03 अनिष्टादिकार्यधिकरणम्

साधुकर्मसन्बन्धनियमो नास्तीयुच्यत इति - अत्र साधुकमर्शब्देन तत्फलभूतद्युलोको लक्ष्यते, अस्याधिकरणस्य साधुकमर्र हितेषु द्युलोकसम्बन्धाभावप्रतिपादनपरत्वादिति द्रष्टव्यम्, अथवा इत्युच्यत इत्यत्र इतिशब्दः प्रकारवचनः, ततश्च वैराग्यहेतोः केषृचिदनिष्टादिकारिणोऽपि जीवाः सनति तृतीयस्थानस्थिताः केचन याम्ययातना अनुभवन्ति, सर्वेऽपि चन्द्रमसं गच्छन्तीति एवं जातीयकमिहाधिकरणे प्रतिपाद्यत इति भावः, भाष्ये - केवलेष्टापूर्तेति, केवलेत्यनेन ब्रह्मविद्याङ्गभूतेष्टादिव्यावृत्तिः पापव्यावृत्तिर्वा, भाष्ये- विहितम् न कुर्वन्तीति, ननु कथमुभयेषां अनिष्टादिकारिशब्देन ग्रहणं, न च नञ इष्टादिकारिशब्देना न्वये ये सुकृतं न कुर्वन्ति ते लभ्यन्ते, इष्टादिशब्देनान्वये तद्विरुद्धदुष्कृतकारिणो लभ्यन्ते, तत्रासङ्कोचात् समासद्वयलब्दार्थद्वयसङ्ग्रहः, ततश्च सुकृतं ये सेवमाना “अपि दुष्कृतमपि न सेवन्ते तेषामपि चन्द्रलोकप्राप्तिव्युदासः सिध्द्यतीति वाच्यम्, तन्त्रावृत्त्येकशेषाणाम् अन्यतमाश्रयेन समासद्वयाश्रयणस्य क्लिष्टत्वादिति शङ्का व्युदस्यते । भाष्ये- उभयेऽपि पापकर्माणः इति अयं भावः- नञ इष्टादिशब्देन सुकृतवाचिना समासः, ततश्च दुष्कृतकारित्वमेवानिष्टादिकारिशब्दार्थः, तच्च दुष्कृतं द्विविधमपि भवतीति वस्तुतस्तु सर्वेषामेव पुण्यकारिणां किञ्चित् निषिद्धकर्तृत्वस्यापि सम्भवेन सर्वेषामपि चन्द्रप्राप्तिसम्भवेन इष्टादिकारिशब्देन र्स्वर्गफलोन्मुखेष्टादिकारिण उच्यन्ते, ताच्छील्ये णिनिप्रत्ययान्तत्वात्, तद्भिन्ना इहानिष्टादिकारिण उच्यन्ते, इति न काऽप्यनुपपत्तिः । दत्तपूते उच्येते इति - इष्टादिशब्दः सुकृतोपलक्षकः इति भावः । श्रुत्यर्थापत्तिरिति - पञ्चमाहुत्यपेक्षारूपश्रुत्यर्थापत्तिरित्यर्थः “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्य विशेषश्रवणात्, न च एतन्मनुष्यमात्राभिप्रायमिति वाच्यम्, रमणीय चरणाः कपूयचरणाः श्वयोनिं वा सूकरयोनिंवा’ इत्यविशेषश्रवणात्, भाष्ये - अविशेषेण सर्वेषां गतिश्रवणादिति, अनेन पूर्वत्र यावत्सम्पातमिति विशेषश्रवणस्य स्वतः सङ्कोचसाकाङ्क्षस्य रमणीयचरणा इत्यौपसंहारिकवचनानुसारेण सङ्कोचाश्रयणेपि इह “चन्द्रमसमेव ते सर्वे गच्छन्ती’ति श्रुतेः न सङ्कोचः सम्भवतीति प्रत्यवस्थानलक्षणसङ्गतिः सूचितेति द्रष्टव्यम् - पापस्य निष्फलत्वं स्यादित्यर्थ इति । यद्यपि द्वयोः तुल्यफलत्वे बहुवित्तव्ययास साध्यस्य सुकृतस्य व्यर्त्थत्वं स्यात्, इत्येव वक्त्तुमुचितम्, तथापि “संयमने त्वनुभूय’ इति पापफलानुभवप्रदर्शकसूत्रावतरणभाष्यत्वात् तथोक्तमिति द्रष्टव्यम् ॥ * ॥यमाज्ञयेत्यर्थ इति - ननु च संयमनपदं निरोधने प्रसिद्धम्, नतु शासने,तत्रापि यमशासन इत्यर्थश्च दुर्ल्लभः, यमस्याप्रसक्त्तत्वात्, निमित्तसप्तमी चात्यन्तक्लिष्टा, निमित्तात् कर्मसं योगे सप्तमी वक्त्तव्येति प्रयोजनतया निमित्त एव, कर्मसंयोगे च सा शिष्टा, यथा- “चर्मणि द्वीपिनं हन्ति दत्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः’इत्यादौ कैयटे क्रियाफलमिह निमित्तत्वेन विवक्षितम्, यत्क्रियायाः प्रयोजकं यदर्थः क्रियारम्भः ततो हेताविति तृतीयायां प्राप्तायां सप्तमी विधीयते, तस्य निमित्तस्य कर्मणा यदि संयोगः सम्बन्धः तेन वेतनेन धान्यं लुनातीत्यत्र सप्तमी न भवति, वेतनस्य धान्येन संयोगाभावादिति वर्णितम्, न ह्यत्र यमाज्ञायाः प्रयोजनतया निमित्तत्व- मस्ति संयमनशब्दस्य यमाज्ञापरत्वे “तत्रापि च तद्ययापारादविरोधः’ इति न सामञ्जस्यम्, यमसदनपरत्वे हि यमसदननरकगमनयोः विरोधशङ्कापरिहारार्थतया सूत्रं समञ्जसं स्यात्, तथा संयमनपदस्य यमाज्ञापरत्वे तत्सूत्रावतरणभाष्यग्रन्थस्यापि सामञ्जस्यम्, न च पुराणान्तरसिद्धयमसदनगमनमादाय विरोधाशङ्कोत्थितिरिति टीकायामुपपादितमिति वाच्यम्, तस्यातिक्लिष्टत्वात्, संयमने यमशासने तत्प्रयुक्त्तयमयातना अनुभूयेति भाष्यस्यापि यमशासने शासत्यस्मिन्नित्यधिकरणे ल्युट्, यमाज्ञाविषये संयमनपत्तने यमप्रयुक्त्तयातना अनुभूयेति व्याख्यानसम्भवात्, तत्रापि तदयापारादविरोध इति सूत्रावतारिकाभाष्यानुरोधेनार्थाश्रयणे दोषाभावादिति चेत्, सत्यम्, सूत्रकाराभिप्रायदर्शिबोधायनवृत्यनुसारेणार्थस्यवर्णनीयत्वेन एवं व्याख्यानोपपत्तिः, “प्रभवति संयमने ममापि विष्णुः’ इत्यादौ संयमनशब्दस्य शासनेऽपि प्रयोगदर्शनात् संयमनीयशब्दस्य यमपुरवाचित्वेऽपि संयमनशब्दस्य यमपुरवाचित्वप्रसिध्द्यभावाच्च परिपाल्यमानतया यमाज्ञायाः फलत्वेन निमित्तत्वसम्भवात्, कर्मसंयोगाभावेऽपि सप्तम्या नानुपपत्तिः, अन्तर्द्धौ येनादर्शनमित्यत्र अन्तर्द्धिर्व्यवधानम्, अन्तर्द्धौ निमित्त इति निमित्तसप्तमीति व्याख्यातं वृत्तिकारैः, अत्र हि इच्छाकर्मण अदर्शनेन अन्तर्द्धेर्योगो नास्तीति, ततश्च अन्तर्द्धावित्यत्र कर्मसंयोगाभावेऽपि प्रयोजनतया निमित्तत्वस्याभावेऽपि निमित्तमात्रसप्तमीदशर्नात् अत्रापि न दोषः, ननु तत्र पदमञ्जर्यां “निमित्तात्कमर् संयोगः’ इति यदि कारणं निमित्तं गृह्यते जाव् बद्धः, इत्यत्रापि प्राप्नोति तस्मात् प्रयोजनस्य निमित्तस्य ग्रहणम् यथा “चर्मणि द्वीषिनं हन्ति’ इत्यादौ इहान्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः स्वल्वसौ न दृश्यते तस्मान्निमित्तात् सप्तमी, पञ्चम्यर्थस्य शेषत्वविवक्षया षष्ठीसमासः, ततश्च यस्य च भावेन भावलक्षणम्’ इति सप्तमी वा, सप्तम्यधिकरणे चेति विषयसप्तमी वा भविष्यतीत्युक्त्तमिति चेत्, इहापि तथास्तु, अथवा संयमने यमशासने तत्प्रयुक्त्ततया तत्प्रयुक्त्तयातना अनुभूयेतिभाष्ये संयमन इत्यस्य यमशासन इति नार्थकथनम्, अपि तु संयमने यमपुरे यमशासने सति यमाज्ञायां सत्यां तत्प्रयुक्त्तयातना अनुभूयेत्यर्थः, अयमेवार्थः संयमन इति निमित्तसप्तमी, यमाज्ञयेत्यर्थ इति टीकाग्रन्थस्याप्यभिप्रेतः, अस्य वाक्यस्याऽयमर्थः, संयमन इत्यादिवाक्यस्थ यमशासनपदे निमित्तसप्तमी, सा च पूवर्मेवोपपादिता, नचैवं संयमनप्राप्तेः नरकगमनस्य च विरोधशङ्कायाः सम्भवात् यमसदनप्राप्तिपराणिवचनानि पुराणादिषु पठ्यन्ते, तन्निमित्तेयं शङ्केति टीकाग्रन्थास्वारस्यमिति वाच्यम् नहि संयमननरकगमनयोः “तत्रापि च तद्वयापारादविरोध’ इति विरोध आशङ्कय परिहृतः, अपि तु यमगृहनरकगमनयोः संयमने’ इति सूत्रे यमपुरप्रवेश एव उक्त्तः, न तु सदनप्रवेशः, ततश्च सूत्रप्रतिपाद्येन विरोधासम्भवात् यमसदनप्राप्तिवचनानि पुराणादिषु पठ्यन्ते’, तन्निबन्धनेयं शङ्केति ग्रन्थस्सङ्गच्छते, इत्थं हि तत्रापि च तद्वयापारादविरोधः’ इत्यस्य शङ्काभाष्यं, ननु सप्तसु लोकेषु सञ्चरतां गच्छतां कथं यमसदनप्राप्तिरिति । अयं लोको नास्ति न पर इतीति- “न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्’ “अयं लोको नास्ति न परः इतिमानी पुनः पुनर्वशमापद्यते मे’ इति कठवल्लीषु मृत्योनर्चिकेतसं प्रति वचनमिदम्, सम्यगवश्यम्भावेन, परस्तात् भेदादस्य पश्चात् ईयते गम्यत इति साम्परायः तत्प्राप्त्यर्थसाधनविशेषस्साम्परायः, बालम् अविवेकिनम् अत एव प्रमाद्यन्तमनवहितं प्रति न भाति, अत एवायमेव लोकस्त्र्यन्नपानादिरूपोऽस्ति न परः परलोक इति, मानीति मननशीलः तदनुरूपमाचरन् पुनः पुनर्जन्ममरणप्राप्त्या मम वशमापद्यत इत्येवमयं लोक इत्यत्र एवशब्दमध्याहृत्य व्याख्यातं परैः, आचार्य्यास्तु च शब्दमध्याहृत्य व्याचक्षते । अत्रामुत्र च सुखं नास्तीत्यर्थः इति - देहान्तरोपभोग्यमिति शेषः, भाष्ये- वैवस्वतं सङ्गमनं जनानाम्’ इति सङ्गमनं सङ्गम्यमित्यर्थः, भाष्टे स्मन्ति चेति सूत्रस्यानवतारितत्वात् स्वयमवतारयति । तद्गतिदर्शनादित्यत्रेत्यादिना - संयमने त्वनुभूयेतरेषामारोहावरोहाविति प्रतिज्ञाते ॥पापफलानुभवार्थे प्रमाणप्रदर्शनं ह्युचितम् न तु तद्रतौ, अतः तद्गतिदर्शनादित्यर्थे अनुशयानः सूत्रकारः पापफलनुभवप्रदर्शकं सर्वे चैते वशं यान्ति’ इति स्मृतिवचनमेव प्रमाणं दर्शयति- स्मरन्ति चेति सूत्रेणेत्यर्थः, नन्विदानीमपि स दोषस्तदवस्थ एव, “अङ्गुलस्याष्टभागोऽपि न “सोऽस्ति द्विजसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः’ इति प्रकृत्य “सर्वे चैते वशं यान्ति यमस्य भगवन् किल’ इति स्मर्य्यते, नह्येतद्वचनं पापिनं यमयातनारूपफलानुभवे प्रमाणयितुं शक्यते, यमवश्यतामात्रस्मरणात् सर्वसाधारणत्वेन पापिमात्रपरत्वाभावाच्चेति चेन्न, “आयुषोऽन्ते तदा यान्ति यातनाः तत्र चोदिता’ इति पापफलयातनानुभवदर्शनात्, नचैतस्य सर्वसाधारणत्वात् पापिनां पापफलानुवेदेन प्रमाणीकर्तुं शक्यम्, उत्तरत्र भगवद्भक्त्तानां यमविषयगमनाभावप्रतिपादनेन “सर्वे चैते वशं यान्ती’ ति वचनस्यानिष्टादिकारिमात्रविषयत्त्वस्य निश्चेतुं शक्यत्वात् । ननु एतस्य वचनस्य पापफलभूतयातनानुभवप्रदर्शनपर्यन्तवे स्मरन्ति च यमवश्यतां पराशरादय इति भाष्यविरोधः फलानुभवं स्मरन्तीति हि भाष्येण भाष्यमिति चेन्न, यमवश्यतामित्यस्यैव फलानुभवपर्यन्तयमवश्यतापरत्वसम्भवेन विरोधात् ॥is not available.is not available.विद्याकमर्णोरिति तु प्रकृतत्वात् ॥ 17 ॥ फलभोगार्थत्वादिति - सम्बन्धसामान्यविषया षष्ठी तादर्थ्यपर्यवसायिनी, तादर्थ्यं च तत्फलभोगार्थत्वं, इतिश्च हेतावित्यर्थः ॥॥ न तृतीये तयोपलब्धेः॥ सम्पूर्यते प्राप्यत इत्यर्थ इति - “अमुष्य लोकस्य अप्राप्तार’ मिति रंहत्यधिकरण भाष्यदर्शनात्तथोक्तमिति द्रष्टव्यम्, ननु भाष्ये वाकिमिति “यथासौ लोको न सम्भूर्यते’ इत्यत्र यथाशब्दसम्पूर्णशब्दयोः स्वारस्यपरित्यागेन केन पुंसा असौ लोको न सम्पूयर्त इत्यर्थाश्रयणं नित्यं बहुभिः प्रयद्भिरपि येन कारणेन चन्द्रलोको न सम्पूर्यते न निबिन्दीर्कियत इत्यर्थो हि स्वरसतः प्रतीयत इति चेन्न, जायस्व भ्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते’ इति प्रतिवचने तृतीयस्थानशब्दितक्रमिकीटादिलक्षणपापकर्मभिरप्राप्यत्वप्रतिपादनेन प्रश्नस्याप्यप्राप्तपरत्वमेवोचितमिति भाष्याभिप्रायात ननु इदमन्धस्य जात्यन्धेन यष्टेः प्रदानम्, प्रतिवचने ह्येवमर्थः प्रतीयते, एवं हि तस्य प्रश्नस्य प्रतिवचनं श्रूयते, अथैतयोः पथोः न कतरेण चन तानीमानि भूतानि क्षुद्राण्यसकृदावर्त्तीनि इति भूतानि भवन्ति जायस्व भ्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते’ इति, एतयोर्देवयानपितृयानयोः मध्येन कतरेण च न केनापि मार्गेण गच्छन्ति तानीमानि क्षुद्राणि यूकालिक्षमशकादीनि असकृदावर्त्तीनि जायस्व भ्रियस्वेति भवन्ति, जननमरणपौनःपुन्यरूपासकृदावृत्तियुक्त्तानि भवन्ति, एतत् तृतीयं स्थानं जननमरणरूपमसकृदावर्त्तनम् तृतीयं स्थानं तृतीयो मार्गः, तस्मात् क्षुद्रजन्तूनां मागर्ान्तरसत्वात् देवयानपितृयाणप्राप्त्यभावेन चन्द्रप्राप्त्यभावात् क्षुद्रजन्तुभिराक्रान्तोऽयं लोक इव असौ लोको न सम्पूर्यत इत्यर्थः स्वस्सतः प्रतीयते, न च स्थानशब्दस्य मागर्वाचित्वं न स्वरसमिति वाच्यम्, अथैतयोः पथोरिति प्रकृतमार्गद्वयापेक्षया तृतीयत्वस्य मार्गान्तर एवान्वयात् अस्य गौर्द्वितीयोऽन्वेष्टव्य यादाविव सङ्खयाया सजातीयनिवेशित्वौचित्यात्, न च स्थानशब्दः फलानुभवाश्रयपरः, ततश्च विद्याफलभूतब्रह्मप्राप्त्याश्रय एकः, इष्टापूर्त्तादिफलानुभवरूपचन्द्रप्राप्त्याश्रयोऽपरः, पाप्यफलभूतजनामरणरूपासकृदावर्त्तनाश्रयः तृतीय इति पापकर्मणां तृतीयस्था नत्वं सङ्गच्छत इति वाच्यम् तथा सति ब्रह्मचन्द्रप्राप्तिरूपस्थानद्वयापेक्षया सुकृतविशेषफलभूतब्राह्मणादियोनिप्राप्तिरूपफलानुभवाश्रयाणामपि तृतीयराशित्वेन सङ्ग्रहापत्तेः, “तस्मादेतत् तृतीयं स्थानम्’ इति स्थानशब्दो जननमरणपौनःपुन्यरूपासकृदावृत्तिरूपमार्गान्तरवाचक एवाभ्युपगन्तव्यः, अतः “तेनासौ लोको न सम्पूर्यते’ इत्यत्र तेन तस्मादित्यर्थः, हेतौ तृतीया, यस्मात् मार्गान्तरमस्ति ततो हेतोरित्यर्थः, ननु तेन तृतीयस्थानशब्दितेन जीवेन पापकर्मणोति कर्त्तरि तृतीया, अतो न सम्पूर्यत इति औपसंहारिकस्यापि नास्वरसार्थसमाश्रयणमिति चेत्, अत्र व्रूमः, सर्वनाम्नां हि पूर्वनिर्दिष्टप्रधानपरामर्शित्वं न्यायसिद्धम्, अत एव “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’ इत्यत्र पूवर्स्मिन् वाक्ये आनयनकर्मणा दध्नापि व्याप्यमानतया यत्प्रधानं पयः तस्यैव तच्छब्देन परामर्शः, न तु अप्रधानस्य दध्नः, ततश्चामिक्षयाः पयोविकारत्वमिति चतुर्थे अष्टमे च स्थितम्, यथा षड्विशतिरस्य वंक्रयस्ता अनुष्ठयोच्यावयतात्’ इत्यत्र तच्छब्दनिर्देश्यत्वं प्रधानस्यैवेति सिद्धवत्कृत्यता अनुष्ठयोच्यावता इति स्त्रीलिङ्गद्वितीयाबहुवचनान्ततच्छब्देन वंक्रीणामेव परामर्शदर्शनात् तासामेव प्राधान्यम्, न तु षड्िवंशतिशङ्खयायाः अस्य शब्दाभिधेयस्य पशोर्वाप्राधान्यम्, ततश्च वंक्रिप्रधानत्वाद्वाक्यस्य वंक्रीयताप्रदर्शनाय ऊहः कर्त्तव्य इति नवमे स्थितम्, ततश्च जायस्व मियस्वेति भूतानि भवन्ति एतत्तृतीयं स्थानम्, इत्यत्र एतच्छब्देन पूर्ववाक्ये भवन्तीति भावनाश्रयतया निर्दिष्टानां भूनानामेव ग्रहणमुचितम्, नतु भवितृविशेषणतया उपस्थितस्य जननमरणादिरूपभवनस्य भवन्तीत्याख्यातेन साध्यतया अविधीयमानस्य भवनस्य एतदितिसिद्धपरमर्शिसर्वनाम्ना परामर्शश्च न स्वरसः, ततश्च जननमरणाशालिनांपापकर्मणां तृतीयस्थानशब्देन परामर्शात् “तेनासौ लोको न सम्पूर्यते’ इत्यत्रापि तच्छब्दः प्रकृततृतीयस्थानशब्दितजीवपरामर्श्येव, तृतीयापि कतर्येव, न तु तस्मादिति हैतौ, न चैतम् तृतीयं स्थानमित्यत्र प्रकृतानाम्, “असकृदावृत्तीनि भूतानि भवन्ति’ इति निर्दिष्टानां पापकर्मणाम् एतच्छब्देन परामर्शे तेषां बहुत्वात् एकवचननिर्देशानुपपत्तिरिति वाच्यम्, सा वैश्वदेव्यामिक्षा’ इत्यत्र तच्छब्दस्य नपुंसकलिङ्गपरामर्शिनोऽपि आमिक्षापदसामानाधिकरण्यप्राप्तस्त्रीलिङ्गपदानुवादवत् अत्राप्येतत् तृतीयं स्थानमिति नपुंसकलिङ्गैकवचनान्तस्थानशब्दसामानाधिकरण्यप्राप्तलिङ्गवचनानुवाद उपपन्नः,एवमुत्तरत्रापि तेनासौ लोको न सम्पूर्यते’ इत्यत्र तेनेति निर्देशोपपत्तिः, केचित्तुक्रियाप्रधानमाख्यातमिति न्यायेन भवन्तीत्यत्र भवनक्रियाया एव प्राधान्यात् तस्या एवैतच्छब्देन परामर्शः, न तु भवितुः, अत एव वैकल्पिकलोण्मध्यमपुरुषः, असकृदावृत्तीनि भवन्तीति क्रियासामान्यवाचिनः भवतेरनुप्रयोगश्च, आलङ्कारिकैरपि “पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः’ इत्यत्र समुद्रस्य फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः’ इत्यत्र समुद्रस्य चन्दनधर्मणशिलाप्रान्तस्थानीये तटे हस्तस्थानतरङ्गैः फेनप्रेरणे दिगङ्गना घवलीकरणहेतुचन्द्रकिरणव्यापने च पेषणलेपनतादात्म्यमात्रमुत्प्रेक्ष्यते, नतु तयोः पेषणलेपनकर्त्तृतादात्म्यं, पिनष्टि लिम्पति इत्याख्यातयोः कर्त्तृवाचित्वेऽपि “भावप्रदानमाख्यात’मिति कर्तुः प्रधानभूतक्रियोपसर्जनस्य ैअन्वयासम्भवादित्युक्त्तम्, अत एव “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’ इत्युत्प्रेक्षामुदाहृतवता दण्डिना उदाहरणयोरिवशब्दश्रवणात् लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशङ्कय कर्ता यद्युपमानं स्यात् न्यग्भूतोऽसौक्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यद् व्यपेक्षितुम्’ इति दूषितम्, अत एव पश्य मृगो धावतीत्यादौ धावनक्रियायाः दर्शनकर्मत्वमित्यभियुक्त्तानां व्यवहारः, तस्मात् जायस्व म्रियस्व भवन्तीति निर्दिष्टम् पौनःपुन्येन जननमरणभवनमेव एतच्छब्देन परामर्शयोग्यम्, अतश्च “तेनासौ लोको न सम्भूर्यते’ इत्यत्रापि तस्माद्धेतोरसम्पूर्णमित्येवार्थः प्रतीयते, द्युलोकारोहाभावेन द्युलोकासम्पूर्त्तिवचनादिति भाष्ये द्युलोकासम्पूर्णस्य द्युलोकाप्राप्तिहेतुकत्वकीर्तनात् तत्स्वारस्यानुग्रहाय तृतीयस्थानशब्देन पापकमर्ाण उच्यन्त इति भाष्यस्थपापकर्मशब्दस्य मार्गलक्ष्यकत्वमेवाश्रीयते, आचार्यगन्थोऽपि तदनुसारेण नेय इति वर्णयन्ति । ईश्वरशासनानुवर्त्तिनीति - जायस्व भ्रियस्वेतीश्वरशासनानुकरणम् । वेदस्वातन्त्रादिति - “छन्दसि व्यत्ययो बहुलम्’ इति अनुशासनादिति भावः, इदञ्च काकाक्षिन्यायेन जज्ञे ममारयति भूतार्थतावेत्युत्तरेण सम्बध्यते, जज्ञे मभ्रे इति क्कचित् पठ्यते, तत्र भ्रियतेर्लुङ्लिङोश्चेति परस्मैपदप्रसङ्गात् भावे प्रयोग इति केचिद्वदन्ति - पुरीमवस्कन्ध ळुनीहि नन्दनमित्यादिवदिति । अत्र भूतार्थतावेत्यतो वेत्यनुकृष्यते, पुरीमवस्कन्द लुनीहि नन्दनमित्यादिवद्वेत्यर्थः अयम्भावः- सुमुच्चयेऽन्यतरस्यामिति अनेकक्रियाव्याहारः समुच्चयः, समुच्चीयमानक्रियावचनाद्धेतोः विभाषा लोट्, तस्य च हि स्वौ भवतः तद्धम्भाविनस्तु वा भवत इति सूत्रार्थः, तत्र “समुच्चये सामान्यवचनस्ये’ति सामान्यवाचिनो धातोरनु प्रयोगो विहितः । ओदन ं भक्ष्व धानाः रवाद सक्त्तून् पिवेत्येवाभ्यवहरति इति, अत्र समुच्चयद्योतनाय समुच्चयेऽन्यतरस्यामिति ततश्च “पुरीमवस्कन्द लुनीहि नन्दनम् मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे’ इति अवस्कन्दनलवनमोषलक्रियाणां समुच्चयेऽन्यतरस्यामिति लोण्मध्यमपुरुषैकवचनम्, समुच्चये सामान्यवचनस्येति सामान्यवाचिनश्च कृ इत्यस्य अनुप्रयोगश्च यथा भवति, एवमिहापि जायस्व भ्रियस्वेति जननमरणक्रियासमुच्चये लोण्मध्यमपुरुषैकवचनम्, भवन्तीत्यस्य च सामान्यवाचिनोऽनुप्रयोग इत्ययमेव पारमार्थिकः परिहारः आचार्याणामभिमतः, इतः परं परिहारान्तरानुपन्यासात् ॥18॥is not available.दर्शनाच्च तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भयन्ति इति बीजत्रैविध्ये प्रतिज्ञातेऽण्डं जीव उद्भिदित्येव वकतुमुचितम्, न त्वाण्डजम् जीवजमुद्भिज्जमित्यतीशङ्कय स्वतन्त्रायाः श्रुतेः पर्यनुयोगासम्भवात् बीजत्रैविध्यफलकं प्रकारमुपदिशतीत्याह -बीजत्रैविध्यमिति । अण्डजमिति अण्डजमेव आण्डजं स्वार्थेऽण जरायुः गर्भपरिवेष्टनम् जरायुजं पुरुषपश्वादि, अत्र श्रुतावपि दृश्यत इति भाष्यस्याऽयमर्थः, श्रुतावपि चतुर्विधभूतजातं दृश्यते तन्मध्ये केषाञ्चिदुद्भिज्जानां स्वेदजानाञ्च उभयविधानां पञ्चमाहुत्यनपेक्षा लोके दृश्यत इति, तेषां खल्वेषां भूतानामित्याद्युत्तरभाष्यग्रन्थस्तु एतद्वयाख्यानरूपः, ततश्च दर्शनाच्चेत्यत्र दर्शनादित्येतत् तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणेन अर्थद्वयं प्रतिपादयति, न त्वत्र यथाश्रुतार्थो ग्राह्यः नह्याण्डजं जीवजमुद्भिज्जमिति श्रुतौ पञ्चमाहुत्यनपेक्षा श्रूयते, यद्येवं पररीत्या चतुर्विधभूतग्राममध्ये केषाञ्चित् पञ्चमाहुत्यनपेक्षयैव उत्पत्तिर्दृश्यत इत्येवं व्याख्यायतां किं श्रौतदर्शनस्यापि सङ्ग्रहयत्नेनेति चेत्, उत्तरसूत्रनिवर्त्थशङ्कोत्थापनार्थतया तन्त्रावृत्त्यादीनामन्यतमाश्रयणेनैव एवमर्थद्वयप्रतिपादनमिति भावः - परे त्वित्यादि श्रुत्या सर्वेषां चन्द्र प्राप्तिशङ्केति । “चन्द्रमसमेव ते सर्वे गच्छन्ति’ इति कौषीतकीश्रुत्या सञ्जाता सर्वेषां चन्द्रप्राप्तिशङ्केत्यर्थः । द्वितीयसूत्रे तु व्युदसनीयशङ्केति - संयमने त्वितिसूत्रस्थतुशब्दव्युदसनीयशङ्का सुकृतदुष्कृतकारिणोरविशिष्टैव गतिःस्यात् इत्युपन्यस्तेत्यर्थः याम्यार्यातना इति । यमाच्चेति वक्त्तव्यमिति ण्यप्रत्ययः, यामी र्यातना इति पाठे तु निर्वाहान्तरं द्रष्टव्यम् । ततोऽवरोहणस्यचासम्भवादिति - एतेन संयमने त्वनुभूय इति सूत्रश्रुतस्य संयमनस्यैवावरोहापादनता शीघ्रं गम्यते, न चन्द्रे मण्डलस्य, चन्द्रमण्डलादवरोह इत्यध्याहारसापेक्षत्वात्, ततश्चेदं सिद्धान्तसूत्रमेव, न तु भास्कररीत्या पूर्वपक्षसूत्रमिति भामतीकल्पतर्वादावुक्त्तं निरस्तम्, संयमनस्यैवावरोहापादानत्वेऽनुभूयारोहेति अनुभवानन्तर्भाव्यारोहाश्रयत्वस्यापि संयमनस्यैव वक्त्तव्यतया तस्य च तत्रासम्भवात् । नरकानुभवादनन्तरमिति अनन्तरशब्दस्य पश्चाच्छब्दादिवत् दिक्शब्दत्वमभिप्रेत्य पञ्चमीनिर्देशः कृत इति द्रष्टव्यम्, अथवा उर्ध्वमित्यध्याहारेण दिग्योगलक्षणा पञ्चमी, यथोक्तं वैयाकरणैः- “अनुनासिकात्परोऽनुस्वारः’ इत्यत्र अन्यशब्दाध्याहारेणानुनासिकादिति पञ्चमीति । अनन्तरमिति यमालयमित्यस्य विशेषणं, नरकानुभवादूर्ध्वं सन्निहितं यमालयमित्यर्थः । स्वमते सूत्रस्य साफल्यमाह - यमप्राप्तिवाक्य इति । अयं लोको नास्ति न पर इति वाक्य इत्यर्थः । अन्ये त्वित्यादि- किमनिष्टादिकारिणः पापफलानुभवाथर्ं धूमादिना गच्छन्ति उत सुकृतफलानुभवार्थमिति विकल्पद्वयमभिप्रेत्य प्रथमं दूषयति । तत्र पापफलभोगाभावादिति - तत्र मार्गे पापफलभोगस्यासम्भवात् इत्यर्थः, द्वितीयं दूषयति । कर्मणा विनेति - इष्टादिना पुण्येन कर्मणेत्यर्थः । शास्त्रावैयर्थ्याच्चेति - ज्योतिष्टोमादीकामन्तरेणैव तत्फललाभे तत्र कोऽपि न प्रवर्त्तत इति “ज्योतिष्टोमेन स्वर्गमामो यजेत’ इत्यादिशात्रस्य स्वर्गार्थतया ज्योतिष्टोमादौ प्रवर्तकस्य वैयर्थ्यं, प्रवर्त्तकत्वं न स्यादित्यथर्ः अथवा शास्त्रशब्दः तत्प्रतिपाद्यकर्मपरः, “द्वे सृती’ इति द्वे गती इत्यर्थः, अृणवम्- अश्रौषम्, पितृणां देवानाञ्च प्रापिकेत्यर्थः । मर्त्यानामित्यत्र प्राप्तृत्वेन सम्बन्धः, पितरं मातरञ्चेतिः द्यावापृथिव्यावेव मातापितरौ । गमनस्यापुरुषतन्त्रस्येति - विद्याकर्मरूपसाधनेऽनुष्ठिते स्वयमेव सिध्द्यतो मार्गस्य विधेयत्वायोगात् । अत एव तृप्तिर्भक्षानुनिष्पन्ना न व्यपारान्तरमपेक्षत इत्यपुरुषतन्त्रत्वेनाविधेयतया अननुष्ठेय- त्वेन बन्त्रप्रकाश्यत्वायोगात् तृप्तिप्रकाशकमन्त्रांशस्य न तृप्तौ विभज्य विनियोज्यत्वमिति शेषलक्षणे स्थितमिति भावः - तृतीय-स्थानमृतानामिति । यूकमक्षिकादीनामित्यर्थः - पापिनां दुःखभोकतृत्व इति । पापिनां दुःखभोक्तृत्वे आरोगभ्राजादीनां सप्तानां सूर्याणां दुःखभोजयितृत्वरूपयातयितृत्वे वा संशयाभावात्, यद्वेत्यादि द्वितीयायोजनाऽपि असङ्गतेत्यर्थः । अत एव तृतीयस्था-नमृतानामिति - अनिष्टादिकारिणां पुरुषाणामपि चन्द्रप्राप्तिनिवारणे किमु वक्त्तव्यं तृतीयस्थनमृतानां यूकमक्षिकादीनामिति भावः ॥ * ॥ ॥ इति अनिष्टादिकार्यधिकरणम् ॥