तत्र शरीरवाचिशब्दस्येति - श्रुतिविप्रतिपत्त्या शरीरित्वमेवाक्षिप्य समाधीयत इति भावः । भाष्येन प्रतितिष्ठतीति, अनन्यत्वाधिकत्वयोः परस्परविरुद्धयोरविरोधस्य अंशांशिभावेनैव समाधेयत्वादिति भावः, अपृक्सिद्धप्रकारत्वमेव ह्यंशत्वं; तत्र पृथक्सिद्धत्वेन नन्यत्वसमर्थनं, प्रकारत्वेन भेदसमर्थनम्, अपृथक्सिद्धत्वप्रकारत्वाभ्याम् मिलिताभ्याम् उभयव्यपदेशमुख्यत्वसमर्थनमित्यर्थः । प्रभाप्रभावतोरिवापृथक्सिद्धांशांशित्वनिर्णयेनेति - यद्यपि तदनन्यत्वमिति सूत्रे समर्थनीयमनन्यत्वं कारणावस्थस्य कार्याव स्थस्य चाभेदं, न तु जगद्व्रह्मणोरंशांशित्वरूपं; तथापि सूक्ष्मचिदचिच्छररिकेण स्थूलचिदचिच्छरीरकस्यानन्यत्व स्य समर्थनीयतया अंशत्वरूपशरीरत्वं जगतः समर्थनीयम्, तत्र च चिदंशस्यांशत्वमिह साध्यते, अचिदंशस्यांशत्वन्तु अहिकुण्डलाधिकरणे साध्यते इति दृष्टव्यम् । भाष्ये “ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कितवा’ इति, दासाः- धीवराः, कितवाः- द्यूतकृतः । उत्कृष्टैः सामानाधिकरण्य इति - श्रुताध्ययनसम्पन्नः साक्षाद्विष्णुरित्युक्त्ते स्तुतिपरत्वनुपपद्यते, निकृष्टसामानाधिकरण्यं तु न ब्रह्मणः स्तुतये भवति, विरुद्धत्वात्, नापि दासादीनां स्तुतये, तेषां स्तुत्यनर्हत्वात्, नापि ब्रह्मणो निन्दायै ब्रह्मणो निन्द्यत्वाभावात्, नापि दासादीनां निन्दायै वा असम्भवात्, तस्माद्व्रह्मणः दासादिसामानाधिकरण्यमभेदस्य तात्त्विकत्वमेव द्योतयतीत्यर्थः । भाष्ये- कुर्वाणेन भ्रमितव्यमिति, कुर्वाणत्वेन भ्रमितव्यम् कुर्वाणमिव ब्रह्म भ्राम्यति, नोपदिश्यत इति पर्य्यवसितोर्थः । शङ्कते - जीवब्रह्मणोरिति ॥42॥भाष्ये- मन्त्रे सूत्रेऽप्यंश सति एकवचनमिति, मन्त्रे सूत्रेऽपि पार्दोश इत्येकवचनमित्यर्थः । पराक्त्वेन च भेदो गृह्यत इति - इदमुपलक्षणं परात्मसु भेदग्रहसिध्द्यर्थम् “शक्त्तयः सर्वभावानामचिन्त्यज्ञानगोचराः’ इत्युक्त्ततीत्या शक्त्यादिलक्षणः परस्परभेदः प्रत्यक्पराक्त्वातिरिक्त्तोऽप्यस्तीति द्रष्टव्यम् ॥43॥is not available.भाष्ये- एकवस्त्वेकदेशत्वं ह्यंशत्वमिति, यद्येवं विशेष्यस्यापि परमात्मनोंऽशत्वप्रसङ्गः, विशिष्टवस्त्वेकदेशत्वाविशेषात्, ततश्च जीवपरयोरविशेषत्वप्रसङ्गः, किञ्च ममैवांशो जीवलोके जीवभूतः’ इति विशेष्यभूतपरमात्मानं प्रत्येकदेशत्वं जीवस्य प्रतीयते, न तु विशिष्टं प्रति, ममेत्यस्य विशिष्टपरत्वे प्रमाणाभावात्, इश्वरांशत्वं हि स्वरसतः प्रतीयत इति वक्ष्यमाणत्वाच्च, विशिष्टे विशेषणमंश इति लोकप्रतिसिद्धतयाऽयमेवांश इत्युपदेशवैयथ्यात्, तदर्थं समानाधिकरणत्वस्यापि व्यर्थत्वात्; किञ्च “जीवभूतः सनातनः’ इति विशिष्टजीवेंऽशत्वकीर्त्तनं व्यर्थम् । ईदृशांशत्वस्य चिदचित्साधारण्यात्, अत एवोचितः पार्थक्येनांशत्वसमर्थनपरमहिकुण्डलाधिकरणमपि व्यर्थमिति चेत्- न, अंशत्वस्य नियाम्यशेषत्वलक्षणशरीररूपत्वस्य इहाधिकरणे समर्थनीयत्वात्, वक्ष्यति च विशेष्यस्य प्रधानतयांशित्वोपपत्तिरिति - तेनाऽस्य गतार्थता, भिन्नत्वाभिन्नत्वांशत्वप्रतिपादकश्रुतिविरोधसमाधानप्रकारत्वादस्याधिकरणस्य, अतो मुख्भेदान्न गतार्थता, अत एव “अवस्थितेरिति काशकृत्स्न’ इत्यनेनापि न गतार्थता, एकवस्त्वेकदेशत्वं ह्यंशत्वमित्यस्याष्यत्रैव तात्पर्य्यम्, यद्यपि अपृथक्सिद्धत्वलक्षणमठशत्वं समर्थ्यते, तर्हि अपृथक्सिद्धविशेषणभूतचिदचिद्गतदोषाणां ब्रह्मणि परस्परं चाप्रसक्त्तेः तत्परिहारार्थानां “प्रकाशादिवत्तु नैवं परः’ “अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्’ इत्यादीनामानर्थक्यमिति चेन्न, अंशपदश्रवणमात्रात् विशेष्यैकदेशत्वरूपांशत्वमिह विवक्षितमिति भ्रान्त्या प्रवृत्तां शङ्कामभिमतांशत्वप्रदर्शनेन निराकरोतीत्युक्त्तौ दोषाभावात् । भानुर्मानुमानिति अत्र केचित् यथा घटाश्रये घटे प्रयुक्त्तौ घटघटवच्छब्दौ न तुल्यार्थौ, एवं प्रभारूपभानुमन्तराश्रये भानौ प्रयुज्यमानौ अहिकुण्डलाधिकरणेऽचितोंशत्वसमर्थनेऽपि न भानुभानुमच्छब्दौ न तुल्यार्थौ, यदि च भानुशब्दः प्रभावचन एव सन् पर्यवसानवृत्त्या जातिगुणादिशब्दवत्प्रभावद्वचनस्स्यात्, तर्हि मत्वर्थप्रत्ययनिरपेक्षसामानाधिकरण्यं स्यात्, तस्माज्जात्यादिवाचकाः शब्दा उदाहार्या इति वदन्ति ।is not available.is not available.is not available.is not available.is not available.is not available.परे त्वित्यादि - जीवेश्वरसम्बन्धनिरूपणमिति । किं स्वामिभृत्यवत् सम्बन्धः? उताग्निविस्फुलङ्गादिवत् इति निरूपणमित्यर्थः । स्वात्मानं प्रत्यंशत्वानुपपत्तेरिति - विशिष्टस्य विशिष्टं प्रत्यंशत्वानुपपत्तेरित्यर्थः । वस्तुनिस्वतोंऽशभेदाभावेनेति - आकाशस्य तु स्वतः स्वांशत्वादुपहितानुपहितभेद उपपद्यत इति भावः । अयुक्त्तावस्थायामिति - योगराहित्यदशायामित्यर्थः । अनन्वयस्य वक्त्तुमशक्यत्वाच्चेति - नियोज्यत्वानन्वयस्य वक्त्तुमशक्यत्वाच्चेत्यर्थः । परिच्छन्नत्वे सति अनुपलभ्यमानत्वमणुत्वमिति - नत्वणुपरिमाणत्वमिति भावः । अन्तःकरणोपाधिकत्वानुपपत्तेरिति - इदमुपलक्षणम् “प्रदीपवदावेशस्तथाहि दर्शयति, इत्यधिकरणे कायव्यूहस्थलेऽन्तःकरणभेदमभ्युपगम्यान्तःकरणभेदेऽपि प्रतिसन्धानस्याभ्युपेतत्वादिति द्रष्टव्यम् । गोमहिषहेमाद्यंशित्वाभावादिति ननु भूतलस्याधारत्वादिलक्षणप्राधान्ये विवक्षितेऽपि भूतलस्य गोमहिषादिकमंश इति व्यवहारो न दृश्यते, देवदत्तादेः दण्डकुण्डलादेश्च विशेष्यविशेषणभावलक्षणप्राधान्यविवक्षायामपि देवदत्तस्य दण्डकुण्डलादिकमंश इति व्यवहारो न दृश्यते, द्रव्यस्वामिन्यंशित्वव्यवहारास्तु समुदायापेक्षया विभुत्वद्रव्यस्यांशेनैतत्स्वामित्वात् देवदात्तादेः, न तु स्वामित्वादिलक्षणप्रामाण्यप्राधान्यमात्रात्, तथा सति क्रयदानादिलब्धगोमहिष्यादिस्वामिनि अंशित्वव्यहारप्रसङ्गादिति चेन्न, अत्रांशशब्दस्य शरीरमथर् इति प्रागेवोक्तत्वाददोषात्, केचित्तु पटारम्भकतन्तुषु घटावच्छिन्नाकाशे यङ्कच्छिन्नपाषाणशकलादौ सर्वत्रांशशब्दव्यवहारेऽनुगतं प्रवृत्तिनिमितं तदेकदेशत्वमेव, अतः चिदचिद्विशिष्टस्यैव ब्रह्मशब्दार्थतया चिदचितोः तदेकदेशतया तदंशत्वमुपपद्यते, केवलविशेष्यमीश्वरं प्रति नांशत्वम्, “ममैवांशः’ इत्यादावपि विशिष्टाभिप्रायेणैवांशत्वम्, न चैवमीश्वरस्यापि जीववदंशत्वप्रसङ्गः, अल्पेकदेशेंऽशत्वव्यवहारदर्शनेन ब्रह्मणोऽधिकत्वेनांशत्वव्यवहाराप्रसक्त्तेरिति वदन्ति ॥ ॥ इत्यंशाधिकरणम् ॥ 7 ॥