न तथास्य वाक्यस्य निर्वाह इति - यद्यपि “य एवमेतत्सामवेद’ इत्युपासनं प्रतीयते, तथापि “स यो ह वैताननन्तानुपासते’ इत्युपासनविधिवाक्ये आनन्त्यकीर्तनवत् साम्यस्य विधिवाक्ये कीर्तनाभावात् उदाहृतश्रुतौ प्राणस्य सर्वसाम्यमुकत्वा सर्वहीदं प्राणेनावृत’ मिति उपपविकीर्तनात् सोपपत्तिकविभुत्वग्रहणस्य प्राबल्यमिति अधिकाशङ्का सम्भवति, तथापि “समः प्लुषिणा समोमशकेन समो नागेन सम एभिस्त्रिभिन्स्त्रभिर्लोकैः समः सर्वेण’ इति विरुद्धपरिमाणश्रवणात् उत्क्रान्त्यादेः अनन्यथासिद्धत्वात्, “सर्वं हीदं प्राणेनावृत’मिति प्राणे सामान्यविषयतया कथञ्चित् वैभवविषयरूपतया वा उपपत्तिरिति सिद्धान्तः, आधिदैवकेन समष्टिरूपेण हैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नत्वध्यात्मिकेनेति तद्भाष्योक्तमनुवदति । परैरान्त्यश्रुतेरिति - समष्टिरूपेण समष्टिस्सामान्यम् ॥12॥ ॥ इति श्रेष्ठाणुत्वादिकरणम् ॥