण्डरीकं कुमुदमिवादेकधा विकसित’मिति सौबलश्रुतेः; पुरीततो हृदयवेष्टनोक्तिस्तु हृदयान्तर्वर्तिदहरपुण्डरीकवेष्टनाभिप्रायेण, ततश्च न क्कापि विरोधगन्धः, तस्य च हृदयस्य दश छिद्राणि जागराद्यवस्थजीवस्तानभूतानि प्राकारस्य द्वाराणि वसन्ति, तत्र जागरस्वप्नावस्थे अनुभूय सुषुप्तिदशायां हिता नाम नाडीद्वारा अन्तःप्रविश्य प्राकारस्थानीयस्य हृदयस्य मध्यवर्त्ति यत्पुरीतताख्यं लोहितं मांसपिण्डं तत्प्राप्य तस्योपरि निविष्टदहरपुण्डरीकान्तर्वत्तिदहराकाशशब्दितपरब्रह्मणि सुषुप्तौ विरोधाभावात्, प्राकारद्वारे विहृत्य राजमार्गेण प्राकारद्वारात् राजभवनं प्रत्यवसृष्य प्रासादे शयाने महाराजे प्राकारान्निर्गत्व राजमार्गेण राजभवनं प्रत्यवसृष्य राजभवने शेते इत्युक्त्तौ विरोधाभावात् ॥ ॥ इति तदभावाधिकरणम् ॥