01 तदन्तरप्रतिपत्त्यधिकरणम्

भाष्ये - तद्दुर्धर्षणत्वहेतुभिरिति, प्रथमाध्यायार्थदुर्धषर्णत्वहेतुभिरित्यर्थः, अनेन द्वितीयाध्यायार्थस्य प्रथमाध्यायशेषत्वं रव्यापितम् । अत एव द्वितीयाध्यायार्थः तृतीयान्तपदाभ्यां निर्दिष्टः “सह युक्त्तेऽप्रधान’ इति हि स्मृतिः, इदानीमिति व्याख्येयं पदम् । विषयिचिन्ता क्रियत इत्यर्थः इति - प्राप्तेरप्यनुभवरूपतया उपासनप्राप्त्योः तृतीयचतुथर्ाध्यायप्रतिपाद्ययोः ब्रह्मविषयकतया विषयिचिन्तात्वेन क्रोडीकारो युक्त्त इति भावः, भाष्ये - लोकान्तरेषु सञ्चरतो जाग्रत इति, लोकन्तरेषु सञ्चरतो जाग्रतो दोषा इति वैराग्यपदार्थ उक्त्तः । अत एव हि सन्ध्याधिकरणे एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितमिति भाष्यकारः स्वयमेव वक्ष्यति । परैश्च यस्य पूर्वस्मिन् पादे जाग्रदवस्थायामिह लोकपरलोकसञ्चार उक्त्तः, तस्यैव जीवस्य अवस्थाभेदः स्वयंज्योतिस्स्वसिद्धयर्थं प्रपञ्च्यत इति तत्रैवाधिकरण उक्त्तम् । भाष्ये - स्वपत इति, स्वप्नावस्थस्य ग्रहणं सुषुप्तपदसमभिव्याहारेण गौबलीवर्दन्यायात् सुषुप्तस्येति भूतत्वमविवक्षितम्, अत्रावैरूप्याय सुस्वपत इति शत्रन्ततया निर्देशे कर्तव्ये निष्ठान्ततया निर्देशः, “तत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति, यदा सुषुप्तः स्वप्नं न कथञ्चन पश्यति’ इत्यादि श्रुतिनिर्देशाभिप्रायेणेति द्रष्टव्यम् । कल्यागुणकरत्वञ्चेति भाष्यानन्तरमितिशब्दः अध्याहर्त्तव्यः, सच प्रकारवचनः, ततश्च उभयलिङ्गत्वं सर्वस्मात्परत्वं फलप्रदत्वमित्येवंरूपोऽर्थः प्रतिपाद्यत इति, एवञ्च प्रतिपाद्यत इति एकवचनस्य बहुवचनान्तदोषशब्दानन्वयेऽपि नानुपपत्तिः । केचित्तु “आदिञिटुडवः’ कर्मणोरोमन्थतषोभ्यां वर्त्तिचरोः “दिवादिभ्यो भुव्यच्वे’रित्यादिवत् प्रत्येकमभिसम्बन्धादेकवचनम् समर्थयमानाः सर्वोत्तरत्वफलप्रदत्वयोरपि कल्याणगुणाकरत्वान्तर्भावं मन्यमाना इति शब्दाध्याहरं न ममृषिरे । ननु पूर्वद्विकार्थानुक्रमण एव निरस्तनिखिलदोषगन्धस्यापरिमितगुणसागरस्य प्रतिपादितत्वाभिधानात् परस्य ब्रह्मणः तद्रहितता कल्याणगुणाकरत्वं च प्रतिपाद्यत इति भाष्यमसङ्गतमिति चेत्, उभयलिङ्गपादस्य सद्दार्ढ्याथर्त्वेन वैयर्थ्याददोषः । ननु लोकान्तरे सञ्चरतो जीवस्य दोषाः प्रतिपाद्यन्त इति यदभाषि, तदभ्युपगम्यते प्रथमपादे तथा प्रतिपादनात्. तथाहि प्रथमे तावदधिकरणे संसारदुःखायतनस्य भूतेन्द्रियसङ्घातरूपस्य सूक्ष्मदेहस्य इह परत्र च गतागतयोरनुवृत्तिरस्तीति निरूप्यते, तत्रैव “भाक्त्तं वाऽनात्मवित्त्वा’दिति सूत्रेण देवभृत्यभावमवलम्ब्य तत्प्रयुक्त्तक्लेशकरं बितस्य स्वर्गभोगानुभवस्य प्रक्षीणत्वं सातिशयत्वञ्चाविष्कृतम्, द्वितीयाधिकरणे सूक्ष्मदेहस्यापि कारणतया सकलसंसारक्लेशनिदानस्य कर्मबन्धस्य मुक्त्तिपर्यन्तमनुवृत्तिर्निरूपयिष्यते । तत्रैव स्वर्गभोगस्य क्षयिष्णुत्वञ्च “कृतात्यये’ इति सूत्रभागेन दर्शयिष्यते, एवमनेकदोषदुष्टस्यापि स्वर्गभोगजनकं यागादिकमपि यावज्जीवकर्त्तव्यस्नानसन्ध्यावन्दनादिविहितानुष्ठाननिषिद्धपरिहाररूपबहुविधक्लेशसाध्यस्मार्त्ताचारसापेक्षत्वादिति दुष्करमिति “चरणा’दित्यादिसूत्रैः प्रकटीकरिष्यते; अनिष्टादिकारिणान्तु ग्रामं गच्छन्वृक्षमूलान्युपसर्पति इति न्यायेनापि स्वर्गप्राप्तिर्नास्ति, यमसदने रौरवादिषु च भूयान् यातनानुभवः कीटादिजन्मप्राप्तिश्च तृतीये वर्णयिष्यते, चतुर्थे स्वर्गादवरोहतां आकाशादिभावश्रवणात् तदभिमानिदेवतानामिव आकाशादिशरीरित्वप्रयुक्त्तः कियान् द्विभोगानुभवोऽस्तीति शङ्कावारणाय आकाशदिषु संश्लेषमात्रमिति वर्णयिष्यते । । पञ्चमे चिरमचिरं वाऽवस्थानमित्यनियमनिरासव्याजेन व्रीह्यादिषु सुखभोगरहितमतिचिरावस्थानं दृढीकरिष्यते, तेषु च अवस्थानं तत्तदभिमानिजीवात्मना चेत् तल्लवनपर्यन्तमेव स्यात् ततश्च नातिहेयत्वं सिध्द्येदिति अतिहेयत्वसिध्यै तेषु संष्लेषमात्रमिति वर्णयिष्यते, संश्लेषस्तेषां शोणषकुशूलावस्थापनावहन्नफलीकरणपाकभक्षणादिदशासु अनुवर्त्तमानः पितृवीयात्मना परिणामपर्यन्तः, पुरुषभक्षणविषयत्वं मनापन्नेषु व्रीह्यादिषु संश्लिष्टानामनुशयिनां तेषु संश्लेषस्तु व्रीह्यादिपरिणामान्तरपरम्पराक्रमेण यथाकथञ्चित्पुरुषभक्षणविषयत्वप्राप्त्यनन्तरं तेषां तद्वीर्यात्मना परिणामपर्यन्त इति “रेतः सिग्’ सूत्रे संसूचयिष्यते, तथा पुरुषवीर्यानुप्रवेशेऽपि योषितमप्राप्य तेषां न शरीरलाभः तद्वीर्यं यदि उर्ध्वरेतषां बन्ध्यादिषु प्रवर्त्तानां वा स्यात्, तदा तद्वीर्यपरिणामान्तरक्रमेण पुनरपि पुरुषभक्षणविषयत्वं प्राप्य तद्वीर्यसंषक्त्ततया रितुमतीनां योषितां गभर्गोलकप्रवेशानन्तरमेव क्कचिज्जन्मनि भोगाश्रयस्य भोगमोक्षोपयोगिनश्च शरीरस्य लाभः, तथा स उल्वावृते गर्भो दशा मासानन्तः शयित्वा यावद्वा अथ जायत इति मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गभर्स्य उल्वाशुचिपाटवृतस्य लोहितरेतोऽशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धबलशक्त्तिवीर्यतेजःप्रज्ञाचेष्टस्य शयनम्, ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निसृतिर्जन्मेति “योनेः शरीर’मिति सूचयिष्यते । अत एव तस्मात् जुगुष्सेतेति पञ्चप्रश्नीप्रतिवचनानन्तरं श्रूयते, ततश्च युक्त्तम् इहामुत्र च सञ्चरतो दोषाः प्रतिपाद्यन्त इति, जागराद्यवस्थस्य दोषाः प्रतिपाद्यन्त इत्येतत्तुन युज्यते, क्कापि तास्ववस्थासु दोशाप्रतिपादनात्, इहामुत्र च सञ्चरणं जागरावस्थस्यैवेति जागरावस्थदोषप्रतिपादनस्य वैराग्यपादे फलितत्वेऽपि स्वप्नाद्यवस्थस्य दोषप्रतिपादनपराधिकरणस्यादर्शनात्, सन्ध्ये सृष्टिराह हि’ इत्यधिकरणानां उभयलिङ्गपादगतानां अत्याश्चर्यस्वाप्नपदार्थस्त्रष्ट्रत्वसुषुप्तविश्रान्त्याधारत्वादिपरमात्ममहामहिमप्रतिपादनपरत्वेन स्वप्नाद्यवस्थादोषप्रतिपादनपरत्वाभावादित्याशङ्कां निराकरोति । लोकान्तरेष्वित्यादिना फलितमित्यन्तेन ग्रन्थेन - अयम्भावः, सन्ध्याद्यधिकरणेषु स्वप्नाद्यवस्थानिरूपणस्य “नाहमत्र भोग्यं पश्यापि नाहं खल्वयमेवं सम्प्रति आत्मनं जानाति अयमहमस्तीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ इति प्रजापतिविद्योदितदोषसंसूचकत्वात्, परामिध्यानात्तु तिरोहितम्’ परमात्ममहिमप्रतिपादनपरेभ्योऽप्याधिकरणेभ्यः स्वप्नाद्यवस्थस्य दोषाः फलन्तीति । प्रथमाधिकरणस्य संशयमाहेति -अवयवावयविभावे षष्ठी । किं श्रद्धादिशब्दैरिति - आदिशब्देन सोमवृष्टयादयो गृह्यन्ते । पितृयानेन पथा निवर्त्तने एष सोमो राजेति सोमशब्दस्येति - निवर्त्तनं सञ्चरणम्, अथैतमेवाध्वानं पुनर्निवर्तन्त इत्यारभ्यैव निवृत्तेः प्रतिपादयिष्यमाणत्वात्, यद्वा निवर्त्तन इति अपादाने ल्युट् ततश्च पितृयानेन पथा यस्मात् द्युलोकात् निवर्त्तते, तत्र विषये “एष सोमो राजे’ति सोमशब्दस्येत्यन्वयः, अयमर्थः “आकाशाच्छन्द्रमसम्’ एष सोमो राजा तद्देवानामन्नम् तं देवा भक्षयन्ति’ इति पितृयानवाक्यस्थसोमशब्दस्य यत्सोमदेहविशिष्टजीवपरत्वं तत् “तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुहति तस्या आहुतेः सोमो राजा सम्भवति’ इति पूर्वप्रवृत्तपञ्चाग्निविद्यावाक्यगतस्य सोमशब्दस्य सोमदेहविशिष्टपरतामवगमयति उतनेति । श्रद्धाहुत्यनन्तरवाक्यस्थ सोमशब्दस्येति - “श्रद्धां जुह्वति’ इति वाक्यानन्तरं यत्तंस्या आहुतेः सोमो राजा भवतीति वाक्यं तत्स्थस्येत्यर्थः । भाष्ये - भूतसूक्ष्माणां सुलभत्वादिति, भोग्यभोगोपकरणभोगस्थानवत् भोगायतनानामपि शरीराणां तत्रत्यैरेव भूतैरदृष्टाकृष्टै रारम्भसम्भवात् न तदर्थमितो भूतसूक्ष्मानयनापेक्षेति भावः । भाष्ये - रंहति गच्छतीत्यर्थः इति, रहि गताविति धातोः निष्पन्नत्वादितिभावः । ननु भूतसूक्ष्मपरिष्वङ्गपरप्रश्नप्रतिवचनमात्रस्यैव उपन्यसनीयतयाऽधिकोपन्यासासाङ्गत्यमित्याशङ्कयाह - प्रश्नप्रतिवचनाभ्यामित्यादिना । अत्र प्रश्नप्रतिवचनाभ्यामिति सूत्र्यते, नहि “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति भूतसूक्ष्मपरिष्वङ्गपरप्रश्नानन्तरं सम्परिष्वङ्गपरं प्रतिवचनं दृश्यते, “यामेव कुमारस्यान्ते वाचमभासथाः ताभेव मे बूहि’ इति गौतमकर्त्तृकप्रश्नान्तरेण व्यवधानात्’ इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्यस्य पाञ्चालराजकर्त्तृकप्रतिवचनस्य “वेत्थ यथा पञ्चम्यामाहुता’ विति पाञ्चालराजकर्त्तृकस्य गौत्तमप्रश्नव्यवहितप्रश्नस्योत्तरत्वासम्भवात्, एवं हि तत्र श्रूयते “श्वेतकेतुमारुणेयं पाञ्चालराजः प्रवाहणो, वेत्थ यदितोधिप्रजाः प्रयन्ति’ इति कर्मिणां गन्तव्यदेशं “वेत्थयथा पुनरावर्त्तन्ते’ इति पुनरावृत्तिप्रकारं “वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना’ इति यानयोः व्यावर्त्तकाकारौ “वेत्थ यथाऽसौ लोको न सम्पूर्यते’ इति अमुष्य लोकस्य अप्राप्तारं “वेत्थयथा पञ्चम्यामाहुवापः पुरुषवचसो भवन्ति’ इति पञ्चम्यामाहुतावषां पुरुषवचस्त्वञ्च पप्रच्छ । निवतर्यितुं तस्य हि प्रश्नस्य् “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति पाञ्चालराजप्रतिवचनमिति । इमांमन्दाशङ्क इतितु - “पञ्चम्यामाहुतावापः’ इत्यादिप्रतिवचनानां पाञ्चालाराजकर्तृकाणां पञ्चानां पाञ्चालराजकर्तृकप्रश्नपञ्चकाव्यवधानक्रमरूपतां दर्शयति इत्यर्थः । “यामेव कुमारस्यान्ते वाचमभाषथाः’ इति गौतमप्रश्नस्य पाञ्चालराजकर्तृकपञ्चप्रश्न्यभिन्नत्वेन तद्भिन्नत्वानुपपत्तेः, यद्ययं प्रश्नः भिन्नः स्यात् तदा एकमेव प्रतिवचनं स्यात्, अतः प्रतिवचनपञ्चकदशर्नात् पाञ्चालराजकर्तृकाणामेव पञ्चानां प्रश्नानामुत्तरमवसीयते, अत एव “यामेव कुमारस्यान्ते वाचमभाषथाः’ इति गौतमप्रश्नस्य पाञ्चालप्रश्नाभिन्नत्वात् प्रश्नप्रतिवचनयोरव्यवधानरूपक्रमः सिद्ध.। नत्वत्र पञ्चानां क्रमेण प्रश्नानां प्रतिवचनानि प्रथमस्य प्रथमं द्वितीयस्य द्वितीयम् इत्येवमितिन भ्रमितव्यम्, न ह्यत्र प्रश्नक्रमेण प्रतिवचनानि प्रवृत्तानि, अपि तु “वेत्थ यथा, पञ्चम्यामहुतौ’ इति स तावदिमान् प्रश्नात् प्रतिवक्त्तुमजानन् स्वापित्रे व्यवेदयत् । सीपिच अजानन् तमेव पाञ्चलारज पप्रच्छ । प्रश्नात्हि प्रथमतः प्रतिवचनं दृश्यते, न च प्रश्नप्रतिवचनानामानन्तर्य्यरूपः क्रमोभाष्ये न दर्शित इति चोदनीयम्, इममर्थं पप्रच्छ प्रतिब्रुवँश्चेति भाष्यग्रन्थेन तत्प्रश्नानां प्रतिवचनत्वख्यापनेन तदानन्तर्यस्य ख्यापनात् । होतव्यद्रव्याकाङ्क्षायामिति -यद्यप्यापां पुरुषवचस्त्वविशेषितभवनक्रियासम्बन्धमात्रं शाब्दं, तथापि आहुतीनां द्रव्याकाङ्क्षायां सन्निधानेनाप एव द्रव्यत्वेन सम्बध्यन्ते, ततश्च अपरं पञ्चम्य पञ्चमस्य प्रश्नस्य, ‘इति तु पञ्चम्या माहुतौ इति तासामेवापां पुरुषाकारेण परिणामं वेत्थ इति प्रश्नवाक्यार्थः पर्यवस्यति, न च अपां सन्निहतत्वेऽपि तत्सन्निधेः पुरुष वचस्त्वविशेषितभवनक्रियान्वयार्थतया अन्यार्थसन्निहिताभिरद्भिः आहुतीनान्न विशेषितत्वं सम्भवति, नह्यश्वेन गच्छति श्वेतेन पटेन प्रावृत इत्युक्त्ते पटार्थसन्निहितेन श्वेतेनाश्वोऽपि विशेष्यत इति वाच्यम् सत्यामाकाङ्क्षायामन्याथर्सन्निहितस्यापि अन्यविशेषकत्वसम्भवात्, “मूलतः शाखां परिवास्योपवेशं करोति’ इत्यत्र परिवसनापादानतयाऽन्वितस्य मूलत इत्यस्य उपवेष करोतीत्यनेन साकाङ्क्षेणाऽप्यन्विस्य प्रयुक्त्तिलक्षणे दर्शितत्वादिति भावः - वाक्यान्तरस्थेति । ननु वाक्यान्तरस्थत्वेऽपि प्रयमेऽग्नौ श्रुतां श्रद्धां परित्यज्य स्ववाक्यस्थत्वरूपसन्निधिकात्रमवलम्व्य अपो होम्यत्वेन परिकल्प्यन्त इत्येतत्कथमिति चेत्, असञ्जातविरोध्युपक्रमगतप्रश्नवाक्ये एवापां होम्यत्वस्य निर्णयात्, उपसंहारे “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्यत्रापि तथैव प्रतीतेः, वाक्यान्तरस्था श्रद्धा प्रश्नप्रतिवचनवाक्यमध्यस्था, अन्तरशब्दो मध्यवचनः, मध्येऽपि तत्प्रकार एव उपपादित इति ग्रन्थकृतैव प्रथमे श्रवणादित्यत्र वक्ष्यमाणत्वात्, ततश्च सन्दंशन्यायेनोपक्रमाधिकरणन्यायेन च तदनुगुणतयैवात्मानं लभते न तद्विरोधेनेत्यदोषः । परिणामस्यायोग्येति - इदमुपलक्षणम् । आत्मधतर्मभूतायाः श्रद्धायामः आत्मतो निष्कृष्यहोमासम्भवाच्चेत्यपि द्रष्टव्यम्, एतत्सर्वं “प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते’रिति सूत्राभिप्रेतम् तत्रैवोपन्यसनीमय् प्रतिपत्तिसौकर्याया नागतवेक्षणन्यायेन इहोपात्तमिति द्रष्टव्यम् प्रश्नप्रतिवचनाभ्यामिति प्रश्नयोः निरुपणे प्रश्ननिरुपणे ताभ्यां इति व्याख्यातव्यम् विग्रहो विवक्षित इति भावः ॥॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ शङ्काग्रन्थस्थपरिष्वङ्गब्देनेति । अस्य पूवर्ेणान्वयः, कथं परिष्वङ्ग इति शङ्कायामाह - त्र्यात्मकत्वादिति । भाष्यग्रन्थेन त्र्यातामकत्वात् परिष्वङ्ग इत्यन्वयो दर्शित इति भावः ॥प्राणगतेश्च (3-2-1) ॥ अवान्तरसाध्यान्वयव्यावृत्त्यर्थमिति - भूयस्त्वादिति हेत्वंशस्य यत्साध्यं केवलानामषां श्रवणमुपपद्यत इति तदन्वयव्यावृत्त्यर्थमित्यर्थः ॥शास्त्रस्य व्युत्पत्तिग्रहादिकार्यान्तरसापेक्षत्वादन्यापेक्षत्वं न सम्भवतीत्याशङ्कय व्याचष्टे - प्रमाणान्तरानपेक्षस्येति । प्रमित्यन्तरनैरपेक्ष्यमिति - समानविषयप्रमित्यन्तरनैरपेक्ष्यमित्यर्थः । प्रमाणव्यवस्थापनमिति - नीलं नभ इति चाक्षुषत्वं न स्यात् । ज्ञानस्य नीरूपाकाशविषयत्वं ?missing text वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्, तदपेक्षा च सर्वेषां प्रमाणानां समाना; शास्त्रस्य तु विशेषेण आकाङ्क्षासन्निधियोग्यताज्ञानाधीनप्रमाणभावस्य सर्वत्रैव तर्कानुग्रहापेक्षा; उक्त्तञ्च मनुना यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इति । तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च मन्तव्यः’ इत्युच्यते । अथोच्येतश्रुत्या च जगतो ब्रह्मैककारणत्वे निश्चिते सति तत्कार्यस्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते । यथा चेतनस्य सुषुप्तिमूर्च्छादिषु चैतन्यानुपलम्भः, तथा घटादिष्वपि सदेव चैतन्यमनुद्भूतम्; अत एव चेतनाचेतनविभाग इति । नैतदुपपद्यते; यतो नित्यानुपलब्धिरसद्भावमेव साधयति, अत एव चैतन्यशक्त्तियोगोऽपि तेषु निरस्तः । यस्य हि क्वचित्कदाचिदपि यत्कार्यानुपलब्धिः, तस्य तत्कार्यशक्त्तिं ब्रुवाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्त्तिं ब्रूताम् । किञ्च वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्त्तेश्चैतन्यस्य वाऽनुभूतस्य सद्भावनिश्चयः, तन्निश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम्, विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव न शक्यते । किं पुनः प्रकृतिविकारयोः सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानताप्रतिपादनासम्भवं ब्रूषे । नास्ति, अपि तु मेघादिविषयत्वमितिव्यवस्थापनमित्यर्थः । श्रेयस्करत्वप्रमितिजनकेति - विशेषरूपत्वेन शीघ्रप्रवृत्ते ष्टसाधनताप्रमितिसामग्रयवरुद्धवैधहिंसायां बलवदनिष्टसाधनताज्ञानसामग्रीनां शंभत इत्येवं सामग्रीविवेचनमित्यर्थः । अर्थस्वभावसामग्रीस्वभावनिरूपणयोर्व्यवस्थितविषयत्वमुक्त्ता एकैकस्मिन्विषये द्वयोरपि पर्यायेण वृत्तिस्सम्भवतीत्याह वद्वार्थस्वभावविषयनिरूपणं नामेति । स्वप्नमूर्च्छादिष्वनुपलभ्यमान चैतन्यसत्तयावैशेषिकादिभिरनभ्युपेतत्वात्कथं प्रतिबन्दीकरणमित्याशङ्कयाह - वेदान्तिभिनिर्त्यस्येति । वेदान्तप्रामाण्यमभ्युपगच्छतेति साङ्खयेन वेदान्तप्रामाण्यस्याभ्युपेतत्वाज्जगतो वेदान्तप्रतीतब्रह्मोपादानकत्वसिध्द्यर्थं चैतन्ययोगोऽङ्गीकार्य इत्याशङ्कयाहेत्यर्थः । द्रव्यत्वावान्तरजातिविशेषस्सालक्षण्यमितीति - द्रव्यत्वसाक्षाद्य्वाप्यजात्या उपादानोपादेययोस्सालक्षण्यं विवक्षितमित्यर्थः । ततश्च पिण्डत्वकपालत्वरुचकत्वस्वस्तिकत्वादिना सालक्षण्याभावेपि न दोष इति ध्येयम् । तच्चात्र चेतनत्वमिति आत्मत्वस्य द्रव्यत्वसाक्षाद्य्वाप्यजातित्वादिति भावः । ॥ अग्न्यादिगतिश्रुतेरितिचेन्नभाक्त्तत्वात् (3-1-4) ॥ ओषधिवनस्पतिषु चाप्ययरहितैरिति - मृतस्य लोभ्नां केशानाञ्च उत्प्लुत्योत्प्लुत्य ओषधिवनस्पतिषु अप्ययादर्शनादिति भावः । लोमाभिमानि देवता इति - “अग्निर्वाग्भूत्वा मुखं प्रविशत्, वायुः प्राणो भूत्वा नासिके प्राविशत्, आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत्, दिशः श्रोत्रं भूत्वा कर्णौ प्राविशत्’ ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशत्’ इत्यादिवाक्यपर्यालोचनया ओषध्यभिमानिदेवतानां लोमाभिमानिदेवतानां च ऐक्यं सिद्धम्, ततश्च “ओषधिर्लोमानि वनस्पतीन् केशा’ इति वृहदारण्यकवाक्यस्यापि लोमाभिमानिदेवतासु अप्ययो नाम तदभिमन्तृत्वरूपतन्नियन्तृत्वपरित्याग इत्यर्थः समाश्रयणीयः, एवं वागादिष्वपि उपपद्यत इति भावः । ननु अग्न्यादीनां मरणकाले वागाद्यभिमानित्वपरित्यागे प्राणानामुत्क्रान्तिगतिचन्द्रसम्वादादिकार्याण्यपि न सिध्द्यन्ति, ततश्च प्राणगतेश्चेति सूत्रासामञ्जस्यं परिहरता प्रकारान्तरेण सूत्रासामञ्जस्यमेव दृढीकृतं स्यात्, ततश्च वागादीन्द्रियाणां भ्रियमाणानुपकारकत्वेनासत्कल्पत्वेनापीतसादृश्यात् वागादिरपीत इत्युच्यत इत्युपचाराश्रयणमेव ज्याय इति चेत् म्रियमाणजीवं प्रति वागादीनामुपकारविशेषापादकत्वानुकूलाभिमानविशेषपरित्यागस्यैव विवक्षितत्वात्, न च भाक्त्तत्वाश्रयणेऽविशिष्टे असत्कल्पत्वेनापीतसादृश्यात् भाक्त्तत्वमिति परोक्तं किं नाश्रियत इति वाच्यम्, शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य सिद्धतया वागादिशब्दानां तद्देवतापरस्वस्य सम्भवात् तत्राप्ययश्रुतेरभिमानविशेषमात्रपरित्यागमात्रेण कथञ्चिदुपपत्तिरस्तीति तदपेक्षया ज्यायस्त्वमिति भाष्यकाराभिप्रायः॥is not available.॥अश्रुतत्वादितिचेन्न इष्टादिकारिणां प्रतीते ॥ नन्वस्मिन्नेव वाक्य इति भाष्यमयुक्त्तम्, पितृयाणवाक्य एवेष्टादिकारिणां सोमराजभावः श्रूयते, नास्मिन् पञ्चाग्निविद्यावाक्य इत्य; अत आह - महावाक्य इत्यर्थः इति । भाष्ये - सोमराजान इति निर्द्देशस्समासान्तविधेरनित्यत्वात्, तस्य च “प्रतेरंश्चादयस्तत्पुरुष’ इत्यादिषु राजाशब्दपाठेन ज्ञापनात्, सोमाराजान इति वासोमराजा इति वा पाठः समीचीनः । उक्त्तप्रकारेणानुतिष्ठन्तीति - श्रुतावितिशब्दः प्रकारवचनः. ततश्च इष्टं- पूर्त्तं दत्तं- अनशनम् एवं जातीयकानि कर्माणि सुकृतशब्दवाच्यानियेऽनुतिष्ठन्तीत्यर्थः, उक्त्तप्रकारेणेत्यस्यापि स एवार्थः, पूर्वश्रुतावनुष्ठानप्रकारस्यानुक्त्तेः तद्योगी भवतीत्यर्थ इति, इदन्तु रेतः सिग्- सूत्रे ग्रन्थकृतैव स्पष्टयिष्यते । उभयत्र सोमराजशब्देनेति - इदमुपलक्षणम्, द्युलोकस्थानसम्बन्धित्वेनेत्यपि द्रष्टव्यम् ॥6॥तत्सेवकत्वादिति - नृत्तगीतादिना तत्सेवकत्वादित्यर्थः । परे त्वित्यादि - द्रवद्रव्यभूयस्त्वादिति पूर्वेणान्वयः, अग्निहोत्रादिकर्मणां द्रवद्रव्यसाधनकतया तत्कर्मसम्बन्धिषु दधिपयःप्रभृतिषु हविष्षु भूयसीनामुपलम्भात् ता एवाप इहाप्शब्देन अभिधीयन्त इति भावः, ते वा एते आहुती, अग्निहोत्राहुती, इमामिति पृथिवीमित्यर्थः । अपूर्वरूपेणेति - कर्मसमवायिन्य आहुतीमत्य आप अपूर्वरूपास्सत्यः तानिष्टादिकारिणो जीवान् परिवेष्टययामुं लोकं फलदानाय नयन्तीतिशाङ्करभाष्योक्तेरिति भावः । जीवान् परिष्वजत इति पाठः पटैकदेश इति । यथा पटैकदेशे दग्धेपटो दग्ध इति व्यवहारः अमुख्यः, तथा “ते वा एते आहुती’ इत्यत्र आहुतिशब्दस्य आहुत्येकदेशे प्रयोगोऽमुख्यः स्यादित्यर्थः । पूर्वपक्षपराणि व्याख्यातानीति - पूर्वपक्षसूत्रितया व्याख्यातानीत्यर्थः, ननु द्युपृथिवीपुरुषयोषिद्रूपाणां प्रत्यभिज्ञापकानां पञ्चाग्निविद्यायां भूयसां सत्वेन षट्प्रश्नप्रमाणप्रत्यभिज्ञानमस्त्येव, किञ्चित् न्यूनातिरेकवशेन प्रत्यभिज्ञाभङ्गे अर्चिरादिना तत्प्रथितेः’ पुरुषवचस्त्वपर्य्यन्तावस्थाविशेषस्यापि नानुपपत्तिः, “तं देवा भक्षयन्ति’ इति श्रुतस्य सोमाकारपरिणामदेहगतदेवभक्ष्यत्वस्य जीवे “एतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति न्यायेन तृप्तिहेतुभूतदर्शनकर्मत्वरूपतया सिद्धान्तिनोऽपि सम्मतत्वेन देवतातृप्तिहेतुत्वस्य वृष्टयन्नादिपरिणामाविरोधित्वादित्यस्वरसादाह - भवतु वा विभाग आहुतीनामिति । यथा स्वप्शब्द एवेति श्रप्शब्दस्य पुरुषशब्दसामानाधिकरण्यनिर्वाहाय लक्षणयापि समाश्रयणीयस्य जीवपरत्वस्यान्यतरेणैव लक्षणां मुख्यया वृत्त्या सिद्धौ कस्तत्परित्यजेदिति भावः । चन्द्रप्राप्तिदशायामिति - एष इत्येतच्छब्दस्य “आकाशाच्चन्द्रमसमभिसम्भवन्ति’ इति पूर्वनिर्दिष्ट चन्द्राभिसम्भवनविशिष्टजीवपरामर्शित्वात् चन्द्रप्राप्त्यनन्तरं सोमराजत्वे सिद्धे तत्प्रत्यभिज्ञानात् पञ्चाग्निविद्यायामपि सोमभाव स्य चन्द्रप्राप्त्यनन्तरभावित्वं सिध्द्यतीति भावः । एष इति सर्वनामपदेनेति - प्रथमान्तसर्वनामपदेनेत्यर्थः, विभक्त्तिसारूप्येन प्रथमान्तनिर्दिष्टस्यैव प्राप्तुः जीवस्य परामर्शो युक्त्तः “प्रजापतिर्वरुणायाश्वमनयत् सस्वां देवतामार्च्छत्’ इत्यत्र स इति प्रथमान्तपदेन न चतुथ्यर्न्तनिर्द्दिष्टस्य प्रतिगृहीतुर्वरुणस्य ग्रहणम्, अपि तु समानविभक्त्तिनिर्दिष्टस्य प्रजापतेः ग्रहणमिति “तस्यैवारुणान्चतुष्कपालान् निर्वषेत्’ इति विहितेष्टिरिति पूर्वतन्त्रे स्थितत्वादिति भावः, न च विभकत्यैकरूप्येण प्रथमान्तनिर्दिष्टस्य ग्रहणे “स उत्तमः पुरुषः’ इत्यत्रापि स इति तच्छब्देन “एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति पूर्ववाक्ये प्रथमान्तसम्प्रसादशब्दनिर्दिष्टस्य जीवस्यैव ग्रहणं स्यात् , न तु परं ज्योतिरुपसम्पद्येति द्वितीयान्तपदनिर्दिष्टस्य परस्य ब्रह्मण इति चेत्- न, प्रथमान्तनिर्दिष्टस्य जीवस्य स इत्यनेन ग्रहणे तस्योत्तमपुरुष इति प्रतिपाद्यमानपुरुषोत्तमत्वस्य जीवे बाधितत्वेन तत्र विभकत्यैकरूप्यावगतसम्प्रसादशब्द वाच्य जीवपरित्यागोपि असति बाधके विभकत्यैकरूपस्य नियामकत्वसम्भवात् । विभक्त्तिमात्रस्येति - वचनमात्रस्येत्यर्थः, एवमुत्तरत्रापि विभक्त्तिशब्दो वचनपरो द्रष्टव्यः, विभकत्यर्थक्लेशस्याप्रसक्त्तेः, ततश्च बहुपत्नीकप्रयोगेऽपि “पत्नीं सन्नह्य’ इत्येकवचनवत् वाक्यस्य प्रातिपदिकस्य च गुणभूतं वचनं प्रत्येकमेकत्वाभिप्रायेण वा जात्यभिप्रायेण वा योजनीमय्, अभ्युदितेष्टौ “यस्य हविर्निरुक्त्तं पुरस्ताच्चन्द्रमा अभ्युदियात् स त्रेधा तण्डुलान् विभजेत्’ इत्यत्र तण्डुलानां त्रेधा विभागो न विधीयते, ये मध्यमाः स्युरित्यादिवाक्यैरेव मध्यमादिविभागस्य सिद्धत्वेन वाक्यवैयर्थ्यप्रसङ्गात्, तण्डुलशब्देन दार्शिकहविर्लक्षयित्वा तस्य पूर्वदेवतापनयो विधीयते इत्येवं वाक्यावैयर्थ्याय वाक्यान्तर्गतबहुपदास्वारस्याश्रयणे न्यायसिद्धे वाक्यावैयर्थ्याय वचनमात्रास्वारस्याश्रयणं कैमुत्यसिद्धमिति भावः । विभकत्यर्थनिर्बन्धाभावदर्शनादिति - एकवचनान्तनिर्दिष्टस्य एकवचनान्तेनैव निर्देशः, बहुवचनान्तशब्दनिर्दिष्टस्य बहुवचनान्तेनैव निर्देशः इति नियमाभाव इत्यर्थः । ननु पञ्चाग्निविद्यायामपीति - अयं भावः- पञ्चाग्नि विद्यायां सोमराजशब्दस्य चन्द्रेतरविषयत्वे सिद्धे तत्प्रत्यभिज्ञापनेन प्रयोजनवत्तया एष सोमो राजा’ इति पितृयाणवाक्ये एतच्छब्दस्य प्राप्तविषयत्वं स्यात्, पञ्चाग्निविद्यावाक्यथसोमराजशब्दस्यापि चन्दविषयत्वे एष सोमो राजा’ इत्यस्यापि प्राप्तृपरत्वेऽपि निष्प्रयोजनत्वाविशेषात् एकवचनस्वारस्येन स्यादिति । अस्यसोमराजशब्दस्येति - पञ्चाग्निविद्यावाक्यस्थसोमराजशब्दस्येत्यर्थः । चन्द्रव्यतिरिक्त्तविषयताज्ञानमात्रमिति - तस्यचन्द्रविषयत्वनिश्चयेऽपि पितृयाणवाक्ये “एष सोमः’ इति इष्टादिकारिणं निर्दिश्य पञ्चाग्निविद्यावाक्यप्रतिपन्नचन्द्राभेदबोधनासम्भवात्, ननु तावता चन्द्रविषयतेवनिश्चयाभावस्य प्रतिबन्धकाभावत्वेन अपेक्षितत्वेऽपि चन्द्रव्यतिरिक्त्तविषयत्वनिश्चयोनापेक्षित इति चेत् सत्यम्, “चन्द्रव्यतिरिक्त्तविषयत्वनिश्चयसामग्रीभूतसम्भवहोम्यत्वानुपपत्तेः सत्वात् इह तथोक्तमिति द्रष्टव्यम् । सम्भवहोम्यत्वानुपपत्त्येति - सोमराजा सम्भवति सोमं राजानं जुह्वतीति प्रतिपादितसम्भवहोम्यत्वयोरनुपपत्तेरित्यर्थः । एतावञ्ज्ञापनेनेति - ननु चन्द्रप्राप्तिदशायां श्रद्धाहुतिसम्भूतसोमराजभावज्ञापनं “एष सोमो राजा’ इति वाक्यस्य प्रयोजनम्, एष इत्यनेनापि सम्भवतीति लटा वर्त्तमानाभिसम्भवविशिष्टः चन्द्रं प्राप्नुवन् जीवः कथ्यते, “सोमो राजा’ इत्यनेन तु “तस्या आहुतेः सोमो राजा सम्भवति’ इति पञ्चाग्निवाक्यात् प्रतिपन्नश्रद्धाहुतेरुत्पाद्यमानः सोमो राजा विधीयते; ततश्च तयोरभेदबोधने चन्द्रप्राप्तिसोमराजभावयोरेककालत्वप्रतीतेः चन्द्रप्राप्तिदशायां सोमराजभावस्सिध्यतीत्येवं क्लेशेनोपपादनीयस्य चन्द्रप्राप्तिदशायां सोमराजभावस्य प्रयोजनत्वं किमित्याश्रीयते, एष इति निर्दिष्टस्य प्राप्तुः सोमराजेति पञ्चाग्निविद्यावाक्यस्थसोमराजाभेदबोधनेन सिध्यतः पञ्चाग्निविद्यावाक्यगतसोमराजशब्देष्टादिकारिविषयित्वस्येव प्रयोजनत्वोपपत्तेरिति चेत् सत्यम्, प्रयेजनान्तरस्य सम्भवतः त्यागायागात् तदप्युपन्यस्तम्, ननु एष सोमराजेति इष्टादिकारिणि प्रयुज्यमानस्य सोमराजशब्दस्य पञ्चाग्निविद्यावाक्यस्थसोमराजशब्दस्य गौणार्थीभूतश्रद्धाहुतिसम्भूतामृतदेहाभेदबोधकत्वं न युज्यते, अतः तस्मिन्तच्छब्दस्य प्रयुज्यमानस्य तच्छब्दस्य तत्सादृश्यबोधकत्वमेव, न तु तत्सदृशगौणार्थाभेदबोधकत्वमित्यस्वरसादाह - अथवेति । चन्द्रसादृश्यज्ञानमेवेति - “तद्देवानामन्न’मिति वाक्यशेषे तस्यैव विवरणदर्शनात्, देवानामन्नं, देवनामुपभोग्यमित्यर्थः । न च तत्सादृश्यप्रतिपादनं फलमिति वाच्यम्, तस्य तं देवा भक्षयन्तीति देवोपभोग्यत्वरूपभयत्वप्रतिपादनेनार्थवत्त्वात्, न चास्मिन्पक्षे पञ्चाग्निविद्यावाक्यगतसोमराजाभेदबोधनाभावात् तद्गतसोमराजशब्दस्य इष्टादिकारिविषयत्वासिद्धेः “अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते’रिति सूत्रविरोधः, पञ्चाग्निविद्यायां “आपः पुरुषवचसो भवन्ती’ति चेतनवाचिपुरुषशब्दसामानाधिकरणेन सिध्युपपत्तेः गौणचन्द्रपदप्रयोगविषयत्वद्युलोकसम्बन्धित्वकृततदैक्यप्रत्यभिज्ञानस्यानुनिष्पादिनः प्रत्याख्यातुमशक्यत्वादिति भावः । तेषां न सोमराजशब्दाभिलप्यत्वमिति - किमिष्टादिकारिणां सोमराजशब्दगौणार्थत्वं निषिध्यते, उत मुख्यार्थत्वमिति विकल्प्य आद्यं दूषयति । छान्दोग्यस्थस्य सोमराजशब्दस्येति - यथा श्येनेनाभिचरन् यजेत्- इत्यत्र श्येनशब्दस्य कथं नाम यागे प्रवृत्तिः स्यादित्येवमर्थं यथा वैश्येन, इत्यादिवाक्यं प्रवर्तते तद्वदिति भावः । द्वितीयमिष्टापत्त्या दूषयति - न हि वृत्यन्तर इति ॥ ॥ इति तदन्तरप्रतिपत्त्यधिकरणम् ॥