सुखानुभवेऽपीति - कृतात्यय इति सूत्रांशेन स्वर्गक्षयिष्णुत्वस्य सूत्रकृताख्यापितत्वादिति भावः, दुःखित्वज्ञापनप्रकारः सर्वोषि रंहत्यथिकरणेऽस्माभिः प्रपञ्चितः तत्रैवानुसन्धेयः - भाष्ये स्वप्नमधिकृत्येति । प्रवृत्तेति शेषः, स्वप्नमधिकृत्य प्रवृत्ता श्रुतिः श्रूयत इति योजना, तेन समानकर्तृकत्वात् न क्तवानुपपत्तिः, अधिकृत्य प्रस्तुत्येत्यर्थः, भाष्ये रथयोगा इति, रथैर्युज्यन्त इति रथयोगा रथाश्वाः कर्मणि घञ् कर्तृकरण इति समासः, वेशान्ताः पल्वलानीत्यर्थः, पुष्करिण्य इति द्वितीयार्थे “सुपां सुपो भवन्ती’ति जसादेशः, अथवा छान्दसः पूर्वसवर्णदीर्घाभावः - स्प्नं पश्यतीति हि प्रकृतमिति । यद्यपि “स यत्र स्वपिति अस्य लोकस्य सर्वाबतो मात्रा उपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति अत्रायं पुरुषः स्वयंज्योतिर्भवती’त्युपक्रम्य हि “न तत्र रथा’ इति बृहदारण्यके श्रूयते, अत एव शाङ्करभाष्ये स यत्र प्रस्वपितीत्युक्रम्येत्येवोक्तम्, तथापि प्रस्वपितीत्यस्य अस्पष्टाथर्त्वात् स्पष्टार्थं लौकिकं वाक्यान्तरमुपात्तम्, न त्वेतत् श्रुतिवाक्यमुपात्तमिति द्रष्टव्यम्, एवमुत्तरत्र स्वप्नं पश्यतीति प्रकृतो जीव इत्यत्रापि द्रष्टव्यम् । भाष्ये- सन्ध्यं स्वपनस्थानमुच्यत इति, तस्य ह वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभे स्थाने पश्यति इदं च परलोकस्थानञ्चेति श्रुतिः, यथा ग्रामसन्धिः द्वौ ग्रामौ भजते एवं स्वप्न उभौ लाकौ लक्षणतो भजते एतल्लोकवर्त्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्वलक्षणं परलोकलक्षणं भजते, परलोकवर्त्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्वरूपमैहलौकिकलक्षणमपि भजत इत्यर्थमस्याः श्रुतेः केचन वर्णयन्ति, भाष्ये- सृजते स हि कर्त्तेत्याह हीति, हि शब्दो हेत्वर्थः, ततश्च कर्त्तेत्यस्य सृजत इत्यनेनैकार्थ्यात् द्देतुहेतुमद्भावाभावात् कर्तृत्वोपयुक्त्तसत्यसङ्कल्पत्वगुणशालीत्यथर्।, ततश्च सत्यसङ्कपत्वात् जीवस्य कर्त्तृत्वं युज्यत इत्यर्थः इति पूर्वपक्षिणो भावः, न च सत्यसङ्कल्पत्वादिसद्भावे जागरेऽपि जीवस्य रथादिस्रष्ट्टत्वं स्यादिति वाच्यम्, जागरदशायां तिरोहितस्य स्वप्नदशायां मुक्त्ताविवाविर्भावसम्भवात्, पूर्व पश्चात् चासतां स्वप्नपदार्थानां स्वप्नकाले भवनवत् सत्यसङ्कल्पत्वस्याऽपि तन्मात्र एवाऽऽविर्भावोपपत्तेः, नचैवं सति प्रवुद्धस्य रथादीनद्राक्षमिति परामर्शवत् रथादीनस्त्राक्षमित्यपि परामर्शः स्यादिति वाच्यम्, स्वप्ने जागरानुभूतपितृपितामहात्ययादिवृत्तान्तस्याननुसन्धानवत् स्वपनेऽनुभूतरथादिस्त्रष्ट्टत्वस्य जागरणे अननुसन्धाने दोषाभावात्, न च जीवस्य स्वाप्नार्थस्त्रष्ट्टत्वे शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान् इति वाच्यम्, तदानीं स्वाप्नार्थस्याऽशुभसूचकत्वाननुसन्धानेन तत्स्त्रष्ट्टत्वोपपत्तेः, स्वप्नदृक्कर्त्तृकेषु तैलपानतैलघटावगाहनविषभक्षणमध्वशनैकपुण्डरीकदारणादिषु सिद्धान्तेऽप्येवमेवोपपादनीयत्वात्, तस्मात् जीव एव कर्त्तेति पूर्वपक्षिणो भावः ॥ 1 ॥जीवलिङ्गं दर्शयतीति - ततश्च परमात्मनस्तत्र प्रकृतत्वेऽपि पुत्रपौत्रादिसम्बन्धरूपस्य जीवलिङ्गस्य बलवत्वात् एषु सुप्तेषु’ इति वाक्ये जीव एव कर्तृत्वेन प्रतिपाद्यत इति भावः ॥ 2 ॥तुशब्दसिद्धार्थ उक्त्त इति - जीवकर्तृकत्वरूपपूर्वपक्षव्यावर्तकतुशब्दवलात् परमात्मकर्तृकत्वं लभ्यते, मायामात्रं स्वप्ने पुष्करिण्याद्यर्थजातं परमपुरुषसृष्टमिति भाष्ये योजना, मायामात्रमित्येतत् हेतुगर्भं पक्षविशेषणम्, सर्वांशस्याऽप्याश्चय्यर्रूपत्वात् परमात्मसृष्टमिति भावः, ततश्च परमपुरुषसृष्टमित्येनन्मायामात्रमित्यस्य व्याख्यानमिति न मन्तव्यमिति भावः । ।न भवन्तीति वाक् यस्य वैयर्थ्यमिति - पूर्वकालीनाभावपरत्वेनाभूवन्नित्येवं निर्देशप्रसङ्गेन लडन्तनिर्देशानुपपत्तिरित्यस्वारस्यमपि बोध्यम्, ननु यद्यपि प्रसिद्धरथादीनामभावस्य लोकसिद्धत्वेऽपि तेषामनुभवाभावो न लोकसिद्ध।, सुप्तोत्थितो हीत्थं परामृशति, पुरा यो रथो माहिष्मत्यां दृष्टः तमेव रथं स्वप्नेऽन्वभूवमिति, ततश्च कथमनुभवाभावो लोकसिद्ध इति चेत्, सत्यम्, “सृजते स हि कर्त्ता’ इति सृज्यत्वकथनादेव प्रसिद्धानामननुभूतत्वस्य सिद्धिसम्भवात्, न तत्प्रतिपादनाय “न तत्रे रथाः’ इत्यादिवाक्यमथर्वदिति भावः -विजातीयविचित्रार्थसृष्टिपरत्वमिति । ननु वैजात्यं लोकसिद्धम्, स्त्रष्ट्टत्वमात्रमेव हि प्रतिपिपादयिषितमिति पर्यवसन्नम्. ततश्च सृजत इत्येतन्मात्रस्यैव सार्थक्यम्, न तु “न तत्र रथा’ इत्यादि पूर्व भागस्येति चेत्, सत्यम्, “जन्माद्यस्य यतः’ “यतो वा इमानि’ इत्यादौ इदंशब्दस्य कार्यवर्गवैचित्र्यतूचकत्वेन साफल्यवत् “न तत्र रथाः’ सत्यादिवाक्यस्यापि स्वप्नार्थवैचित्र्यसूचनमुखेन अतिविचित्रस्वप्नार्थस्त्रष्ट्टत्वरूपपरब्रह्ममहिमप्रतिपादने तात्पर्य्यमिति, तत्कालमात्रावसायित्वरूपमित्यनन्तरं पय्यर्वस्यतीति पूरणीयः, अथ वा इति सगाप्तौ द्रष्टव्यः । णमुलन्तमिति - “आभीक्ष्ण्े णमुल् चेति णमुल्, आभीक्ष्ण्े द्वे भवत सति द्विर्भावः ॥ 3 ॥ननु तिरोधानस्य तत्सङ्कल्पायत्तत्वं प्रतिज्ञातं चेति ततो ह्यस्य तिरोधानविपर्ययावित्येव निर्देष्टव्यमित्यत आह - बन्धस्य तत्सङ्कल्पायत्तत्व इति । ॥ 4 ॥ ॥ 5 ॥is not available.स्वप्नवाचिवेदवाक्यविद इति - ननु स्वप्नाध्यायस्य पुराणगतस्य ग्रहणे न किञ्चिद्वाधकमिति चेन्न, श्रुतेराचक्षते च तद्विदः- इत्यत्र तच्छब्दस्य सन्निहितश्रुतिपरामर्शकत्वस्यैव युक्त्तत्वात्, श्रुतावप्यध्यायव्यवहारसत्वेन भाष्यविरोधाभावाच्च, भाष्यध्यस्वप्नाध्यायदेन श्रुतिरेव गृह्यत इत्यभिप्रायः । भाष्ये शुभस्य सूचकमेवेति । न च अशुभसूचकत्वापरिज्ञानात् तत्सृष्टिरिति वाच्यम्, तदानीन्तनानिष्टकारिणां चोरव्याघ्रादीनामनिष्टकारित्वेन ज्ञायमानानां सृष्टिदर्शनेन स्वाप्नसृष्टेः जीवकर्तृकत्वासम्भवादिति भावः । परे तु स्वाप्नाः पदार्थाः वियदादिवत्सत्याः, वृहदारण्यके स्वप्नमधिकृत्य “अथ रथान् रथयोगान् रथपथः सृजते’ इति सृष्टयाम्नानात्, उपसंहारे स हि कर्त्तेति सुप्तजीवकर्त्तृकत्वाम्नानात् अपरमार्थस्य सृष्टेः कर्तुर्वा असम्भवात् तथा कठशाखायां “एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ इति कामशम्दनिर्दिष्टानां स्वाप्नानां पुत्रपौत्रादीनां निमर्ाणश्रवणात् तस्य निर्माणस्य प्राज्ञकर्त्तृकत्वाच्च प्राज्ञकत्तर्ृकाणां वियदादीनां पारमार्थ्यवत् स्वाप्नानामपि तथ्यरूपत्वमेवोचितम्, न च प्राज्ञकर्त्तृकत्वहेतोरसिद्धिः, एषु सुप्तेषु’ इति वाक्यस्याधस्तात् परमात्मन एव प्रकृतत्वात् जीवकर्तृकत्वेऽपि जीवस्य प्राज्ञाभिन्नत्वेन प्राज्ञकर्तृकत्वानपायात्, किञ्च स्वाप्नप्रत्ययः प्रमा प्रत्ययत्वात्, संवादिप्रत्ययवदित्यनुमानाच्च स्वाप्नार्थस्य सत्यत्वसिद्धेः, नचोत्तरकालं बाधदशर्नात् असत्यत्वं भुयोर्भिन्नविषयत्वेन बाध्यबाधकभावाभावात्, एकस्यैव क्षीरस्य कालान्तरे दधिभाववत् स्वप्नेरथादिरूपाणामेव तेषां जाग्रद्दशायां तद्भिन्नरूपेण परिणामसम्भवेन बाध्यबाधकत्वेनाभिमतयोः कालभेदेन वस्तुद्वयविषययोरविरोधात्, अथवा सर्वं सर्वरूपमेव निद्रारूपव्यञ्जकसमवधाने रथाद्यात्मना गृह्यते, अतद्रूपत्वव्यञ्जिका तु जाग्रद्दशा, किञ्च केषाञ्चित् स्वप्नानां जाग्रत्प्रत्ययसंवाददर्शनात् तत्सामान्यादितरेषामपि स्वप्नानां तथात्वं वक्त्तव्यम्, एवं प्रामाण्योपपादनसम्भवे अप्रामाण्याश्रयणस्यान्याय्यत्वात्, न तत्र रथा इत्यादि रथाद्यभावश्रुतिस्तु जाग्रदवस्थादर्शनयोग्या न सन्तीत्येवं भाक्त्ततया व्याख्येया, इत्येवमाद्याभ्यां सूत्राभ्यां पूर्वपक्षं कृत्वा माया मात्रं तु इत्यादिभिः सूत्रैः सिद्धान्तः कृतः, मायामात्रं, न परमार्थगन्धोस्तीत्यर्थः, परमार्थवस्तुधर्माणां देशकालनिमित्ताबाधानां कार्त्स्न्ेन तत्राभावात्,न तावत् स्वप्ने रथगिरिनदीसमुद्रादीनामुचितो देशः सम्भवति, अतिस्वल्पे स्वप्नदृग्देहदेशे रथादीनामवकाशासम्भवात्, न च तत्रैव “बहिष्कृुलायादवरश्चरित्वा स ईयते अमृतो यत्र काम’मिति कुलायशाब्दितात् शरीरात् बहिश्चरित्वा यत्र विषये कामो भवति तत्र तत्र ईयते गच्छतीति शरीरात् बहिस्सञ्चरणश्रवणेन स्वप्नदृक् न स्वदेहान्तर्गतदेश एव स्वाप्नान् पदार्थान् पश्यति, येन देशस्याननुरूपत्वं स्यादिति वाच्यम्, देहाद्वहिस्सञ्चरणे दण्डताडनादावनुत्थानप्रसङ्गेन तस्याः श्रुतेरुपपत्तिविरुद्धत्वात्, स्वे शरीरे यथाकामं परिवर्तते’ इति श्रुतिवशाच्च बहिष्किुलायश्रुतेर्गौणत्वस्य वक्त्तव्यत्वात् स्वप्नदृग्देहान्तर्वर्तिदेशस्यैव स्वाप्नपदार्थदेशत्वात् तस्य च तदुचितदेशसम्पत्त्यभावात् देशस्यदुर्निरूपत्वं सिद्धम्, तथा मुहूर्तमात्रेस्वप्नकालेन चिरकालसाध्यविवाहपुत्रोत्पादनादयस्सम्भवन्ति, न वा रथाद्युत्पत्तिनिमित्तानि दार्वादीनि तद्दर्शननिमित्तानि वा बाह्यकरणानि वा सम्भवन्ति, यच्चोक्तं कालभेदेन भिन्नविषयत्वात् न प्रतीत्योर्बाध्यबाधकभाव इति, तन्न, नहि जात्वीश्वरगृहे चिरस्थितरजतभाजनानि शुक्त्तिभावमनुभवन्ति दृश्यन्ते, न वाऽन्येन रजततया अनुभूयमानानि वस्तूनि अन्येन अनाकुलेन्द्रियेण पुंसा शुक्त्तित्वेनाऽनुभूयन्ते, नाप्येकस्य सर्वदा सर्वरूपत्वमिति पक्षः सम्भवति, तथा सति सर्वास्य वस्तुनः सर्वर्थक्रियाकारित्वप्रसङ्गात्, तस्मादुपपत्तिविरुद्धा सगर्श्रुतिरुपपत्तिसहितप्रक्रमश्रुतरथाद्यभावश्रुत्यनुरोधेन भाक्त्ततया व्याख्येया, सृजते प्रत्येतीत्यर्थः. स हि कर्त्तेत्यत्रापि नहि जीवस्यसुप्तस्य रथादिषु स्त्रष्टत्वं वक्त्तुं शक्यते, तद्दर्शननिमित्तसुकृतदुष्कृतकर्तृत्वेन तत्कर्तृत्वमुपचरितम्, एतेन “एषु सुप्तेषु जागर्ति’ इति कठशाखायां निर्माणश्रुतिः भाक्त्ततया व्याख्येया, यदप्युक्त्तं प्राज्ञमेतं निर्मातारमामनन्तीति तदसत्, बृहदारण्यके स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्विपिति’ इति जीवव्यापारश्रवणात् इहाप्येषु सुप्तेषु जागर्त्तीति प्रसिद्धानुवा दात्, जीव एवायं स्वयं कामानां निर्माता सङ्कीर्त्त्यते , ब्रह्मप्रकरणन्तु तदभेदबोधनार्थत्वान्न विरुद्धयते, ततश्च प्राज्ञकर्तृकत्वहेतोरसिद्धिः, अस्तु वा प्राज्ञकर्तृकत्वम्, न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिद्धयते, तस्य सर्वेश्वरत्यात् सर्वास्वप्यवस्थासु अधिष्ठातृत्वोपपत्तेः, न ह्येतावता प्राज्ञकर्त्तृकत्वमात्रेण सत्यत्वं साधयितुं शक्यम्, प्रत्यक्षविरोधात्, एवमपरमार्थद्रव्यावच्छिन्नस्य स्वप्नदर्शनस्य प्रमाणबलात् सूचकत्वमप्यभ्युपेयम्, ननु न जीवकर्तृकत्वश्रुतेरौपचारिकत्वमभ्युपेयम्, सत्यसङ्कल्पस्य तस्य सृष्टिसम्भवादिति शङ्कापकरणार्थं “पराभिध्यानात्तु’ इत्यादिसूत्रद्वयं वर्णयन्ति, तत्र दूष्यांशमनूद्य दूषयति, परे त्वित्यादिना, एषां च जीवकर्तृकत्वमेव सृजत इत्युच्यत इत्यस्यानन्तरमिति यदुक्त्तं पूर्वपक्षिणेति शेषः । तच्चौपचारिकमिति - तच्चोच्यमानं जीवकर्तृकत्वमौपचारिकमुपचरितमित्यर्थः, ननु न देशस्य दुर्निरूपत्वं, यदि वयं संवृते देहदेश एव स्वाप्नार्थानां सृष्टिमभ्युपगच्छामः, तदा हि तस्य दुनिर्रूपता नैवमभ्युपगम्यते, “बहिष्कुलायादवरश्चरित्वास ईयते अमृतो, यत्र हिरण्मयः पुरुष एकहंसः’ इति श्रुतेरित्याशङ्क्य सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितदेशपर्यटनसामर्थ्याभावात् स्वे शरीरे यथा कामं परिवर्त्तते’ इति स्वशरीर एव स्वप्नावस्थस्य परिवर्तनाम्नानाच्च बहिष्कुलायश्रुतिरुपचरितार्थेत्युक्त्तम्, तदेतदनुभाषते, बहिष्कुलायादवरश्चरित्वेति, एषु सुप्तेषु जागर्त्ती’ति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते, तस्मिन् प्रकरणे “तदेव शुक्रं तद्व्रह्म’ इति सङ्कीर्त्तनं जीवस्य ब्रह्माभेदोप दशार्थमित्येतदनुभाषते । तस्मिन् प्रकरण इत्यादिना - तस्मिन् प्रकरण इति कठचल्लीस्वप्नप्रकरण इत्यर्थः, न तु बहिष्कुलायादवरश्चरित्वेति प्रकरण इति भ्रमितव्यम्, तस्य वृहदारण्यकवाक्यस्थतया तत्र ब्रह्मप्रकरणाभावात् परैस्तथाऽनुक्त्तेश्च, तच्च द्वितीयमिति मायामात्रं सूत्रानन्तरं “पराभिध्यानात्’ इत्यस्मात् प्राक् पठितमिति भावः । अस्य बन्धमोक्षौ हीति । परमात्मा- ज्ञानज्ञानाधीनावित्यर्थः । स्वाप्नार्थानां जीवकत्तर्ृकतयेति - यद्यपि न परैर्मिथ्यात्वे जीवकर्तृकत्वं हेतूकृतम्, किन्तु प्राज्ञकर्त्तृकत्वरूपहेत्वभावसम्पादकत्वेन जीवकर्तृकत्वं वर्णितम्, तथापि साधकाभावस्य बाधकत्वमिति न्यायेन सत्यत्वसाधकाभावस्य तदभावसाधकत्वलक्षणं तद्वाधकत्वमस्तीत्यभिप्रेत्य तथोक्तम्, एवमुत्तरत्रापि द्रष्यव्यम् । श्रुतिवाक्यकृतसत्यत्वशङ्केति - सर्गनिर्माणादिश्रुतिवाक्यकृतसत्यत्वशङ्केत्यर्थः । व्याववहारिकसत्यत्वनिवृत्त्यविरोधादिति - अभिमतार्थविरुद्धत्वे हि त्याग उचित इति भावः, यद्यपि तैरेव नचास्माभिः स्वप्ने प्राज्ञव्यापारः प्रतिषिध्यते, स्वप्ने प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वाप्वप्यवस्थास्वधिष्ठतृत्वोपपत्तेः, अपि तु न प्राज्ञर्तृकत्वस्य सत्यत्वसाधकत्वमित्युक्त्तम्, तथापि पूर्वस्मिन् ग्रन्थे परमात्मकर्त्तृकत्वव्युदासेन जीवकर्तृकत्वं प्रसाध्य पुनः परमात्मकर्तृकत्वं प्रसाधयतो वाक्यं कथं “विप्रतिषेधाच्चासमञ्जस’मिति न्यायमतिवर्त्तेत इति भावः । जीवस्त्रष्ट्टत्वस्येति - ततश्चायमप्यपरो विप्रतिषेध इति भावः । एवं जीवानामिति - “पराभिध्यानात्’ इति साक्षात् सूत्रितत्वादिति योजना, अथवा साक्षादित्यस्य स्वाप्नार्थकर्तृकत्वाभावस्येत्यनेनान्वयः, साक्षात्कतर्ृकत्वाभावस्य मुख्यकर्त्तृकत्वाभावस्येत्यर्थः । न त्वनुपयुक्त्तविरुद्धानीति - यद्यपि विरुद्धान्यप्यनुपयुक्त्तान्येव, तथापि बलीवर्दन्यायेन सूत्रार्थविरुद्धत्वे साध्यस्यात्यन्तपरिहर्त्तव्यत्वख्यापनार्थं तदुपादानम्, यस्मिन् साध्ये सूत्राण्यनुपयुक्त्तानि विरुद्धानि च न स्युः तदेव साध्यं भवितुमर्हतीत्यथर्ः, अर्थक्रियाया इति छेदः, सूचनरूपार्थक्रियाकारित्वस्य सत्यत्वासाधकत्वेन मिथ्यात्वविरोधित्वादित्यर्थः । अध्याहारव्युत्क्रमान्वयावित्यादि - अयमर्थः, पराभिध्यानात्तिरोहितमाविर्भवतीति योजनायाम् आविर्भवतीतिपदाध्याहारः पराभिध्यानादिति पञ्चम्यन्तपदस्य तिरोहितमित्यनेनाव्यवहितान्वयः परित्यज्य आविर्भवतीत्यनेनान्वयात् व्युत्क्रमान्वय इति । तिरोभावशब्दस्य प्रकृतत्वादिति - तिरोहितमाविर्भवतीत्याविर्भावस्यैव त्वन्मते प्राधान्येन प्रकृतत्वादित्यर्थः । स इति परामर्शायोग्यत्वाच्चेति - न च सिद्धान्तेऽप्येष दोषः समान इति वाच्यम् पूर्वोक्तप्राधान्याप्राधान्य एव तात्पर्यात् । निरूप्य मिति - विचारणीयमित्यर्थः । न्यायविदामिति - उक्थ्याग्निष्टोमाधिकरणन्यायविदामित्यर्थः, “अप्यग्निष्टोमे राजन्यस्य गृह्वीयात् अप्युक्थ्ये ग्राह्यः’ इति विहितस्य षोडशीग्रहस्य स्तोत्रशस्त्राद्यङ्गकत्वे अग्निष्टोमोक्थ्यस्तोत्राभ्यां तस्य यागस्य समाप्त्यभावेन उक्थ्यत्वाग्निष्टोमत्वरूपोद्देश्यविशेषणभङ्गप्रसङ्गाद्विधेयस्य षोडशीग्रहस्य शस्त्राद्यङ्गराहित्यमेवाश्रयणीयमिति पूर्वपक्षे प्राप्ते साङ्गप्रधानाविधायकत्वात् विधेस्तत्स्वारस्यस्याभञ्जनीयतया अग्निष्टोमत्वोक्थ्यत्वरूपोद्देश्योपमर्दः सोढव्यः, ततश्च य उक्थ्यसंस्थः प्राप्तः स षोडशीसंस्थः कर्त्तव्य इति भवतीति व्यवस्थापितम्, न च स्वाप्नार्थानामिति प्राक्कालीनपदं प्रयोगबाहुल्यात् तद्धिता इत्यत्र बहुवचननिर्देशेन अन्यत्रापि तद्धितप्रत्यया भवन्ती’ति प्रतिपादितत्वाच्च सौम्यधुरीणादिवत् साध्विति मन्तव्यम् । ज्ञानाधिष्ठितेनेति - ततश्चाणोरपि जीवस्य धर्मभूतज्ञानेन अनेकदेशाधिष्ठानमुपपद्यत इति भावः । बहिर्वृत्त्युपपत्तेरिति - बहिर्व्यापारोपपत्तेरित्यर्थः, अनेन “प्राणेन रक्षन्नवरं कुलायम्’ इति श्रुत्यर्थः प्रदर्शितो भवति, प्राणेन सहितं कुलायं धर्मभूतज्ञानेन रक्षन्निति तस्यार्थः, एतेन बहिष्कुलायश्रुतेर्गौणत्वं बदन्तः प्रत्याख्याताः, कुलायात् बहिस्चरणस्य वस्तुतोऽभावे पूर्वकुलायस्य विनाशप्रसङ्गेन रक्षणप्रतिपादनं व्यर्थं स्यात्, अतो बहिष्कुलायश्रुतेः सञ्चरणे तात्पर्यमवसीयते, नन ु “स्वे शरीरे यथाकामं परिवर्तते’ इति श्रुतिविरोधात् “बहिष्कुलायादवरश्चारित्वा’ इति बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या, यो हि वसन्नपि शरीरे न तेन प्रयोजनम्, करोति बहिरिव शरीरात् भवतीत्युच्यते, न च शरीरात् बहस्संचरणेऽपि तस्यापि शरीरस्य स्वीयत्वादेव स्वे शरीर इत्युपपद्यत इति वाच्यम्, तथात्वे स्व इत्यस्य वैयर्थ्यप्रसङ्गात्, अवश्यञ्च बहिष्कुलायश्रुतेः भाक्त्तत्वमभ्युपेयम्, अन्यथा प्रधान प्रकरणार्थविरोधापत्तेः, आत्मनः स्वयञ्ज्योतिष्ट्वं प्रतिपादयितुं प्रवृत्ते हि प्रकरणे जाग्रदवस्थायामादित्यादिन्तेतिव्यतिकारात् तद्दुविवेचमिति तद्विवेचनार्थं स्वप्नावस्थाऽवतारिता, तत्र यदि सृष्टिः प्रतिपाद्येत तदा तत्रापि तद्दुविर्वेचं स्यात्, आदित्यचन्द्राग्निवाक्प्रतिभासस्य तदानीमपि सत्वात्, अतः प्रधानप्रतिपाद्यविरोधात् स्वर्गार्थज्योतिष्टोमप्रकरणे तदङ्गविध्यर्थवादस्य “को हि तद्वेदयत्द्यमुष्मिन् लोकेऽस्ति वा नवां’ इति वाक्यस्व स्वाप्नसृष्टिवचनस्य न स्वार्थे तात्पर्य्यम्, इहापि “न तत्र रथा न रथयोगा न रथपन्थानो भवन्ति’ इत्युपक्रमेणैव सृष्टिवचनस्यापारमाथिर्कविषयत्वं द्योतितम्, न च लोकसिद्धतदपारमार्थ्यकथने वाक्यवैयर्थ्यमिति वाच्यम्, लोकसिद्धस्वाप्नरथादिमिथ्यात्वस्य स्वयञ्ज्योतिष्ट्वविवेचनोपयोगित्वेनानुवादोपपत्तेरिति चेत्, मैवम्, उक्त्तरीत्या बहिष्कुलायश्रुतेः तात्पर्यवत्वात्, “स्वे शरीरे’ इति श्रुतिरपि स्वाप्नशरीराणां घर्मभूतज्ञानमात्रव्याप्त्यैव स्वाधिष्ठितानामणोर्जीवस्य यथाकामं सञ्चरणपरत्वात् अनेकजनपदाधिपतेर्महारजस्य स्वजनपदेषु स्वीयत्वाविशेषेण यथेष्टसञ्चरणपात्वत् “स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते’ इति पूर्ववाक्यानुसारेण सौभरिन्यायेन शरीरेषु यथेष्टं स्चरणप्रतिपादनपरत्वादस्य वाक्यस्य स्वपदस्य च स्वीयत्वरूपहेतुसाधारण्यप्रतिपादनपरत्वेन सार्थक्यात् प्रकरणस्य रथादिमिथ्यात्वप्रतिपादनद्वारा स्वयञ्ज्योतिष्ट्वप्रतिपादनार्थत्वमप्यसत्,आदित्यादीनामवभासकानाम् अभावेऽपि मनस आत्मव्यतिरिक्त्तस्य सत्त्वेन सञ्वयञ्जयोतिष्ट्वस्यासिद्धेः, न च मनः स्वप्ने सदपि दृश्यत्वान्नात्मावमासकमिति वाच्यम्, तर्हि आदित्यानामपि दृश्यत्वाविशेषेणानवभासकत्वसिद्धेः तद्वयतिरेकप्रतिपादनस्य व्यर्थत्वात्, “अस्तमिते आदित्ये याज्ञवल्क्य चन्न्रमस्यस्तमिते शान्तेऽगौ शान्तायां वाचि किं ज्योतिरेवायं पुरुषः’ इति पृष्टप्रतिपन्नादित्याद्यभावस्य न तत्र रथ’ इत्यादिवाक्यप्रतिपाद्यत्वायोग्यत्वाच्च, आदित्यावभासकान्तराभावस्य प्रतिपाद्यत्वे न तत्रादित्या इत्येव श्रुतिनिर्देशोऽपि स्यात्, तस्मात् सकलेतरविजातीयरथादिस्त्रष्ट्टत्वरूपपरमात्ममहामहिमप्रतिपादनार्थेयं श्रुतिः’ अत एव रथादिसृष्टयनन्तरं “स हि कर्त्ता’ इति हेतूपन्यासस्सङ्गच्छते, स्वप्नदृक् यस्मिन् देशे रथं पश्यति यदा तदानीं तत्र स्थितोऽन्यः तन्न पश्यति, स्वप्नदृगपि प्रबोधानन्तरं तत्र गतः तन्न पश्यति तथा तत्र तस्यान्यत्र नयनचिह्नानि नादचिह्नानि वा पश्यति कथमेतादृशाश्चर्यसहस्त्रलिनि स्वप्नसृष्टिर्भवतीत्याकाङ्क्षायां स हि कर्ता’ इति तत्र हेतुरुच्यते, सकलप्रपञ्चनाटकसूत्रधारस्सर्वेश्वरः खलु तत्र कर्त्ता स किं कर्त्तुं न शकनुयादिति हि शब्दाभिप्रायः, न चास्यार्थस्य प्रकरणासङ्गतिः “उभयान् पाप्मनः आनन्दाँश्च पश्यति’ इति स्वप्नद्रष्टुरनुकूलप्रतिकूलविषयप्रतिभासकत्वेन स्वयञ्ज्यरोतिष्ट्वेनिर्दिष्टे तदानीं लोकदृष्टया द्रष्टव्यान्तराभावशङ्कां निवर्तयितुं परमात्मकर्तृकाणां सद्भावः प्रतिपद्यत इति न तु मिथ्यात्वप्रसक्त्तिः, न चात्मनो विषयावभासकत्वं सिद्धान्ते नाभ्युपगतम्, धर्मभूतज्ञानस्य तथात्वादिति वाच्यम्, धर्मभूतज्ञानगतभासकत्वस्यैव तद्द्वारा आत्मनिष्ठस्यैव प्रतिपाद्यत्वात्, “कतम आत्मा योऽयं विमानमय’ इति विज्ञानगुणकत्वमुपपाद्य तस्य स्वयञ्ज्योतिष्ट्वप्रतिपादनपरत्वात् प्रकरणस्येति नात्र मिथ्यात्वप्रसक्त्तिरित्यलं विस्तरेण - देशान्तर्गतविशेषप्रश्ने प्रतिवचनाभावोपपत्तिरिति । तद्देशगतस्वाप्नार्थव्यतिरिक्त्तार्थान्तरदर्शनं नास्तीत्यर्थः, ननु स्वप्नदृष्टकाञ्चयादिदेश स्यापि भिन्नत्वेन तत्र जाग्रद्दृश्यपदार्थान्तरस्य सन्त्वाप्रसक्त्या तत्प्रश्नप्रतिवचनयोरपि अप्रसक्त्तत्वेन तेषां चक्षुरादिना स्वाप्नार्थमात्रग्रहणयोग्य, त्वात् तद्देशगतविशेषान्तरप्रश्ने प्रतिवचनाभावोपपत्तिरस्थानसंभ्रमः, अत एव प्रतिधातकत्वा प्रतिघातकत्वादिविचारात्मकोत्तरसन्दर्भोपि तादृश एव देश भेदेन प्रतिघातकत्वादि विचारस्यासङ्गतत्वादिति चेत्, सत्यम्, ज्ञक्ये परिहारस्सम्भवतीत्यभिप्रेत्य एवमुक्त्तमिति द्रष्टव्यम् । आपेक्षिका भवन्तीति - नहि भारतवर्षवासिनां या प्राची दिक्यैः प्रातःकालः सैव केतुमालवासिनां प्राची स एव प्रातकाल इति भावः । जलगतं वस्तु दृष्टुमशक्यमिति - विषयालोकसंयोगस्य कारणत्वेनागाधस्वच्छजलान्तवर्र्त्तिसिकतादिरूपविषयाणाम् आलोकसंयोगस्यावश्यकत्वेन सलिलानामप्रतिघातकत्वस्य वक्त्तव्यत्वादिति भावः । निमनपातितयेति - उर्ध्वाधरभावेन संयुक्त्तानां गुरुतया निपतनशीलानां द्रवद्रव्याणां मध्ये छिद्रासम्भवादित्यर्थः । निरुद्धयमानतयेति - असति सेत्वादौ निरोधके परस्परसंसर्गानुकूलगतिमतां दक्षिणोत्तरभावेनावस्थितानामपि द्रवद्रव्याणां न छिद्रसम्भव इति भावः । तत्र पराभिध्यानात्तु इत्यादि - अत्रैषा योजना पराभिध्यानात्त्वित्यादिसूत्रद्वययोजनायां पूर्ववत् परमत इवानुपयोगविरोधाभावेऽपि सूत्रान्तरे श्रुतौ चास्वारस्यं पूर्ववदनुसन्धेयमिति सूत्रश्रुत्योरस्वारस्यं क्रमेणदर्शयति - मायाशब्दस्येत्यादिना ॥ ॥ इति सन्ध्याधिकरण् ॥ इति सङ्गतिरिति - पादशेषसङ्गतिरित्यर्थः, आसन्यमासन्नमिति स्वार्थे ष्यञ् इति भावः । मुख्यमित्यर्थ इति - लोके हि श्रेष्ठ आसन्नो भवति, अतस्तेन मुख्यत्वं लक्ष्यते, केषुचित्कोशेषु आसन्यं मुख्यमित्यर्थ इति पठ्यते, तदा आस्ये भवमासन्यमित्यर्थः, “शरीरावयवाद्यत्’ “पद्दन्’ इत्यास्यशब्दस्यासन्नादेशः । आखन्यत इत्याखणमिति - अत्र छान्दसं णत्वम्, अत्र चोदयन्ति “खनो घ च’ इति घप्रत्ययस्य “करणाधिकरणयोः’ इत्यनुवृत्या कर्मण्यभावात् करणार्थ एव घप्रत्ययो वक्त्तव्यः, अत आखणशब्दस्याऽश्मविशेषत्वमेव वक्त्तव्यं खननसाधनतया दृढमश्मानं प्राप्य यथा लोष्टादि विध्वंसत इति हि तस्यार्थः, अत एव वाक्यशेषे “स एषोऽश्माखणः’ इत्यश्मविशेषणत्वमेव आखणशब्दस्य श्रूयत इति, ते प्रतिवक्त्तव्याः, वाजसनेयके समानप्रकरणे “यथाश्मानमृत्वा लोष्टोविध्वंसते’ इति श्रवणेन तत्समानार्थत्वस्य वक्त्तव्यतया आखणशब्दस्य लोष्टवाचित्वस्यैव बहुलवचनात् कर्मसाधनतया वक्त्तव्यत्वात्, इतरथा कर्तृवाचिपदाध्याहारप्रसङ्गात्, स एषोऽश्माखणः’ इति वाक्यशेषस्यायमर्थः, स एष इति पापकाम उच्यते, सः अश्मप्राप्त्ता आखणः, अश्माखणः इति समस्तं पदं, स एष इति पुल्लिङ्गसामानाधिकरण्यात् पूर्ववाक्ये नपुंसकनिर्दिष्टस्यापि वाक्यशेषे पुल्लिङ्गतया प्रयोग इति । भाष्ये- फलसाधनत्वश्रवणादिति, ननु औदुम्बराधिकरणे विधिविभक्त्तिरहितेन फलसाधनत्वं न प्रतिपाद्यत इति वक्त्तुं शक्यत इत्युक्त्तत्वात् तद्विरोधः, किञ्च साधनत्वस्य श्रुतत्वे विधिकल्पनं व्यर्थमेव, तदर्थत्वात्तत्कल्पनस्येति चेत्सत्यम्, विधिप्रत्ययाश्रवणेऽपि यः पय्यमश्नाति स कल्य इत्यादाविव वर्तमानपदेशस्यलेऽपि सिद्धसाध्यसमभिव्याहारे “सिद्धं साध्यायोपयुज्यते’ इति न्यायसहकृतात् शब्दात् फलसाधनत्वप्रतीतेरनुभवसिद्धत्वात्, तादृशार्थवादस्य फलविधिव्याप्ततया फलविधिकल्पनोपपत्तेः, न च तद्विधिवैयर्थ्यं शङ्कनीयं, न्यायबलात् कथञ्चिप्रतीतावपि साधनत्वस्य शाब्दत्वसिद्धयर्थं विधिकल्पनोपपत्तेः । फलसाधनत्वमेव नास्तीति - ननु वस्तुतः फलसाधनत्वाभावे किं विधिमात्रमेव न सम्भवतीत्यभिप्रायः, उत फलसाधनतया विधिर्न सम्भवतीति । नाद्यः, फलसाधनत्वाभावेपि क्रत्वर्थेषूदुम्बरतादिषु विधिकल्पनदर्शनात् । न द्वितीयः, अन्योन्याश्रयात्- फलसाधनत्वाधीनो विधिः तदधीनं फलसाधनत्वमिति, उच्यते- फलसाधनत्वश्रवणे सति हीत्यादेरयमर्थः- आर्थवादिकफलसाधनत्वश्रणवणाद्धि विधिकल्पनम्, अर्थवादत एव विधिकल्पनमित्यर्थः । ततश्च तद्वाक्यमर्थवादतया विधिशक्त्तिमुपजनय्य विहितस्य फलाकांक्षायां फलमपि समर्पयतीत्युक्त्ते विरम्य व्यापारप्रसङ्गात्, इत्यौदुम्बराधिकरणोक्तन्यायेन फल समर्पकत्वाभावेन फलसाधनत्वमुद्गीथविद्याया नास्तीत्यर्थः, ततश्चोद्गीथविद्यायाः पर्णतादिवत् कर्मसाद्गुण्यफलकतया क्रत्वर्थत्वमेव न त्वार्थवादिकशत्रुपराभवार्थत्वमिति, ततश्च शत्रुपराभवाय उद्गीये प्राणदृष्टिर्विहितेत्युक्त्तमयुक्त्तमित्यत्राहेत्यर्थः । उद्गीथविद्यायाः- इत्यादिभाष्यस्याऽयमर्थः, उद्गीथविद्यायाः क्रत्वर्थत्वेपि आर्थवादिकं फलं क्रतुसाद्गुण्योपयुक्त्तं ग्राह्यमेव, किमुत “तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्’ इति “अङ्गेषु यथाश्रयभावः’ इति न्यायाभ्यां निरस्तक्रत्वर्थभावाया उद्गीथविद्याया इत्यर्थः, ततश्च पूवर्ोत्तरविरोधः । केचित्तु असार्वत्रिकी’ इति पुरुषार्थाधिकरणगुणसूत्रे उद्गीथविद्यायाः क्रत्वर्थत्वस्य्राभ्युपेतत्वात् अस्त्येवोद्गीथविद्यायाः क्रत्वर्थत्वम्, न च “तन्निर्धारणे’त्यधिकरणविरोधः, तस्योद्गीथविद्याया अनियममात्रप्रतिपादनपरतया क्रत्वर्थत्वनिराकरणे तात्पर्याभावात्, पृथग्ध्यप्रतिबन्धः फलम्’ इत्यस्यापि उद्गथिविद्यासद्भावे क्रतूपकारभूयस्तामात्रप्रतिपादनपरत्वात्, अत एव “मन्त्रादिवद्वाऽविरोधः’ इत्यत्र यथा मन्त्रादीनामिति भाष्येण मन्त्रादीनां श्रुत्यादिभिर्विनियोगादविरोधश्चेति इहाप्युद्गीथपदश्रुत्या विनियोगादिति टीकाग्रन्थेन च क्रत्वङ्गत्वमाविष्कृतमिति प्रतिपादयन्ति, न च क्रत्वर्थेष्वार्थवादिकफलग्रहणे पर्णताया अपि अपापश्रवणफलकत्वप्रसङ्ग इति शङ्कयम् प्रस्तरणप्रहरणस्य क्रत्वर्थस्यापि सूक्त्तवाकमन्त्रप्रतिपाद्यफलार्थत्ववत् उपकोसलविद्याङ्गभूताग्निविद्यायां “नास्यावरपुरुषाः क्षीयन्ते’ इति प्रतिपन्नब्रह्मविद्याऽविरोधिफलार्थत्ववच्च क्रत्वर्थस्यौदुम्बरत्वस्यार्थवादप्रतिपन्नक्रत्वविरुद्धफलार्थत्वे दोषाभावादिति भावः । उद्गातरि प्राणदृष्टिं कृतवन्त इत्यर्थ इति - उदगायत् - उद्गाता अभवदिति यथाश्रुतार्थस्य अभेदस्य बाधितत्वादेव दृष्टिविधिपरत्वे औचित्यात् “आदित्यादिमतयश्चाङ्ग उपपत्तेः’ इतिन्यायेनोत्कृष्टप्राणतया उद्गातुरुपास्यत्वं सिद्ध्यतीति भावः, ननु शब्दान्तरादिषु यथैकैकस्यापि भेदसाधनत्वम्, एवं संयोगरूपचोदनाख्याविशेषाणामेकैकस्यैवाऽभेदसाधनत्वमस्त्वित्यत आह - चोदनाद्यविशेषसमुच्चय इति ॥6॥