अत्र भाष्ये - पुनरावर्त्तनञ्च आम्नातमित्यस्य अनन्तरं “अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूमभिमस्मवन्ति’ इत्या रभ्य इत्यध्याहृत्य “यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते’ इत्याम्नातमित्यन्वयो द्रष्टव्यः, ततश्च यावत्सम्पातमिति भाष्योपात्तश्रुतिवाक्येपि पितृयाणपथा नाम्नानं न दोषः, अथवा केवलेष्टादिकारिणां धूमादिना पितृयाणेन पथा गमनं भूतपरिष्वङ्गादिप्रकारयुक्त्तम्, चिन्तितमिति शेषपूरणेन समाप्तं वाक्यम्, कर्मफलावसान इत्यादि तु वाक्यान्तरम्, अस्मिन् पक्षे अवान्तर सङ्गतेः भाष्ये कण्ठतः प्रतिपादनात् विषयशुध्द्यर्थम् अवान्तरसङ्गत्यर्थञ्चेति टीका सुसङ्गता, पादसङ्गतिसूचकं सङ्गत्यन्तरमनयोरधिकरणयोर्दर्शयति - यावत्संसारमित्यादिना अर्थः सङ्गतिरित्यर्थः इति । अत्रेतिशब्दः प्रकारवचनः, प्रयोजनं एवं जातीया सङ्गतिः प्रयोजनं फलितेति यावत् भुक्त्तशिष्टं कर्म न शिष्यत इति विरोधमाशङ्कयाह - तच्छब्देति । अवशिष्टं कर्म न सम्भवतीत्यर्थ इति - नावशिष्यत इत्यस्य न सम्भवतीत्यर्थः इति भावः । वाक्यवैयर्थ्यमिति - यावन्मरणं जीवनमिति वाक्यवत् इति भावः । भाष्ये - सम्पतन्त्यनेनेति करणे घञिति भावः । अभ्याङ्पूर्वादिति - यद्यपि “कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्द्येत’ इत्यादौ अभ्यागन्तृवचनत्वं न सम्भवति, परोक्तं क्षिप्रवचनत्वं तु सम्भवति तथापि अत्रास्यार्थस्य सम्भवात् तथोक्तमिति द्रष्टव्यम्, भाष्ये - प्रत्यवरूढेष्विति तद्विषयमेव । अभुक्त्तफलानामकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवान्नाशोऽप्यनुपपन्नः । अतोऽमुं लोकं गताः सानुशया एव यथेतमनेवं च पुनर्निवर्त्तन्ते आरोहप्रकारेण प्रकारन्तन्तरेण च पुनर्निवत्तन्त इत्यर्थः । आरोहणं हि धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण; अवरोहणन्तु चन्द्रमसः स्थानादाकाशवायुधूमाभ्रमेधक्रमेण । तत्राकाशावरोहणात् यथेतम्, वाय्वादिप्राप्तेः पितृलोकाद्यप्राप्तेश्चानेवम् ॥ 8 ॥ निर्द्धारणे सप्तमी, भाष्ये दर्शयतीति, श्रुतिरित्यनुषज्यते । गौतमापस्तम्बवचनमिति - वर्णा इत्यादि गौतमवचनम्, तत इत्याद्यापस्तम्बवचनम्, भाष्ये- यावत्सम्पातमिति, फलदानप्रवृत्तकर्मविशेषविषयमिति, यावन्त्यस्य कर्माणि तानि सर्वाण्यपि कदाचिच्चन्द्रमसमारूढेन न भोक्तुं शक्यन्ते, अनादिजन्ममरणप्रवाहे केषाञ्चित् कर्मणां ततः प्रागेव भुक्त्तत्वात् नानाविधदेवमनुष्यपशुपक्षिसरीसृपादिदेहभोग्यत्वेन श्रुतानां कर्मणां एकेन स्वशरीरेण भोकतुमशक्यत्वात् । तस्मादुपक्रमगतस्यापि सम्पातशब्दस्य स्वत एव सङ्कोचकापेक्षायां स्मृत्यनुगृहीतोपसंहारगतरमणीयचरणादिश्रुत्यनुरोधेन तथा सङ्कोचः कर्त्तुं युक्त्त इति भावः - तद्वय इच्छेद इति । फलदानाप्रवृत्तस्वर्गार्थकर्मैकदेशनिरास इत्यर्थः । स्वर्गकामो यजेतेति श्रुतिस्वारस्यविरुद्धमिति - स्वर्गार्थज्योतिष्टोमस्यैव रमणीययोन्यादिफलत्वे स्वर्गस्य निरपेक्षसाध्यत्वप्रतिपादकश्रति विरोध इत्यर्थः, अत एव “सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः’ इत्यादिवाक्यप्रतिपन्नब्रह्मवर्चसादिफलकेषु सौर्यादिषु शास्त्रस्य बहुविषयत्वसिध्द्यै विश्वजिन्न्यायेन स्वर्गस्यापि फलत्वे कल्प्यमाने कामश्रुतिप्रतिपन्ननिरपेक्षसाध्यत्वभङ्गप्रसङ्गात् न स्वर्गाद्यर्थत्वमित्युक्त्तम् पूर्वतन्त्रे । अत एव सर्वकामसाधनत्वेन प्रतिपन्नज्योतिष्टोमादेरपि एकस्मिन् प्रयोगे न फलद्वयसाधनत्वमित्यपि, पूर्वतन्त्रे वर्णितमिति भावः । भाष्ये - फलानुभावान्नाश इति, हेतौ पञ्चमी, विभाषा गुण इति योगविभागात् फलानुभवेन नाश इत्यर्थः, “प्रायः पापं विजानीयात् चित्तं तस्य निरोधन’मिति पापस्यैव प्रायश्चित्तनाश्यत्वं न पुण्यस्येति शङ्कां निरस्यति - पुण्यकर्मणोमुमुक्ष्वपेक्षयेति । ननु यथेतमनेवञ्चेति सूत्रखण्डो व्यथर्ः, निवर्त्तनीयशङ्काया अभावात्, श्रुतिवाक्य एवास्यार्थस्य स्पष्टं प्रतिपादनात्, अतो न्यायनिबन्धनात्मके सूत्रे किमर्थं तन्निबन्धनमति चेत्, अत्र व्रूमः “अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाश’मिति शब्दादारोहपर्वणामेवावरोहेऽपि प्रातिलोम्येन क्रमप्रतीतावपि “आकाशाद्वायुमित्यौपसंहारिकबहुवाक्यानुरोधात् यथा यथेतमनेवञ्च अवरोहणमभ्युपगम्यते, तथैवोपक्रमश्रुतयः यावदिति श्रुत्या निरवशेषकर्मभोगप्रतीतावपि “रमणीयचरणाः कपूयचरणा’ इत्यादौ औपसंहारिकबहुवाक्यानुरोधात् सावशेष एव कर्मभोग इति दृष्टान्तसूचनार्थमिति ॥ * ॥पृथङ्निर्देशो भिन्नार्थत्वकृत इत्यर्थ इति - अत एव “न वायुक्रिये पृथगुपदेशात्’ इति पृथगुपदेशस्य अर्थभेदनिबन्धत्वं सूत्रितमिति भावः ।is not avialable.आचारशब्दस्येति - पूर्वपक्षिणा आचारवाचित्वेनोपन्यस्तस्य चरणशब्दस्येत्यर्थः । भाष्ये -पुण्यं कर्माचरतीति, आङुपसर्गस्य प्रयोगस्त्वविवक्षितः, अत एव हि उत्तरत्र कर्मणि चरतेः प्रयोगादिति भाष्यम्, चरणशब्दसाधारण्याय चरतेरेव प्रयोगस्य वाच्यत्वादिति द्रष्टव्यम् । कर्मानुष्ठाने प्रयोगादिति - ततश्च चर्यत अनुष्ठीयत इति “कर्मणि कृत्यल्युट’ इति ल्युटि चरणशब्दस्य कर्मवाचित्वमुपपद्यत इति भावः । भाष्ये - आचारानुमितश्रुतिविहितसन्ध्यावन्दनादेरिति, आचारहीनं न पुनन्ति वेदा’ इत्यादि स्मार्तप्रयोगानुसारेण आचारानुमितश्रुतिविहितत्वेन आचारशब्दवाच्यानां सन्ध्यावन्दनादीनाम् अग्निहोत्रादिवैदिककर्माधिकारापादकत्वं युक्त्तमिति भावः । ननु कृत्स्नस्याप्याचारस्य कथमाचारान्वितश्रुतिविहितत्वेन आचारशब्दवाच्यत्वम्, आचारेष्वेव सन्ध्यावन्दनादिषु केषुचित् स्मृत्यनुमितश्रुतिविहितत्वस्यापि दर्शनात् सन्ध्योपासनस्यैव “अहरहः सन्ध्यामुपासीत’ इति प्रत्यक्षश्रुतिसिद्धत्वाच्च, किं बहुना, सिद्धान्ते विप्रकीर्णशाखाया एव स्मृत्याचारमूलत्वाभ्युपगमेन सर्वेषामप्याचाराणां प्रत्यक्षश्रुतिसिद्धतया आचारशब्दवाच्यानां सन्ध्यावन्दनादीनामङ्गत्वमिति व्यवस्था कथमिति चेत्, अत्र व्रूमः, सत्यम्, सर्वमपि कर्मप्रत्यक्षश्रुतिसिद्धमिति, तथाप्यस्त्येव व्यवस्थापकं वैदिकत्वावैदिकत्वयोः, त्रयी हि वैतानिककर्माधिकारेण प्रवर्तते तन्मध्ये तु प्रसङ्गादेवावैतानिकं किञ्चिदुच्यते, ततश्च यदधिकृत्य त्रयी प्रवर्तते तद्वैदिकम्, इतरत्त्ववैदिकम्, ततश्चान्यत् सर्वं लौकिकं स्मार्तमाचार इत्येव हि वैदिकगोष्ठीव्यवहारः, अयञ्चार्थः पूवर्तन्त्रे सप्तमे विध्यन्तराधिकरणे स्पष्टः, ततश्च वैतानिके कर्मणि अवैतानिकमङ्गमित्यर्थः॥ * ॥ ॥ इति कृतात्ययाधिकरणं समाप्तम् ॥