is not available.नित्यकर्मादीनामपि सम्वत्सरपश्वालम्भनादिभिरशुद्धियुक्त्तत्वमिति - सम्वत्सरग्रहणं निन्दितकर्माभ्यासवशेन महापातकयुक्त्तत्वसूचनार्थम्, अत्रादिपदेन सायंप्रातःकालनिषिद्धमग्निहोत्राद्यङ्गहविश्शेषभक्षणं गृह्यते, अतो हिंसाशून्यानामपि अग्निहोत्रादीनामशुद्धियुक्त्तत्वमिति द्रष्टव्यम्, भाष्ये- न वा उत्वेतदित्यादि, एतत् अधुना न म्रियसे न रिष्यसि, न हिंष्यस इत्यर्थः, रुष् रिष् हिंसायामिति धातुः - अयमेव समीचीनो दुष्प्रधर्षणः परिहार इति । ननु हिरण्यशरीर उर्ध्व इत्यर्थवादार्थे बाधकाभावात्, पशुसंज्ञपनस्य स्वर्गसाधनत्वेऽपि मरणोद्देश्यकमरणानुकूलव्यापारत्वेन हिंसात्वमप्यवश्यमभ्युपेत्यमेव । न च तस्य रक्षणरूपत्वात् अहिंसात्वम्, व्रणदाहच्छेदयोः दाहच्छेदरूपत्वेऽपि रक्षणरूपत्ववत् हिंसारूपत्वेऽपि पशुरक्षणरूपत्वोपपत्तेः, अस्य परिहारस्य सार्वत्रिकत्वाच्च । न खलु सौत्रामण्यां वर्णत्रयेऽपि निषिद्धायाः पैष्टयाः सुरायाः पानन्नपानम्, नापि अश्वमेधे राजाज्ञया अश्वसंरक्षकैः क्रियमाणमश्वमेधमन्त्रब्राह्मणानभिज्ञब्रह्मस्वहरणन्नहरणम्, नापि वामदेव्योपासकत्य प्रार्थयमानसर्वयोषिदपहरणन्न परस्त्रीहरणमिति वक्त्तुं शक्यम्, तस्मात् तेष्वन्य एव परिहारो वक्त्तव्यः, स एव हिंसायामप्यस्तु, किमनेन लोकविरुद्धेन हिंसात्वापलापेन, तर्हि कः सार्वत्रिकः परिहारः, न हिंस्यादिति निषेधवाक्ये पुरुषार्थ एव हिंसाधातुना अनूद्यते, न क्रत्वर्थतापि, कर्त्तुराख्यातवाच्यत्वपक्षे समानपदश्रुत्या हिंसायाः तच्छेषत्वप्रतीतेः, तस्याख्यातवाच्यभावनाक्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तृशेषत्वप्रतीतेः नात्र क्रतोः वाचकं किञ्चिदस्ति, येनाथातोऽग्निष्टोमेनानुयजन्तीति अनारभ्याधीतवाक्ये क्षित्याग्नेर्यजिशब्दोक्तयागशेषत्ववत् अस्याः क्रतुशेषत्वमवगम्येत, नापि क्रतोराक्षेपकं किञ्चिदस्ति, येन पर्णताया जुह्वाश्रिप्तक्रतुशेषत्ववदस्याः क्रतुशेषत्वमवगम्येत, न च प्रकरणेन क्रतोर्विपरिवृत्तिरस्ति, येन “नानृतं वदेत्’ इति दर्शपूर्णमासप्रकरणाम्नातवाक्येऽनूद्यमानस्यानृतवदनस्येव क्रत्वर्थत्वप्रतीतिर्भवेत्, तस्मादिह हिंसिधातुनाऽनुवादः पुरुषार्थहिंसाया इति तस्य एव निषेधो न क्रत्वर्थायाः, ननु तथापि हिंसिधातोः क्रत्वर्थपुरुषार्थहिसाद्वयसाधारण्येन शब्दशक्त्तिबलादुपस्थितं हिंसाद्वयमप्यनूद्य निषेध्यतामिति चेत्- नैतत् न्याय्यम् । आख्यातवाच्यत्वेन तदर्थभावनाक्षेप्यत्वेनो पस्थितस्य पुरुषस्य शेषभूताया हिंसायाः शीघ्रोपस्थितिकतया तन्निषेधेन चरिताथर्स्य हिंसावाक्यस्य विलम्बितोपस्थितिकक्रतुशेषहिंसानिषेधकत्वस्यापि कल्पनायोगात् । ननु शब्दशक्त्तिसाम्येऽपि शीघ्रोपस्थितस्यैव शक्यस्य वाक्यार्थान्वयः न विलम्बितोपस्थितिकस्येति वैषम्याभ्युपगमे “दर्शपूर्णमासाभ्यां स्वगर्कामो यजेत’ इत्यत्र पूर्णमासपदेन उत्पत्तिवाक्यश्रुतदर्शपूर्णमांसकालयोः आग्नेयाग्नीषोमीययोरेव खटिति प्रवृत्तिनिमित्तावगत्या शीघ्रोपस्थितिकयोः फलान्वयः स्यात्, उपांशुयाजस्य तु पौर्णमासीकर्तव्याग्नेयाग्नीषोमीययागद्वयान्तरालविधानात् अर्थसिद्धपौर्णमासीकालस्य खटिति प्रवृत्तिनिमित्तावनगत्या विलम्बितोपस्थितिकस्य फलान्वयो न स्यादिति चेत्- सत्यम् । आग्ने याग्नीषोमीयवत् उपांशुयाजस्यापि श्रौतपौणर्मासीपवलत्वेन ज्ञदिति प्रवृत्तिनिमित्ताव शीघ्रोपस्थितिकत्वाविशेषेण फलान्वयसिदध्यर्थमेव, “तावब्रूतामाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्’ इत्याहत्य पौर्णमासीकालविधानमाश्रीयते । एतदेवास्य विधानस्य प्रयोजनम् उपांशुयाजाधिकरणे प्रयोजनाच्च’ इति सूत्रेण तद्वार्त्तिकेन स्पष्टीकृतम् ततश्च शीघ्रप्रत्तीतस्यैव पदार्थस्य वाक्याथर्ान्वय इति सिद्धत्वात् पुरुषार्थहिम्साया एव शीघ्रपस्थितिकत्वात् तस्या एव निषेध्यत्वम्, अपि च यदर्थतया यतप्रसक्त्तं तस्य निषेधोपि तदर्थ इति न्यायमर्यादा । अन्यथा अप्रसक्त्तप्रतिषेधत्वादसामञ्जस्यं स्यात् । अत एव दर्शपूर्णमासप्रकरणाम्नातः नानृतं वदे’ दिति निषेधः प्रकरणात् क्रत्वर्थो भवन् क्रत्वर्थस्यैवानृतवदनस्य निषेधः, तेन क्रतूपयोगिद्रव्यादिसम्पादनार्थानृतवदने क्रत्वर्थनिषेधातिक्रमात् क्रतोर्वैगुण्यम्, क्रतुमध्येपि पुरुषार्थानृतवदने सति न क्रतोव्रैगुण्यम्,“यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोः तस्य वैगुण्यं यथाचोदितसिद्धितः’ इति न्यायात्, किन्तु पुरुषस्य प्रत्यवाय मात्रम्, प्रकरणाम्नातोऽपि यो निषेधः क्रत्वर्थस्य निषेधो भवितुं नार्हति नासौ क्रत्वर्थः, यथा दर्शपूर्णमासप्रकरणाम्नातः “मलवद्वाससा न सम्वदेत न तया सहासीत नास्या अन्नमद्यात्’ इति निषेधः, यद्यपि पत्न्या सह सम्वादः सहासनञ्चेत्युभयं क्रत्वर्थतया अर्थतः प्राप्नोति, तथापि मलवद्वाससा तथा न प्राप्नोति, यस्य व्रत्येहन पत्नी अनालम्भुका स्यात्, तामवरुद्धय यजेत’ इति मलवद्वाससः क्रतौ सर्वात्मना उदासीनीकरणरूपस्य अवरोधस्य विहितत्वात्, तदन्नादनन्तु “अथो खल्वाहुरभ्यञ्जनं वा व स्त्रिया अन्नम् अभ्यञ्चनमेव न प्रतिग्राह्य’मिति अभ्यञ्जनशब्दोक्ततत्वङ्गमरूपतया व्याख्यातं क्रत्वर्थत्वेन कथमपि न प्राप्नोति, एवञ्च न हिंस्यादिति निषेधः क्रत्सर्थपुरुषार्थोभयविद्यहिम्सारूपत्वे स्वयमपि क्रत्वर्थपुरुषाथर्ोमयरपो भवन् स्वस्य क्रतुपुरुषसम्बन्धबोधनार्थं वाक्यं भिन्द्यात्, एवमेव सुराग्रहणपानादिनिषेधकवाक्यानामपि क्रत्वर्थग्रहणाद्यस्पर्शित्वं वक्त्तव्यम्, नान्या गतिरस्ति, न च तेषामस्त्येव पापत्वम्, अपितु प्रायश्चित्तेन समाधीयत इति वाच्यम्, तर्हि हिंसापि तथा समाधीयताम्, किमनेन लोकप्रसिद्धहिंसात्वनिरसनव्यसनेन, यच्चोक्तं सोमपाने उच्छिष्टदोषनिषेधोस्ति, “न सोमेनोच्छिष्टा भवन्ति,’ इति निषेधात्, हिसायां न सोस्ति, येनायम् उत्सर्गापवादन्यायस्य विषयस्स्यादिति- तन्न, “सोमेनोच्छिष्टा भवन्ति’ इत्यत्र उच्छिष्टताया एव निषिद्धत्वेन दोषस्यानिषिद्धत्वात्, न च उच्छिष्टत्वस्य निषेद्धुंयमशक्यत्वात् तद्दोषनिषेधपरत्वम्, तर्हि “न वा उ एतत् म्रियसे त रिष्यसि’ इत्यत्र हिंसात्वस्य निेषेद्धुमशक्यत्वात् तद्गतदोषाभावादिपरत्वस्यैव सम्भवात् न दोषो हिंसायाम् “आहवेऽध्ननन्नेनस्वीराजे’ति, क्कचित् हिंसाविशेषेषु दोषाभावप्रतिपादनस्याप्युपलम्भात्, “अहिंसन् सवर्भूतान्यन्यत्र तीर्थेभ्यः’ इति छान्दोग्यश्रुतौ यागीयहिंसायाः हिंसात्वमुपगम्य तस्याः निषेध्यत्वाविष्करणाच्च, श्रुतिष्वपि यागीयसंज्ञपने हि सात्वव्यपदेशस्य बहुलमुपलम्भाच्च हिंसात्वमभ्युपगम्यैव परिहार उक्त्तरीत्या समाश्रयणीय इति चेत्, अत्र व्रूमः, यदुक्त्तं यदर्थः प्रतियोगी तदर्थः प्रतिषेधः इति न्यायमर्यादेति, तन्न, “दीक्षितो न ददाति न जुहोति न पचते’ इत्यत्र पुरुषार्थानामेव होमानां प्रतिशेधः क्रत्वर्थ इति स्थापितत्वात्, यच्चाप्युक्त्तम्- पुरुषार्थहिंसायाः शीघ्रोपस्थितिकत्वात् तस्या एव निषेधवाक्याथर्ान्वयित्वमिति, तदपि न, “यदाहवनीये जुहोति’ इत्यत्र शीघ्रोपस्थितपुरुषर्थाक्षामेवाऽऽहवनीयाङ्गकत्वप्रसङ्गात्, तस्मादुभयविधहिंसानिषेधे प्रवर्तनानिवर्तनारूपयोर्विधिनिषेधयोः पदाहवनीयादिवत् परस्परविरोधात् उत्सर्गापवादन्यायेन क्रत्वर्थहिंसाव्यतिरिक्त्तविषयत्वकल्पनमेव ज्यायः, अत एव भामतीकल्पतरुभ्यां विशेषविधिविहितस्य सामान्यविधिना विषयीकारे ह्युत्सर्गावादम्यायः “यथांहवनीये जुहोति’ इति होममात्रस्याहवनीयान्वयविधायिना पदहोभस्यापि विषयीकारे पदहोमान्वयविशेषविधानात्, तदतिरिक्त्तपरत्वं सामान्यशास्त्रस्य, अत्र तु वर्णितेन न्यायेन उत्पत्तिसमय एव निषे धस्य पुरुषार्थहिंसाविषयत्वात् न क्रत्वर्थहिम्साप्रवेशः, शाङ्करभाष्ये- उत्सर्गापवादन्यायोक्तिस्तु अविशेषप्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यात् गौणीति यच्छाङ्करभाष्यशिक्षणं कृतम्, तदयुक्त्तमेव, उत्सर्गापवादन्यायोक्तिस्तु अविशेषप्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषत्याजनलक्षणगुणसाम्यात् गौणीति यच्छाङ्करभाष्यशिक्षणं कृतम्, तदयुक्त्तमेव, उत्सर्गापवादन्याय एव सार्वत्रिकः परिहारः, हिसायां तु मन्त्रार्थवादादिभिः हिंसात्वाभावावगमनेन सम्भवतः परिहान्तस्योपेक्षानर्हत्वात् भगवता भाष्यकृता हिंसाविषये परिहारान्तरमुक्त्तम्, यच्चोक्तं मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिसात्वं हिसापदप्रवृतिनिमित्तमिति तन्न, अथोपहारकशाप्रहारादिना महतीं वेदनामुत्पादयर्था हिंसकत्वय्व्यवहारासम्भवप्रसङ्गेन वेदनत्पत्त्यनुकूलव्यापारत्वस्यैव सर्वत्रानुगततया हिंसापदप्रवृतिनिमित्तत्वे वक्त्तव्ये सति व्रणचिकित्सके तादात्विकतीव्रवेदनोत्पादके हिंसकत्वव्यपदेशाभावेन बलवदिष्टाजनकत्वे सति दुःखसादनव्यपारत्वमेव हिंसापदप्रवृत्तिनिमित्तम्, तत्कर्तर्येव हिसकत्वव्यवहारात्, मरणोद्देश्यकमरणानुकूलव्यापारेऽपि अनेनैव बलवदिष्टाजनकत्वे सति अनिष्टसाधनव्यापारत्वरूपसाधारणप्रवृत्तिनिमित्तेन हिंसात्वव्यपदेशोपपत्तेः, मरणोद्देश्यकमरणानुकूलव्यापरत्वस्य पृथक् प्रवृत्तिनिमित्तत्वकल्पनानौचित्यात्, पशुसंज्ञपनस्य तादात्विकदुःखजनकस्यापि बलवदिष्टभूतस्वर्गजनकतया न हिंसात्वमित्यभिप्रेत्य भगवता भाष्यकृताऽयं परिहार उपन्यस्तः, न तु हिंसात्वमभ्यु पगम्य उत्सर्गापवादन्यायेन परिहारः, यथा हिंसां विधितन्निषेधविषयभेदन्यायानभिज्ञेन वादकथायां “श्येनेन यजेत’ इति वाक्यमयु क्त्तार्थं, श्येनपक्षिणः पुरोडाशादिवत् यागीयद्रव्यत्वे अहिंसाशास्त्रविरोधादिति शङ्किते श्येनाङ्गपशुषु आवश्यकेनापि विषयभेदन्यायोपन्यासेन न तत्समाधानमुचितम्, किन्तु वस्तुः स्थितिमनुसरता वाक्यशेषमुदाहृत्य कर्मनामत्वोपन्यासेनैव तत्समाधीयते, एवमिहाप्युत्सर्गापवादन्यायेन परिहार्येप्यस्मिन्नाक्षेपे वस्तुस्थितिमनुसरन् भगवान् भाष्यकारो हिसात्वाभावमेव प्रत्यपीपददिति न किञ्चिदवद्यम् ॥25॥is not available.॥ योनेः शरीरम् ॥ संसारिजीवशरीरञ्चेति - यत्र पुण्यापुण्यरूपे कर्मणी तत्रैव सुखदुःखे, यत्र च सुखदुःखे तत्रैव तद्धेतुभूतं शरीरम्, ततश्चाकाशादिषु कर्मकीर्त्तनाभावेन तत्फलभूतसुखदुःखाद्यनुभवाभावात् न तद्धेतुभूतं शरीरमिति भावः ॥27॥ ॥ इति अन्याधिष्ठिताधिकरणम् ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां तृतीयस्याध्यायस्य प्रथमः पादः ॥ समुदिताधिकरणसङ्ख्या - 74 - समुदितसूत्रसङ्ख्या - 304 ॥