नियतधर्मधर्मिभाव उपपद्यत नेति - धर्म्यपेक्षया अधिकदेशस्य धर्मत्वं सम्भवति नेति चिन्तायां निवेशनीयम् । अस्यार्थस्य “अविरोधश्चन्दनवत्, गुणाद्वा लोकवत्, इति सूत्रोपारूढतया तस्यावश्यं वक्त्तव्यत्वात् । विप्रकृष्टार्थग्रहणाग्रहणासम्भवेनेति - सर्वाङ्गीणवेदनासम्भवेन आत्मनो विभुत्वस्य वक्त्तव्यतया तस्य च नित्यज्ञानाश्रयत्वेन नित्यत्वोपलब्धिप्रसङ्ग इत्यर्थः । भाष्ये- ज्ञानस्वरूप एव न ज्ञानमात्रम्, नापि जडस्वरूप इति ज्ञातृत्वे साधितेऽपि न जडत्वव्यावृत्तिः, नैयायिकैज्रडत्वाभ्युपगमात्, तथापि यावदात्माभावित्वाच्च’ इति च शब्देन सिद्धिमभिप्रेत्य उक्त्तमिति द्रष्टव्यम् । भाष्ये- यदुक्त्तं ज्ञातृत्वे स्वाभाविके सतीति, ननु स्वाभाविकज्ञातृत्वे कथं विभुत्वनिराकरणमुपयुज्यते, विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वात्, नित्योपलब्ध्यनुपलब्धी’ति सूत्रोक्तन्यायेन विभुत्वस्य आगन्तुकज्ञानाश्रयत्वज्ञानरूपत्वस्वाभाविकज्ञत्वरूपसर्वपक्षविरुद्धत्वेन विशिष्य सिद्धान्तिनामपि निराकरणायत्वात्, तत एव नैकाधिकरणत्वमपि “उत्कान्तिग्कयागतीना’मित्यादेः युज्यते, अणुत्वसमर्थनस्य स्वाभाविकज्ञातृत्वानुपयुक्त्तत्वात् कथञ्चिदुपयोगमाश्रित्यैकाधिकरण्याश्रयणे “कर्त्ता शास्त्रार्थवत्वा’दित्यस्य ज्ञातृत्वकर्त्तृत्वसमर्थनार्थस्य कुतो नैकाधिकरण्यम्, यदि कर्त्तत्वनिराकरणं ज्ञातृत्वोपयुक्त्तं तर्हि तन्निराकरणाथर्ानामेकत्रैव निवेशनीयतया “ज्ञोऽत एव, व्यतिरेको गन्ववत्, पृथगुपदेशात्, तद्गुणसारत्वात्तद्वयपदेशः, यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्,पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्त्तियागा’दिति ज्ञत्वं समाप्य उत्क्रान्तिगत्यागतीनाम्, स्वात्मना चोत्तरयोः, नाणुरतछ्रुतेरिति चेन्नेतराधिकारात्, स्वशब्दोन्मानाभ्याञ्च, अविरोधश्चन्दनवत्, अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वा लोकवत्, नित्योपलब्धि’रित्येव सूत्रन्यासः स्यादिति चेत्, उच्यते- यदुक्त्तं विभुत्वस्य स्वाभाविकज्ञातृत्वमात्रापरिपन्थित्वादितिसत्यमेतत्, तथापि पूर्वपक्षिणः तथाभिमानसम्भवेन तत्खण्डनस्य कर्तुं यक्त्तत्वात्, यदुक्त्तं “कर्त्ता शास्त्रार्थवत्वात्’ इत्यस्याप्यैकाधिकरण्यमिति, तत्र ज्ञातृत्वं हि ज्ञानाश्रयत्वं न तु कर्तृत्वं, प्रत्ययस्याश्रयत्वमात्रार्थकत्वात्, अस्तु वा कथञ्चिदुपयोगः, नैतावता एैकाधिकरण्यं, तस्य सूत्रकदनभिमत्वात्, प्रकृते तु ज्ञत्वाणुत्वसमर्थनसूत्राणां परस्परान्तरिततया करणादेवावसीयते एैकाधिकरण्यं सूत्रकृदभिमतमिति, इतरथा त्वदुक्त्तरीत्या महत्वनिराकरणसूत्राणां बुद्धिसौकर्याय सङ्कीर्णतयैव निवेशः स्यात्, अतः सर्वं समज्जम् ॥19॥स यदा तेजोमात्रास्समभ्याद दाना हृदयमेवापक्रामति शुक्त्तमादाय पुनरेति स्थान’मिति परोक्तगतिश्रुत्यनुपन्यासे हेतुमाह - उत्क्रान्तिशब्दानन्तरेति । ॥20॥भाष्ये- शरीरवियोगरूपत्वेनेति, उत्क्रामणं हि अपसर्पण इव मरणे विनिरूढम्, तच्चातलतोऽपि सतः कर्मक्षये देहस्वात्म्यनिवृत्त्या उपपद्यते, गत्यागत्योश्चलेन निरूढयोः कर्तृस्वभावरूपत्वादिति भावः ॥21॥not availableभाष्ये- अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रूयत इति उद्धरणञ्च पृथक्करणम्, बालाग्रशतभागस्ये’ति अवयवावयविनोरवयवस्य पृथक्करणं श्रूयते, श्राव्यते प्रदर्श्यत इत्यत इत्यर्थः, ततश्च पृथक्करणाश्रवणयोः श्रुतिकर्त्तृकत्वात् समानकर्त्तृत्वोपपत्तिरिति द्रष्टव्यम् । आराग्रम् चर्मभेदिसूच्यग्रम् ॥ 23॥is not available.not available"ननु- उक्त्तं ज्ञानमेवात्मेति’ विज्ञानात्मा पुरुष’ इत्यादिश्रुतिष्वित्यर्थः ॥ 26 ॥not availableविशिष्टवाचिना शब्देनेति - ज्ञानविशिष्टवाचिशब्देनेत्यर्थः ॥ 28 ॥not availablenot availablenot availableढआत्मा कुत्रचिदुपलभ्यत इति - आत्मा शरीरान्त उपलभ्यते, तथा बहिर्नोपलभ्यत इत्येतत् “अहमिहैवास्मि सदने न जानान’ इति सर्वलौकिकानुभवसिद्धम्, न चैतत्पक्षद्वयेऽपि उपपद्यते, ज्ञानेरूपः सर्वगत आत्मेति पक्षे किं उपलभ्यानुपलभ्यस्वभावः, उत उपलभ्यैकस्वभावः, उतानुपलभ्यैकस्वभावः । आद्ये दहेस्यान्तरे उपलब्ध्यनुपलब्धी स्वाताम्, द्वितीये सर्वत्रोलब्धिस्स्यात् । तृतीये अनुपलब्धिः स्यात्, दहेस्यान्तरुपलभ्यस्वभावः अन्यत्रानुपलभ्यस्वाभाव इति व्ववस्था न युज्यते, न ह्येकस्य क्कचिदेशे स्वप्रकारमन्यत्र नेति शक्यते वक्त्तुमिति भावः । एवं जडत्वपक्षेऽपि दूषणं द्रष्टव्यम् । भाष्ये- सर्वैः करणैः सर्वदा संयुक्त्तत्वेनेति, नन्विदं सिद्धान्तेऽपि समानभेव, नित्यानां मुक्त्तानाञ्च धर्मभूतज्ञानानामनन्तानां सर्वत्र विद्यमानत्वात्, धर्मभूतज्ञानामपि सर्वात्मसम्ब्धत्वात् मध्ये इदमेदतदीयमिति नियन्तुमशक्यत्वात् कथमेतदिति चेन्न, “श्रुतेस्तु शब्दमूलत्वात्’ इति न्यायेन श्रुतिप्रतिपन्ने अर्थे यथा श्रुत्यभ्युपगन्तुं युक्त्तम्, इतरथा न युज्यत इत्यत्र तात्पर्यात् । ज्ञशब्दस्यापि व्यक्त्तिवाचित्वाभावादिति - “इगुपधज्ञा प्रियकिरः कः’ इति कप्रत्ययस्य कर्त्तरि कृ’दिति कर्त्रर्थेऽनुशिष्टत्वादिति भावः । अविकृतब्रह्मण एवेति - आविकृतब्रह्मण एवोपाधिना जीवभावेनावस्थानादनुत्पन्नत्वेनेति योजना । तस्य चैतन्यस्वरूपत्वादिति - ब्रह्मणः चैतन्यस्वरूपत्वात् तदभिन्नस्य जीवस्यापि चैतन्यस्वरूपत्वमिति भावः । साध्यतया प्रकृतेति - पूर्वाधिकरणे साध्यतया प्रकृतेत्यर्थः । साक्षादेव ज्ञानस्वरूपत्वसाधकत्वभावादिति - इदमुपलक्षणम्, परम्परयाऽपि साधकत्वं नास्ति, न ह्यनुत्पत्त्युपपादकस्य ब्रह्मानन्यत्वस्य चैतन्यस्वरूपत्व साधकत्वमस्तीति एतावतानुत्पत्तेः परम्परया उपयोगेऽस्तीत्यपि द्रष्टव्यम् । तस्य ज्ञानस्वरूपत्वञ्चेति - ब्रह्मणो ज्ञानस्वरूपत्वञ्चेत्यर्थः । परमसाध्येति - जीवचैतन्यस्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यथर्ः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्त्तम् अनुत्पत्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्रह्मानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनुच्छित्तिधर्मेत्यत्र बहुब्रीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन परामर्शे तासामेव श्रुतीनाम् उत्क्रान्तिसूत्रेऽप्यनुवृत्तौ - उत्क्रान्तिगत्यागतीनाम् श्रुतिभ्य इत्यस्यार्थस्य सम्भवाददोषः; तथापि ताभ्य इत्यस्य विशेष्यतया श्रुतिभ्य इत्याध्याहारोऽप्यवश्यापेक्षितः, अतः इहापि ताभ्यः श्रुतिभ्यः इति पदद्वयाध्याहारादिति भावः । कारकव्यापारवैयर्थ्यमिति - चक्षुरादिव्यापारजीवचैतन्यस्वरूपत्वस्येत्यर्थः । प्रकृत्यर्थसाम्यस्य चेति - श्रुतेः अत इति शब्दप्रकृत्योः श्रुत्येतच्छब्दयोः एकार्थत्वस्य ज्ञाप्यमानत्वादित्यर्थः । ननु पूर्वसूत्रस्थस्य श्रुतेरिति यदस्य एतत्सूत्रस्थस्यात इति पदस्य नैकार्थत्वं युक्त्तम् अनुत्पत्तिसाधकश्रुतेः ज्ञत्वसाधकश्रुतेश्च भिन्नार्थत्वादित्याशङ्कयाह - योग्यतावशादिति । विलम्बत्रयाभावाच्चेति - परमते तु तदुपपादकब्रह्मानन्यत्वमित्यादिना विलम्बत्रयं पूर्वमेव प्रतिपादितमिति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षितमिति - अनुच्छित्तिधर्मेत्यत्र बहुव्रीहिगर्भबहुव्रीहिरिति भावः । ताभ्य इति अन्वयो घटत इति - यद्यपि अत एवेत्यनेन पूर्वसूत्रे ताभ्य इत्यत्र निर्दिष्टानां बुद्धिस्थानां श्रुतीनामेवातश्शब्देन वैयर्थ्यमिति भावः । तदाश्रितेष्विति - तदाश्रयो मुख्यः प्राणः, तदाश्रिता इतरे प्राणा इति भावः । सङ्घातरूपस्य इति - उपाधेः सङ्घातरूप इत्यर्थः । सुषुप्तिप्रलययोरप्रबोधेनेति - सुषुप्तिप्रलययोरन्तःकरणादेः लीनत्वादित्यर्थः । आत्मेन्द्रियविषयसन्निधानान्नित्यमुपलब्धिरिति - आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्यते, अत असत्यपि हेतुसमवधाने फलाभावः नित्यमेवानुपलब्धिः प्रसज्येत, अत आत्मेन्द्रियविषयसन्निधाने सत्यपि कादाचित्कोपलम्भाभावस्य कारणव्यतिरेकप्रयोज्यत्वात्, कारणान्तरसमवधाने कारणव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगिता अन्तःकरणं स्वीकार्यमिति भावः । अन्यतरनियमो वेऽन्यथेति सूत्रखण्डं व्याचष्टे । आत्मनीन्द्रियेऽपि वेति ॥ ॥ इति ज्ञाधिकरणम् ॥