सृष्ट्यनन्तरानुप्रवेशकृतमौपचारिकमिति । कादाचित्कानुप्रवेशनियमनमात्रेण शरीरत्वोक्तिः, नतु यावत् सत्तं धार्य्यत्वादिकमभिप्रेत्य येन तन्मूख्यं स्यादिति भावः ॥10॥ननु “तेजोऽतस्तथा ह्याह’ इति न्यायसाम्ये अप्सु पृथक् सूत्रकरणं किमर्थमिति चेत् न, तथा ह्याहेत्यंशस्य साम्येऽपि तेजसि विषये “तदैक्षत” तत्तेजोऽसृजत इत्यस्य परम्परयाऽप्युपपत्तिरिति परिहर्तव्यम् । अप्सु ततेज षक्षत” तदापोऽसृजत" इति प्रथमश्रुततजश्शब्दानुसारात्, “तस्माद्यत्र क्कचन शोचति स्वदेते हि पुरुषः तेजस एव तद्ध्यापोऽजायन्त” इति वाक्यशेषश्रवणाच्च ईक्षणं गौणमिति वा “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या’ मिति न्यायेन वा निवोदव्यमिति पूर्वपक्षिणो निर्वाहभेदप्रकारसत्वात् पृथक् सूत्रकरणसार्थक्यात्, न च पृथिव्याः पृथक् सूत्रं व्यर्थमिति वाच्यम् । अत्र पृथिवीशब्दयोः विरोधपरिहारार्थतया तदापि पृथक् सूत्रणमिति गन्तव्यम् ॥11॥not availablenot availableतच्छरीरकत्वं श्रौतमित्याहेति - तच्छरीरकस्य कारणत्वं श्रौतमित्याशय इत्यर्थः, “यः पृथिवीमन्तरो यमयति” इति तदधिष्ठितवस्तुन एव कार्यकरत्वश्रवणादिति द्रष्टव्यम् । तेषामपीक्षणपूर्वकसृष्टिसिद्धय इति - अत्र केचित् पूर्वग्रन्थे ईक्षापूर्वकसृष्टयुपपाद्यतयोक्तस्य तच्छरीरकत्वस्य ईक्षापूर्वकसृष्टिसिध्द्यर्थत्वकथनमयुक्त्तम्, ततश्च महदादीनामपि परमात्मशरीरत्वप्रतिपादकवचनं दर्शयति, सुबालोपनिषदि चेति - इत्येवावतरणिका देयेति च मन्यन्ते ॥14॥आनन्तर्यरूपक्रमप्रतीतेरिति - यद्यपि पौर्वापर्य एव क्रमः, नतु अव्यवधानलक्षणमानन्तर्य्यम्, तथापि आनन्तर्य्यरूपाव्यवधानविशिष्टपौर्वापर्य्यलक्षणक्रमप्रतीतेरित्यर्थे बाधकाभावात्, न च क्रियाद्वारकमेव पौर्वापर्य्यं वक्त्तव्यमिति वाच्यम्, तथा सति “त्तस्माज्जायत्’ इत्यस्य सृष्टयुन्मुखादित्यर्थः प्रतीयते, ततश्च, सृष्टयौन्मुख्यस्य प्राणाद्युत्पत्तेश्च क्रमिकत्वद्वारा तदाश्रययोः कार्यकरणयोरपि इत्यदोषात् । इत्यन्वयाभिप्रायेणेति । नतु “एतस्माज्जायते प्राणः ततो मनः सर्वेन्द्रियाणि’ इत्यन्वय इति भावः ॥15॥not availableभाष्ये - भङ्कत्वा व्यपदिश्यत इति, अस्मिन् पक्षे “भञ्जोऽवमर्दने’ इति धातोःक्त्तिनि सति भक्त्तिः भङ्गः भकत्या प्रयुक्त्त इति भावः । पुर्वसाध्येनानन्दमयादिति, “पृथिवी’ इति सूत्रे पृथिव्यत्पत्तेरेव साध्यत्वात् तत्र च अधिकाररूपशब्दान्तराणामत्र शब्दवाच्यपृथिवीत्वहेतुत्वेऽपि पृथिव्युत्पत्तावहेतुत्वादिति भावः । अभिमानिचेतनानुप्रवेशनिबन्धनत्वस्य चोक्तत्वादिति - ततश्च स्वतश्चैतन्यं नास्तीति भावः । ननु वाचस्पतिना तेज आद्यधिष्ठानदेवतानां परमेश्वराधिष्ठितानामेव भूतसगर्े प्रवृत्तिः, उत तदनधिष्ठितानामिति विचारप्रवृत्तिरिति चेन्न, तस्य तद्भाष्यविरुद्धत्वात् “परात्तु तच्छ्रुते’रित्यादिना कृतकरत्वाच्च तदनादृत्य यथाश्रुतभाष्य एवदूषणमुक्त्तमिति द्रष्यव्यम् । एकशब्देन विवक्षितत्वे कारणाभावादिति - न च प्राणशब्देन बुद्धिरुच्यते, बुद्धिर्नाम निश्चयहेतुभूतान्तःकरणावस्था संशयहेतुभूतान्तःकरणावस्थं मन इति तयोर्भेदः,तत्र ज्ञायते अनेनेति व्युत्पत्त्या सौत्रविज्ञानशबब्देन प्राणशब्दितबुद्धेरिन्द्रियाणाञ्च ग्रहणम्, मनश्शब्देन मनसो ग्रहणञ्चच सम्भवतीति वाच्यम्, एतादृकल्पनायां प्रमाणाभावादिति भावः । जीवस्य परस्मादात्मन उत्पत्तिः, वियदादीनामस्ति नास्तिं वेत्युत्तरसूत्रेण वक्ष्यति, देहाश्रयौ तावत् जीवस्य स्थलौ उत्पत्तिप्रळयौ न स्त इत्यनेन सूत्रेणावाचदिति परभाष्योक्तमाह - अत्र देहाश्रयाविति । शरीरजन्मविनाशयोः जीवगतत्वशङ्कायाअनुदयादिति - ननु देवदत्तादिनामधेयं तावत् जीवस्य, न शरीरस्य, तन्नाम्ने शरीराय श्राद्धकरणानुपपत्तेः; तस्मात् मृतो जातो देवदत्त इति व्यपदेशस्य मुख्यत्त्वं मन्वानस्य पूर्वपक्ष इति वाचस्पत्ये स्पष्टमेव जीवभेदं सिद्ॅधवत्कृत्य देहभिन्नजीवस्य देहोत्पत्तिविनाशानुयाय्युत्पत्तिविनाशवत्वं पूर्वपक्षीकृत्य सिद्धान्तित इत्याभिधानात्, शाङ्करभेष्येऽपि शरीरानुयायिविनाशिनि जीवे - इति, तद्भेदसिद्धवत्कारणेवै देहे उत्पद्यमाने जीवोऽप्युपपद्यते, नश्यति तस्मिन् स्वयमपि नश्यतीति पूर्वपक्षप्रतीतेः तस्यैवार्थस्य देदाश्रयौ तावज्जीवस्य स्थूलोत्पत्तिप्रलयोै न स्त इति भाष्येऽनुवाद्यमानत्वात्, देदाश्रयावित्यस्यापि देहोत्पत्तिविनाशवित्येवार्थप्रतीते कथमयं प्रपञ्च इति चेत्, सत्यम्, देहानुविविधायिविनाशित्वे जीवस्वरूपस्याभ्यमाने “नात्मा श्रुते’रित्वनेन पौनरुकत्यात् देहोश्रया उत्पत्तिविनाशावित्यस्य यथाश्रुत एवार्थः स्वीकर्तव्यः, गत्यन्तरामावादित्यभिपेत्यैवमुक्त्तमितं द्रष्टव्यम् । अन्ये त्वित्यादि - प्रलयावस्थापुरुषस्य चेति । प्रलयावस्थस्य भोक्त्रंशस्य चेत्यर्थः । अस्य पाठक्रमस्येति - त्वदभिमतस्य सूत्रपाठक्रमस्य कुत्रापि अप्रसिद्धत्वादित्यर्थः । सर्वेषामुत्पत्तिं च पूवर्पक्षीकृत्येति - सर्वेषामुत्पत्तिर्वा स्यात्, सर्वेषामनुत्पत्तिर्ता स्यादिति पूर्वपक्षीकृत्येत्यर्थः, । मनस्याकाशमेव चेति प्रयोगाच्चेति - एतस्माज्जायत इति श्रुतौ यदि मनश्शब्दो मनः परः तदाऽऽकाशस्य इन्द्रियेषु इन्द्रियाणाञ्च मनसि मनसश्च प्राणशब्दितमहत्तत्त्वे च लयः कीर्त्यत इति भावः । आकाशादिषु क्रमविवक्षादर्शनादिति - “खं वायुर्ज्यातिराप” इत्युत्तरवाक्ये क्रमविवक्षादर्शनादिति भावः । पदार्थनिर्देशमात्रञ्च अत्र वागादिक्रमविवक्षाप्रतीतेरभावादिति भावः । अहङ्काराज्जातानीत्यर्थ इति - अहङ्कारात स्वादीनि साक्षाज्जातानि, इन्द्रियाणि तु स्वादिद्वारा जातादीत्यर्थ इति भावः। अतो विरोध इति - “इन्द्रियेभ्यः परा ह्यर्थाः’ इति श्रुत्यनुसारेण “सर्वेन्द्रियाणि च स्वं वायुर्ज्योतिराप” इत्यत्र विरोधस्य परिहृतत्वात्, मनश्शब्दिताहङ्कारस्य महतश्च मध्ये “मनसस्तु परा बुद्धिः, बुद्धिं तु सारथिं विद्धि, विज्ञानसारथिर्यस्तु’ इति बुद्धिविज्ञानाब्दितं तत्त्वान्तरं प्रतीयत इति विरोध इत्यर्थः । मनश्शब्दः वाच्येति - “मनसस्तु परा बुद्धिः’ इति श्रुतपरापरभावो यथा कथञ्चिन्निर्वोढव्य इति भावः । नभः प्रकृतयस्स्युरिति चेदिति - ततश्च अष्टौ प्रकृतयः षोडश विकाराः’ इति श्रुतिविरोध इति भावः’ । इन्द्रियमेव मन इति - अन्तरिन्द्रियमेव मनः नाहङ्कार इत्यर्थः । न चैवं " इन्द्रियेभ्यः परा ह्यर्थाः’ इति इन्द्रियापेक्षया परत्वेन प्रतिपादितादथात् इन्द्रियविशेषस्य मनसः कथं परत्वमिति शङ्कयम् आकारान्तरेण परापत्वयोरूपपत्तेरिति भावः, । औचित्यभङ्गप्रसङ्गादिति - आत्मशब्दस्यैव महत्त्वेन विशेषणस्योचितत्वादिति भावः । अर्थविरोधत्वादिति- प्रकृतिमहदहङ्काररूपार्थप्रतिपादकत्वात् अस्य सन्दर्भस्य वशीकार्यप्रकरणबाधो युक्त्त इति चेदित्यर्थः । प्राचीनाधिकरणेति - आनुमानकाधिकरण इत्यर्थः ॥ ॥ इति तेजोधिकरणं सामाप्तम् ॥