ननु “अतो वै स्वलुदुर्निष्प्रपतरमिति व्रीह्यादितो विशिष्य चिरनिष्क्रमगाभिधानात् पूर्वत्र ह्याकाशादिप्राप्तावचिरनिष्क्रमणं गम्यत इति शक्यते वक्त्तुम्, अतो वै स्वल्वित्यादिवाक्येन व्रीह्यादिषु चिरावस्थानसत्तामात्रं विधित्सितम्, चिरमचिरं वेत्यनियतस्य चिरावस्थानस्य व्रीह्यादिष्ववस्थानोक्त्य्यैव सिद्धत्वेन तस्याविधेयत्वात्, किन्तु व्रीह्यादिषु चिरावस्थाननियमप्रतिपादनसामर्थ्यात् आकाशादिभ्यः चिरावस्थाननियम एव व्यावर्त्तते, नत्वनियतं चिरावस्थानमपि, अत एव वैस्वानसं पूर्वेहन् साम भवति षोडश्युत्तर इति विशिष्याङ्गिरसां द्विरात्रस्य उत्तरेऽहनि षोहसिग्रहनियमविधानसामथ्यर्ात् उत्तरेऽहन् द्विरात्रस्य गृह्यत इति सामान्यवचनप्राप्तषोडशीग्रहोऽपीत्युक्त्तं दशमे, अत एव “कर्तृकर्मणोः कृति’ इति सूत्रप्राप्तषष्ठीविषये “उभयप्राप्तौ कर्मणी’ति प्राप्तनियमस्य अकाकारयोः प्रतिषेध इति प्रतिषेधे पुनः कर्त्तृकमर्णोः कृति’ इत्यनियतप्राप्तषष्ठया न निषेधः, यथा भेदिका काष्ठानां देवदत्तस्येति वैयाकरणैरभ्युपगम्यते, ततश्च व्रीह्यादिषु चिरावस्थाननियमप्रतिपादनात् पूर्वत्र चिरावस्थाननियमो व्यावर्त्त्यताम्, न तु चिरावस्थानस्वरूपमपि व्यावत्त्यर्त इत्यस्वरसादाह - भाष्ये छान्दसस्तशब्दलोप इत्यादिना । अयंभावः, नात्र दुर्निष्प्रपतरमिति दुर्निष्प्रपतरशब्दस्य ल्युडन्ततामाश्रित्य दुःखनिष्क्रमणनियमः प्रतिपाद्यते, अपि तु स्वलन्तात् दुर्निष्प्रपतरशब्दादातिशायिनि केतरमिति तरप्रत्यये छान्दसे तशब्दलोपे दुर्निष्प्रपतरमिति रूपम्, ततश्च अतिशयस्य प्रतियोग्याकांक्षायां प्रागनुक्रान्ताकाशादीनां बुद्धिसन्निधानात् तत्प्रतियोगित्वेन अन्वयस्त्यात्, ततश्च व्रीह्यादिषु आकाशापेक्षया चिरावस्थानोकत्या आकाशादिषु अवस्थानस्य तदपेक्षया अल्पकालत्वपर्यवसानात् समीहितसिद्धयुपपत्तेः । ननु नायं वर्णविकारः, अपि तु तरपितशब्दलोप एवेत्यत्र किं विनिगमकमिति चेत्, ईषदुःषुषु कृछ्राकृछ्र्रार्थेषु खलिति खला बाधितं ल्युटं काशकुशावलम्बनेन समर्थ्य नकारस्य चरेफरूपवर्णविकाराश्रयणस्यायुक्त्तत्वात्, कश्चित्तु दुरुपपदात् पदि धातोः खलर्थे डप्रत्यये सति दुर्निष्प्रपमिति रूपसिद्धौ ततस्तरप्प्रत्ययेन दुनिर्ष्प्रपतरमिति दुर्निष्प्रपतरशब्दनिष्पत्तिः, “अन्येष्वपि दृश्यते’ इति जनेरुपपदान्तरयोगे ढविधायकसूत्रे “अन्येभ्योऽपि दृश्यत’ इति वक्त्तव्यमिति धात्वन्तरेभ्योऽपि डस्य शिष्टत्वात् दृशिग्रहणं सर्वोपाधिव्यभिचारार्थमिति वृत्तावुक्त्तत्वात् कृत्यल्युटो बहुलम्’ इति सूत्रे बहुलग्रहणात् अन्येऽपि कृतः प्राप्तमभिधेयं व्यभिचरन्तीत्यपि वृत्तावुक्त्तत्वात्, तस्य डस्य खलर्थत्वोपपत्तेश्च वर्णागमवर्णलोपादिकमन्तरेणैव रूपं सिध्द्यतीत्याह, तदतिमन्दम्, एतादृशक्लिष्टगत्याश्रयणापेक्षया छान्दसवर्णलोपाश्रयणस्यैव ज्यायस्त्वात् । केचित्तु- अतो वै खलु दुर्निष्प्रपतरमित्यत्र वैशब्दस्य एवकारसमानाथर्त्वात् त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टष् च अत्र ह्येवावपन्त्यत एवोद्वपन्ति’ इत्यत्र एवकारेण पवमानगतगायव्यादिभ्योन्यत्रावापपरिसङ्खयानवत् अत एव दुर्निष्प्रपतरमिति व्रीह्यादिभ्योऽन्यत्र चिरनिष्क्रमणप्रतिषेधस्य श्रौततया आकाशादिष्वनतिचिरेण निष्क्रमणसिद्धिः, अतो “युचि छन्दसि गत्यर्थेभ्यः’ इति छन्दसि विशेषविहितयुजन्त एवायं शब्दः, रेफरूपवर्णविकारः छान्दसः इतरथा खलर्थप्रत्ययस्य “तयोरेव कृत्यक्त्तखलर्थाः’ इति भावकर्मणोरेव विधानात् अस्य चाकर्मकत्वेन भावार्थस्ये; व परिशिष्टत्वात्, तदर्थस्य प्रकर्षाभावेन ततस्तरषो दुर्ल्लभत्वात्, नचैवं तशब्दलोपः छान्दस इति भाष्यविरोधः इति वाच्यम्, कर्त्रर्थपचाद्यजन्तात् प्रकर्षसम्भवेन तरपस्संभवादिति वदन्ति ः॥ ॥ इति नातिचिराधिकरणम् ॥ * ॥