पेटिकाभेदेनेति - पेटिकाविशेषेणेत्यर्थः, कृतात्यय इत्यारभ्य आपादपरिसमाप्ति अवरोहणपेटिकातयाऽस्याधिकरणस्य सङ्गत्यर्थमित्यर्थः, पूर्वस्मिन्नधिकरणे हि देवयानपितृयाणयोः विद्याकर्मफलार्थत्वादनिष्टादिकारिणाञ्च विद्याकर्मफलाभावात् देवयानाभाववत् पितृयाणमपि नास्तीत्युक्त्तम्,एवमत्राप्यनुशायिनामाकाशादिशरीरकत्वफलभूतसुखदुःखोपमोगाभावात् आकाशादिशरीरकत्वं नास्तीति समर्थ्यत इति प्रकृताधिकरणसङ्गतिर्द्रष्टव्या, भाष्ये - यथेतमनेवञ्चेत्युक्त्तमिति, यथेतमनेवञ्च भवती’ ति उक्त्तमिति नपुंशकनिर्देशोऽपि"द्विगुरेकवचनम्’ इत्यादिवदुपपन्न इति वर्णयन्ति, अनेन भाष्येण कृतात्ययेऽनुशयवानिति व्यवहिताधिकरणेन सङ्गतिः, समनन्तराधिकरणन्तु प्रासङ्गिकमिति सूच्यते । अपो विभर्ति इत्यभ्रमिति - मूलविभुजादित्वादिति कप्रत्ययः, मिह सेचने इति धातोरिति पचादित्वात् देवमेपादिवत् दिगुपधालक्षणं कं बाधित्वाऽच्प्रत्यये “न्यंक्कादीनाञ्चे’ति कुत्वे रूपम्, तत्र हि आकाशदिप्रतिपत्ताविति भाष्यस्याऽयमर्थः, यथेतमाकाशाद्वायुमित्यादौ कर्मनिर्देशेनाकाशवायुप्राप्तेः स्फुटमनवगमेऽपि, “वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति’ इत्युपरितनस्फुटतरभूयोवाक्यानुसारेण इहाष्याकाशादिभाव प्राप्तेरेव प्रतिपाद्यत्वे स्थिते सति स किमाकाशादिभावो देवमनुष्यादिभाववदाकाशादिशरीरकत्वम्, उत तत्सादृश्यापत्तिमात्रमिति । तत्स्वाभाव्यापत्तिरिति, स्वभाव एव स्वाभाव्यम्, वर्तमानसामीष्य इत्यादिवत् स्वार्थिकःष्यञ्, स्वस्य भाव इव भावो येषां ते स्वभावाः सदृशाः तद्भावः स्वाभा व्यम्- सादृश्यम्, तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः, स्वाभाविकमेवेतदिति महा भाष्यनिर्देशात् स्वभावशब्दस्य न द्वारादीनाञ्चेत्यैजागम इति प्राहुः एवं साम्प्रदायिकपाठमनुसृत्य समर्थनसम्भवे भामतीरीत्या स्वाभाव्यापतिरिति पाठशिक्षा न कल्पनीया । यथेतमाकाशमित्यादेरयमर्थः, या आपश्च चन्द्रमण्डले शरीरमारब्धवत्यः तासां कर्मक्षये द्रवीभूतानामाकाशमतानां भेदकाकारप्रहाणेन आकाशसादृश्ये तदुपश्लिष्टानुशयिनोऽपि आकाशसमा भवन्ति, ता आप इतश्चामुतश्च नीयमाना वायुसमा भवन्ति, अनुशयी अपि तादृशो भवति, एवमभ्रादिभावेऽपि द्रष्टव्यमिति । भाष्ये- अत्र त्वाकाशादावित्यादि, ननु प्रयोजनाभावेन श्रुतपरित्यागो न सम्भवति, तथाहि सति भूतानां सर्वत्र सुलभत्वात् प्रयोजनाभावात् भूतपरिष्वक्त्तगमनमपि न कल्पनीयं स्यात्, किञ्च “तानि परे तथा ह्याह’ इत्यत्र प्रयतां परमात्मम्पत्तौ प्रयोजनाभावात् तेजः परस्यां देवतायामिति श्रुता परमात्मसम्पत्तिर्न सम्भवतीत्याक्षिप्य प्रमाणानुरोधेन प्रयोजनस्य कल्पनीयत्वात् न प्रमाणप्रतिपन्नार्थत्याग इत्युक्त्तम्, तस्मादाकाशदिशरीरकत्वप्रमाणानुरोधेन आकाशादीनां तदभिमानिदेवताप्रीतिभोगाश्रयाणामनुशयिनोऽपि प्रतिभोगाश्रयत्वमङ्गीकतर्व्यमिति चेत्- न, युगपत् भोक्तृद्वयसमावेशे तयोः परस्परभोगार्थितायां शरीरोन्मथनप्रसङ्गात्, ननु तदभिमानिदेवतात्वेनैव आकाशादिशरीरित्वमस्त्विति चेत्, सर्गाद्यकालमारभ्य आप्रलयमाकाशाद्यभिमानिदेवानामनुशयिभ्योऽन्यासां वलृप्तानां सत्त्वेन प्रतिक्षणमवरोहतामनुशयिनामाकाशद्यभिमानिदेवतात्वानुपपत्तेरिति भावः । परे तु- आकाशादिस्वरूपापत्तिं पूर्वपक्षीकुर्वन्तीति । ननु नचान्यस्य अन्यभावानुपपत्तिः, मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्करणात् देवदेहस्यापि नहुषस्य तिर्यअकत्वस्मरणात् तद्वदिहोपपत्तेरिति भामत्युक्त्तेः, नन्दिकेश्वरो हि रुद्रमाराध्य मनुष्यशरीरेणैव देवत्वेन परिणनाम, तथा नहुषोऽपि इन्द्रत्वं गतोऽगस्त्यशापात् अजगरत्वं जगामेति कल्पतरूक्त्तेश्च, आकाशादिशरीकत्वमेव परैः पूर्वपक्षितमिति प्रतीयत इति कथं तन्मतदूषणमिति चेन्न, शाङ्करभाष्ये आकाशादिस्वरूपमेव प्रतिपद्यन्त इति पूर्वपक्षं उक्त्तत्वात्, सिद्धान्ते च न ह्यन्यस्य अन्यभाव उपपद्यते इत्युक्त्तत्वाच्च तथाभिप्रायं निर्वर्ण्य दूषणोपपत्तेः तथा पूर्वपक्षो न युक्त्त इति मन्यमानैः तद्वयाख्यातृभिरस्मदभिप्रेतार्थ एव पर्यवसानं कारितञ्चेत् न कापि क्षतिरिति द्रष्टव्यम् ॥ 22 ॥