सेतुं जन्तुमितिवदिति - औणादिके तुमुन्प्रत्ययान्तः “य एवं वेति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥’ इति चेदिति गीतावचनादिति भावः । भाष्ये- “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्स्वयं प्रयोगस्स्या’ दिति जैमिनिसूत्रम्, अस्यार्थः यस्मात्- शास्त्रफलं स्वर्गादिकं प्रयोक्तरि भवति “स्वर्गकामो यजेत’ इति शास्त्रप्रामाण्यात्, तस्मात् स्वयं प्रयोगे कर्त्ता स्यादिति ॥33॥भाष्ये- स यथा सहाराजेति प्रकृत्येति, “स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तते एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत’ इति स्वप्नविषया श्रुतिः प्राणान् गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य स्वे शरीरे यथेष्टं सञ्चरतीत्यर्थः । शरीरप्रेरणे चेति - शरीरे ग्रथष्टसञ्चारे शरीरप्रेरणमपि सिद्धमिति भावः ॥34॥not availablenot availablenot availablenot availableत्वन्मते बुद्ध्युपधानात्पूर्वमिति - स्फटिकलौहित्यस्य जपाकुसुमसन्निधानोपाधिनिबन्धनत्वं जपाकुसुमसन्निधानात् प्राक् स्फ टिके सत्यापि लौहित्याभावदर्शनात् उपपद्यते, सत्यपि जीवेऽन्तःकरणोपाधिसन्निधानात् प्राक् यदि कर्त्तत्वन्नोपलम्येत, तदाऽन्तःकरणस्य जीवगतकर्त्तत्वोपाधित्वं वक्त्तुं शक्यते, न च तथास्तीत्यर्थः । विज्ञानशब्दस्य बुद्धिमात्रविषयत्वनिर्बन्धश्चेति - यस्त्वयं व्यपदेशो दर्शितः “विज्ञानं यज्ञं तनुते’ इति स हि बुद्धेरेव कर्त्तत्वं ज्ञापयति । विज्ञानशब्दस्य तत्र प्रसिद्धत्वादिति “यथा च तक्षोभयथा’ इति सूत्रे यध्द्याख्यानं तदनुपपन्नमित्यर्थः । परिहर्त्तव्याभावमेवोपपादयति । हितबुध्द्यैव सर्वं चेतनः करोतीति - नाम्नि विवाद इत्युक्त्तमिति । यत् करणभिन्नं कर्त्ततया त्वयाऽन्तःकरणमित्यभिलप्यत इति तदेव मया जीव इत्यभिलप्यत इत्यर्थः । चित्तमनसोरिवेति - यथा प्राप्तकालानुरूपबोधरूपस्य चेतयितृत्वलक्षणस्य चित्ताख्यस्य मनोवृत्तिविशेषस्य मनसश्च प्रकृतिविकृतिभावोपदेशो नान्ति, एवं बुद्धेः मनोवृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो नास्ति, एवं बुद्धेः मनोवृत्तिरूपत्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशो न स्यात्, दृश्यते च मनोबुद्धिरेव वाहङ्कार इति मनोबुध्द्यहङ्काराणां प्रकृतिविकृतिभावापदेश इति भावः । अतः प्रकृतेरन्यत्वेन समाधिविधानमेव विवक्षितमिति - यद्यपि भोक्तृत्वशून्यायाः प्रकृतेः कमर्फलभोक्तृत्वानुसन्धानेन यागादिप्रवृत्तिवत् प्रकृतिभिन्नत्वसमाधावपि न दोषः तथापि प्रकृतिकर्त्तृकस्य प्रकृतेरहमन्योऽस्मीति समाधेः भ्रान्तिरूपतया मोक्षहेतुत्वं न स्यादिति भावः । स्त्रक्चन्दनाद्युपयोग इति - स्त्रक्चन्दनादिधारण इत्यर्थः ॥ ॥ इति कर्त्रधिकरणम् ॥