33 संज्ञामूर्तिकॢप्त्यधिकरणम्

देवानामपीति - जीवदृष्टान्तेनेति शेषः, देवानां जीवदृष्टान्तेन परायत्तप्रवृत्तित्वनिर्णयेनापि जीवानां परायत्तकर्तृत्वं स्थिरं भवतीति मत्वा तदेव दृष्टान्ततया स्मारितमित्यर्थः, दृष्टान्ततया सूचनस्य सम्प्रतिपत्तिसूचनार्थत्वात् । पीटकेसङ्गतिरिति - पेटिकया सङ्गतिरित्यर्थः । न तु पेटिकयोः सङ्गतिरिति, संज्ञामूर्त्त्यधिकरणस्य एकत्वेन पेटिकात्वासम्भवात् । त्रयो हेतव इति पाठकगात् अण्डान्तर्वर्त्तिन्निवृत्करणप्रदर्शनत्रिवृत्करणश्रुतय इत्यर्थः । भाष्ये- प्रविशतिर्लाक्षणिकस्स्यादिति, प्रवेश्येत्येवं णिजर्थलक्षणा स्यादित्यथः । भाष्ये- जीवसमष्टिविशिष्टेनात्मनेति, जीवसमष्टिविशिष्टेन स्वरूपेणेत्यर्थः । मृदात्मको घट इत्यादौ आत्मशब्दस्य स्वरूपपरत्वदर्शनात्, ततश्च व्यपदेशिवद्भावेन स्वरूपस्य भिन्नतया व्याकरवाणीत्यनेन स्वरूपस्यानभिधानात् तृतीयोपपद्यत, नन्वेवं जीवशब्दस्य जीवमात्रपरत्वमाश्रित्य आत्मशब्दस्य शरीरपरत्वं किन्न स्यादिति चेन्न, तदा कत्वाप्रत्ययास्वारस्यात्, नन्वेवमपि जीवशरीकेण मयेति आत्मशब्दस्य प्रत्यगर्थपरत्वं किन्न स्यादिति चेन्न, तदा व्याकरणकत्तर्रीति ज्ञाविहिते अनभिहिताधिकारविहिततृतीयानुपपत्तेः, ननु व्याकरणकर्त्तुरभिधानेऽपि प्रवेशकर्त्तुरनभिधानात् तृतीयोपपद्यते, अनभिहित इति पर्य्युदासपक्षाश्रयणात्, अत एव अनभिहितसूत्रे द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभकत्यभावसङ्ग इति वार्त्तिकेन प्रासादाख्यकं तच्चान्यरेणास्तिप्रत्ययेन घञाभिहितं, प्रसीदन्त्यस्मिन्निति प्रासादः, तत्राभिहिते कारके न भवतीत्युच्यमाने सप्तमी न स्यादिति प्रतिषेधपक्षाश्रयणेन शङ्कामुत्थाप्य नचान्यतरेण अनभिधानादिति असिक्रियाधिकरणशुक्त्तेरुपरितनप्रत्ययेन यदभिधानं तदाश्रया च सप्तमी भविष्यतीति नायं दोषः प्रसज्यत इति पर्युदासाश्रयणेन परिहारो वर्णित इति चेत्, एवं तर्हि अहं भुकत्वाव्रजामीति प्रयोगस्थले मया भुकत्वा व्रजामीति प्रयोगप्रसङ्गः, तथा पकत्वाभुज्यत ओदन इत्यत्र भुजिप्रत्ययेनाभिहितेष्योदने कत्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीयाप्रसङ्गः, तदयमत्र वैयाकरणनिष्कर्षः । अहं भुकत्वा व्रजानीत्यत्र अहमर्थस्य युगपदुभाभ्यां भोगनव्रजनक्रियाभ्यामपि न शाब्दोऽन्वयः । किं तर्हि व्रजनक्रिययैव प्राधान्यात्,आर्थस्तु भोजनक्रियायामन्वयः, अतः शब्दव्यापारापेक्षायां अभिधानमेव नत्वनभिदानमपीति, नाहंशब्दात् तृतीया प्राप्नोति तथा पकत्वौदनो भुज्यत इत्यत्रापि ओदनस्य भुजिनैव शाब्दोन्वयः, सन्निधा नात्तु वचनान्वयः, केवलशब्दव्यापारनिरूपणे तु किमिष्टकाःपकत्वौदनो भुज्यते उत ओदनमेवेति द्वितीया न भविष्यति, प्रासादआस्त इत्यत्र तु प्रासादस्य प्रसादनासनक्रियाभ्यां शाब्द एवान्वयः, पदार्थदशायां घञ्प्रातिपादिकेन प्रसादाधिकरणतयान्वितस्यैव हि प्रासादद्रव्यस्य वाक्यार्थदशायां असनक्रियाधिकरणत्वेनाप्यन्वयः, अतः तत्र शब्दव्यापारापेक्षयैव अनभिहितासनक्रियाधिकरणशकत्याश्रयत्वमपि प्रासादस्यास्तीति तत्र सप्तम्युपपत्तिरिति, कैय्यटस्तु, स्वाभिप्रवीणमाश्रित्य कत्वाप्रत्ययस्य भावार्थत्वात् पकत्वौदनं भुङ्क्त्ते देवदत्तः, पकत्वौदनं भुज्यते देवदत्तेनेतिकत्वाप्रत्ययेन कर्तृकरणयोरभिधानात् द्वितीयातृतीये कुतो नेत्याशङ्कयाख्यातादिपदवाच्यक्रियाविशेष्यत्वात्प्रधानम्, इतरा तु विशेषणत्वादप्रधानम्, तत्क्रियासाधनयोरपि शकत्योः तद्द्वारको गुणप्रधानभावः, तत्र प्रधानशकत्यभिधाने गुणक्रियाशक्त्तिरभिहितवत् प्रकाशते, प्राधानानुरोधित्वात्ल गुणानां प्रधानमुखप्रेक्षित्वात् पृथक् तद्विरुद्धस्वकार्यारम्भाभावादिति समादधे, एवं सति उभाभ्यामपि शाब्दे युगपदन्वयेऽपि न दोषः, इत्यलं विस्तरेण, तस्मेदनेन जीवेनेत्यस्य न मयेत्यर्थः, अपि तु स्वरूपेणेत्यर्थः, तथा च व्यपदेशिवद्भावेन भेदात्तस्य च करणत्वात्तृतीयोपपत्तिः, अत एव वेदान्ताचार्यैरधिकरणसारावल्यां तेनेशस्तद्विशिष्टस्वकरणतयाऽनुप्रवेशेऽपि कतर्ा’ इति करणत्वमुक्त्तम् ॥17॥भाष्ये - अन्नमशितं त्रेधा विधीयत इत्यत्र इत्यादि, एवं छान्दोग्ये श्रूयते, अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो भागः तत्पुरीषम्, वो मध्यमस्तन्मांसं योऽणिष्ठः तन्मनः, आपः पीताः त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुः तन्मूत्रं भवति, यो मध्यमः तल्लोहितं भवति, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्टो धातुः तदस्थि भवति । यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् । अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वागिति । कारणानुविधायित्वेनेत्यादि त्रिवृत्करणेन पृथिव्यप्तेजांसि कार्यकारणभावमापन्नानि स्थूूलाण्यणीयांसि, अतः त्रिवृत्कृतेष्वपि तत्तस्भूतांशानां स्वकारणानुगुण्येन स्थूलत्वाणुत्वाणीयस्त्वानि स्युः, तस्मात् “अन्नमशित’ मित्यादि वाक्यं त्रिवृत्करणप्रदर्शनपरञ्चेत् स्थविष्ठं पुरुषं पार्थिवम् अणु मांसमाप्यम् अणीयो मनश्च तेजसमापद्येत, तथा द्वितीयपर्य्याये” सूत्रं पार्थिवं लोहितमाप्यं प्राणः तैजस इति स्यात्, तृतीये पर्य्याये अस्थि पार्थिवमाप्यं मज्जा तैजसी वागिति स्यात्, ततश्च “यदन्नमशितं त्रेधा विधीयते’ इति पुरीषमांसमनसां पार्थिवत्वमुक्त्तम्, यच्चापः पीताः त्रेधा विधीयन्ते’ इति सूत्रशोणितप्राणानामाप्यत्वमुक्त्तम्, यच्च विदीयत इति अस्थिमज्जावचसां तेजस्त्वमुक्त्तम्. पुनश्च अन्नमयं हि सोम्य मनः आपोमयः प्राणः इति यन्मनः प्राणयोः पार्थिवत्वाप्यत्वमुक्त्तम्; तत्सर्वं विरुध्येत, अतो नात्र त्रिवृत्करणप्रकाण उपदिश्यते, यत्तु अण्डान्तर्वर्त्तिषु अग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं तत्सम्बोध्यस्य श्वेतकेतोः बुद्धिसम्वादार्थम्, न तु तत्रैव त्रिवृत्करणमिदं प्रथमतया प्रवृत्तमिति बोधनार्थमिति, ननु सिद्धान्ते बिम्बप्रतिबिम्बभावयोरैक्यात् कथं तद्विरुद्धमुच्यत इत्यस्वरसादाह - छायया आदर्श इति ।तृतीयसूत्रेण अनुपपत्तिविशेषपरिहारायेति - इदमन्नम् इमा आपः- इदं तेजः- इति विशेषव्यपदेशहेतुम् उत्तरसूत्रेण कीत्तियिष्यन्तदुपयुक्त्ततया “अन्नमशितं त्रेधा विधीयते’ इति श्रुति प्रतिपन्नमेवार्थं “मांसादिभौम’मिति सूत्रेण कीर्तयतीत्यर्थः, वाचस्पत्युक्त्तिमाह - मनस आहङ्कारिकत्वनित्यत्वयोरिति । इदमुपलक्षणं वाचोऽपि द्रष्टव्यम् । साङ्खययोः वाङ्मनसो द्वयोरपि आहङ्कारिकत्वत्वस्याविदानात्, वाचस्पतिपक्षे च सूत्रस्यायमर्थः, मांसादि भौममित्येतत् दृष्टन्तार्थं यथा मांसादिभौमं भवति, एवं वाङ्मनसी अपि तैजसभौमे इति ॥19॥ ॥ संज्ञामूर्तिकलृप्त्यधिकरणं समाप्तम् ॥ इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचिताया श्रुतिप्रकाशिका व्याख्यायां भावप्रकाशिकायां द्वितीयस्याध्यायस्य चतुर्थ पादः ॥ समुदिताधिकरणसङ्ख्या -68- समुदितसूत्रसङ्ख्या - 287 ॥