29 वायुक्रियाधिकरणम्

is not available.सह शिष्टिरादिर्यस्य विशेष्याभिधानस्य तदेतमेवेति सह शिष्ट्यादिनेति वक्त्तुं युक्त्तम्, न तु सह शिष्टयादिभ्य इति तद्गुणसंविज्ञानबहुव्रीह्याश्रयणेऽपि सह शिष्टे विशेष्याभिधानस्य द्वित्वात् द्विवचनमेव स्यात् इत्याशङ्कयाह - अनेन बहुश्रुतिष्विति । अनेन बहुवचनेनेत्यर्थः । अस्यार्थस्य भाष्यकृदभिमतत्वं दर्शयति - श्रुतिभेदेन सह शिष्टय इति । ननु चक्षुरादिवत् उपकरणसमर्थनेन स्वतन्त्रशङ्काव्यावृत्तिवत् भूतान्तरत्वशङ्का न व्यावर्त्यते, भूतान्तरत्वेपि उपकरणत्वसम्भवात्, “यः प्राणः स वायुः’ इति श्रुत्या तच्छङ्कावारणे उपकरणत्वमकिञ्चिकरमिति चेत् न, न वयमुपकरणत्वेन भूतान्तरत्वं प्रतिक्षिपामः, येनायं दोषस्स्यात्, तु शब्देन भूतान्तरत्वं प्रतिक्षिप्यते, तत्र च “यः प्राणः स वायुः, इति श्रुतिरेव हेतुः ततश्च तु शब्देन भूतान्तरत्वे प्रतिक्षिप्ते किं तदित्याकाङ्क्षायां चक्षुरादिवदुपकारकमित्युच्यते, ततश्च द्वयमपि अनेनैव सूत्रेण प्रतिपाद्यत इति भावः ॥9॥भाष्ये- नन्वेवं नामभेदात् रूपभेदाच्चेति, ननु कथं अस्याः शङ्काया उत्थानं पञ्चधा आत्मानं विभज्य एतद्वाणमवष्टभ्येति श्रुत्यनुसारेण पञ्चधा अवस्थितः देहेन्द्रियधारणादीनि करोतीति वदन्तं प्रति अस्याः शङ्काया अनुपन्यसनीयत्वादिति चेदुच्यते संज्ञाकार्यभेदसद्भावावस्थान्तरापत्तावपि ञ्चधा विभज्येत्यस्य विरोधादिति शङ्काभिप्रायात् ॥10॥भाष्ये- न कामादिकं मनसः तत्वान्तरमिति, कामादिकमित्यनेन कामादिहेर्तुमभन उच्यत इति द्रष्टव्यम् । केचित्तु मनशब्देन धमर्भूतज्ञानमुच्यत इत्यपि वदन्ति, भाष्ये- अपानादयोऽपि प्राणस्यैव वृत्ति विशेषाः- इति, स्थानविशेषवृत्यवच्छिन्नप्राण एव अपानादिव्यपदेशं लभत इति भावः । ननु श्रोत्रादिनिमित्ताश्शब्दादिविषयाः पञ्चवृत्तयो मनसः प्रसिद्धाः, ततश्च पञ्चवृत्तित्वांश एव मनसो दृष्टान्तत्वं वक्त्तव्यमिति यद्यभिनिवेशेन तदा योगशास्त्रप्रसिद्धाः प्रमाणविपर्ययादयः पञ्चवृत्तयः ग्राह्यन्त इत्यभिप्रेत्य पक्षान्तरमाह - प्रमाणविपर्ययादय । द्वितीयपक्षंदूषयति - सङ्कल्पस्यातिरिक्त्तत्वादिति । अत औचित्यादिति सङ्ख्याविशेषानादरे सिद्धे कामः सङ्कल्प इत्यादिशुति प्रसिद्धकामादिनानावृत्तेरिव पञ्चवृत्तिरिति वृत्तित्वेन ग्रहणमुचितम् । न तु श्रोत्रादिनानावृत्तेरिति भावः ॥ * ॥ ॥ इति वायुक्रियाधिकरणम् ॥