(incomplete?) पृथक् “तथा प्राणाः’ इत्यस्य पूर्वपक्षसूत्रत्वादिति भावः ॥ * ॥not availableअदृष्टसंस्कारस्थितिकार्यदर्शनादिति - संस्कारे वासनाप्रलयेऽपि अदृष्टसंस्कारस्थितिरूपकार्यदर्शनादित्यर्थः । परैस्त्वित्यादि - पूर्वाधिकरणविषयवाक्यस्थेति । केषुचित् कोशेषु पठ्यते, तत्र पूर्वशब्दो लेखकदोषायातः, तत्र प्राणोत्पत्तिवाक्यजातमुदाहरणमिति शाङ्करभाष्यदर्शनात् । तद्धर्मातिदेश इति - लोकादिधर्मस्योत्पत्तेरतिदेश इत्यर्थः, जन्मशब्दस्येति व्याहृतपूर्वसूत्रोपस्थापि परामर्शसम्भवेऽनौचित्यादिति भावः । जन्मशब्दस्येति - जन्मवाचकशब्दस्येत्यर्थः । इन्द्रियसमष्टयुत्पत्तेः पूर्वमेव सिद्धतांमत्वेति - इन्द्रियसमष्टयुत्पत्तः न्यायनिरपेक्षतयैव निश्चितेत्यर्थः ॥ * ॥ ॥ इति प्राणोत्पत्यधिकरणम् ॥