परिछिन्नत्वे सत्युपलब्ध्यर्हस्तूलताराहित्यमिति ॥ ननु निदाघदूनदेहस्य शिशिरह्रदनिमग्रनाभेः सर्वाङ्गीणशीतर्स्शोपलब्धेः कथं त्विगिन्द्रियस्याणुत्वम्, कथं च उत्क्रान्तिवशेनाणुत्वे सूक्ष्मशरीरस्यापि नाणुत्वं स्यादित्याशङ्कयाह - परिमाणावान्तरभेदे सत्यपीति । कार्यबाहुल्यविशेषणविशिष्टतयोपासनार्थमानन्त्यकथनमित्यर्थ इति - न च स्वरूपानन्त्यसैवोपासनार्थत्वमस्त्वितिवाच्यम्, अनारोपितोपासनसम्भवे आरोपितोपासनस्य अन्याथ्यत्वात् ॥6॥लङिति - “रुदश्च पञ्चम्यः’ इतीडागम्, यद्यपि लुङ्यप्येतद्रूपमस्ति, तथापि अनद्यतनत्वात् लङीत्युक्त्तम् ॥ ॥ इति प्राणाणुत्वाधिकरणम् ॥