31 ज्योतिराद्यधिष्ठानाधिकरणम्

जीवस्याऽप्याराध्यत्वादिति - आदित्यादीनां चक्षुराद्यधिष्ठातृणां परमात्मदत्तैश्वर्य्याणाम् ईश्वरवदाराध्यत्वपलप्रदत्वसत्त्वेन स्वातन्त्र्यमप्यस्तु, कर्तृत्वस्य परायत्तताश्रुतेः मनुष्यादिविषयत्वेन सङ्कोचसम्भवेन स्वातन्त्र्यश्रुतेः वावनायोगादिति भावः । जीवस्योपादानं दृष्टान्ततयेति मन्तव्यमिति । नन्वग्न्यादीनामपि जीवरूपतया “परात्तु त्तच्छ्रुतेः’ इत्यस्य विषयतया सिद्धत्वात् प्राणवतो दृष्टान्तत्वमग्न्यादीनां दार्ष्टान्तिकत्वमिति व्यवस्था कथं सिद्धयति इति चेत्- सत्यम्, अग्न्यादीनां महामहिमशालिनां परमात्मायत्तकर्तृत्वमनपेक्षितमितिशङ्कायामग्न्यादिविषयसम्भवादिति भावः । केचित्तु- वस्तुतस्तु इदं तस्यैव स्मरणार्थम् अत एव संज्ञामूर्त्त्यधिकरणभाष्ये स्थिरीकरणाय स्मारितमित्याहुः ॥13॥भाष्ये परमात्माधिष्ठितत्वस्य नित्यत्वादिति, पूर्वसूत्रे तदामबननात्, भवतीति यद्भवनं प्रतीतं तदेव परमाधििेठतत्वं तस्येति तच्छब्देन परामृश्यत इति भावः । ॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥