19 वियदधिकरणम्

अयमर्थ इति - संगतिरित्ययमर्थ इत्युत्तरत्रान्वयः । कार्यविषये परोक्तेति - यद्यपि परस्परविरोधेन वेदान्तानामप्रामाण्यशङ्का परेषामिव वियत्प्राणाधिकरणेषु पूर्वपक्षत्वेन उद्भाव्यते, कार्यताप्रकारविरोधसमाधानमात्रपरत्वात्, तथा वियदनुत्पत्त्यादिपूर्वपक्षोद्भावनपूर्वकं वियदुत्पत्त्यादिश्रुतीनां स्वार्थसमन्वये स्थूणानिखननन्यायेन साधिते सति विप्रतिषेधेन निरस्तानां सांख्यानां हृदि विपरिवर्तमानानां वेदान्तेष्वपि विप्रतिषेधप्रतिवन्दी दूरनिरस्ता भवति, अत एव विरोधाध्यायसंगतिरपि सिद्धा भवतीतिभावः । सूत्राभिप्रायविवरणमिति - न तु श्रुतिशब्दस्य श्रवणार्थत्वप्रतिपादनपरमितिभावः । श्रुतिनिर्देशस्वारस्यादिति - गौणत्वस्य शब्दधर्मत्वेन प्रमितधर्मत्वाभावादितिभावः । निरवयवत्वस्यानित्यगुणसाधारणतया तत्रानैकान्त्यपरिहाराय द्रव्यत्वादित्युक्त्तम्, नचास्य हेतोरसिद्िथः, क्कचिदपि तदभावस्य बुद्धावारोहासम्भवात्, अत्र वियत् नास्तीति निषेधस्य व्याहतत्वात्, “आकाशे चाविशेषात्’ इति वैभापिकाधिकरणसूत्रे - इहेतिप्रत्ययवेद्यो देश आकाश इति व्यवस्थापितत्वात्, न च हेतोरप्रयोज्कत्वम्, निरवयवस्य सवगतस्य समवाविकारणाद्यनिरूपणादितिभावः । तैत्तिरीयकतर्कविरुद्धेति - तैत्तिरीयकगततर्कविरुद्धेत्यर्थः ॥1॥अस्तीति श्रुतिस्साधकतयेति - अस्तीत्यस्मिन्नर्थे श्रुतिः साधकतयेत्यर्थः । उत्पत्तिप्रमितिजननहेतुरेवेति - मानान्तरागोचरत्वस्य श्रौतत्वानुगुणत्वादित्यर्थः । प्रत्यक्षसिद्धत्वमात्रेणेति - मानान्तरसिद्धत्वमात्रेणेत्यर्थः । प्रत्यक्षमनुमानं वेति - शब्दोऽद्रव्यातिरिक्त्तद्रव्याश्रित इत्यनुमानं वेत्यर्थः । अनुमानान्तरञ्चेति - आकाशं नित्यं निरवयवद्रव्यत्वादित्यनुमानान्तरमित्यर्थः । ननु सर्गाद्यसमयादच्छिन्नाकाशस्य पक्षीकारे तु तस्य श्रुत्यैकसमधिगम्यतया तस्यानुत्पत्तिसाधने धर्मिग्राहकमानविरोधः, आमाशमात्रपक्षीकारे तु धर्मिग्राहकमानबाधस्य कः प्रसंग इत्यस्वरसादाह - निरवयवत्वहेतोर्महदादिष्विति । निरवयवत्वहेतोरिति -निरवयवद्रव्यत्वहेतोरित्यर्थः । संयोगविशेषवचनाच्चेति -निरवयवस्य संयोगाभावादितिभावः । सर्वगतद्रव्यत्वहेतोरिति - सर्वगतत्वादित्युक्त्ते नैयायिकमते प्रमेयत्वादिप्रत्यासत्तिजन्यज्ञानस्य सर्वगोचरत्वेन सर्वगततया तस्मिन् व्यभिचाराभावार्थं द्रव्यत्वादिति वाच्यमिति भावः ॥is not available.तपसा ब्रह्मेति । तपसा ब्रह्म विजिज्ञास गौण इति भावः । मुख्यामुख्यविषयतत्वाभावादिति - “अन्वयादिति चेत्स्यादवधारणात्’ इत्यत्र अन्नमयादिषु आत्मशब्दा अपरमात्मबुद्ध्या नोपचारतः प्रयुक्त्ताः, अपि तु परमात्मबुद्ध्यैव, “अन्तः प्रविष्टः शास्ताजनानाम्’ इति तत्तदन्तः प्रवेशेन नियन्तृत्वामात्मत्वम्, तत्र प्राणमये अन्नमयात् अन्तरात्मत्वमात्रेण परमात्मत्वबुद्धिः जाता, तस्यापि अन्तरदर्शनेन तत्रापि परमात्मबुद्धिर्जाता, पूर्वत्र तु निवृत्ता; यस्यादन्यदन्तरं नास्ति र्सक्षणादिकञ्च श्रुतम्, तस्मिन् परमात्मबुद्धिः आत्मबुद्धिश्च प्रतिष्ठिते, एवञ्च पूर्वत्रापि परमात्मबुद्धिविषय एव आत्मशब्दप्रयोगात्, सर्वेष्वपि पर्य्यायेषु आत्मशब्दः परमात्मविषय एव, न तु औपचारिक इति वक्ष्यमाणत्वात्, तत्र्यायेन " अन्नं ब्रह्म” इत्यत्र ब्रह्मशब्दस्यापि ब्रह्मबुद्धया प्रवृतत्वान्न भाक्त्तत्वम्, यथा शुक्त्तौ रजतबुद्धया प्रयुज्यमानस्य रजतशब्दस्य नौपचारिकत्वं तथेत्यर्थः । उभयत्रापि समाधिभङ्ग इति - अनुपङ्गश्रवणावृत्त्योः वृत्तिद्वयविरोधरूपसमयभङ्गः कार्य इत्यर्थः ॥4॥ ॥कार्यतयैवाव्यतिरेको विवक्षित इति भाव इति ॥ ननु नित्यविभूत्यादीनामकार्यत्वेऽपि प्रतिज्ञया अहानिवत् आकाशस्य अकार्यत्वेऽपि प्रतिज्ञाया अहानिर्न प्रसज्यते, न च “येनाश्रुत"मित्यादौ अश्रुतादिशब्दा नित्यविभूतिव्यतिरिक्त्तपराः, उत्तरत्र “सदेव सोभ्येदमग्र आसीत” इति इदङ्कारगोचरस्यैव ततः पूर्वसन्मात्रतापक्षिप्रतिपादनादिति वाच्यम् । इदंशब्दस्य प्रत्यक्षादिप्रमाणोपस्थापिरसर्ववस्तुपरामर्शतया नित्यविभूत्यपरिग्रहे बीजाभावात्, इतरथा अतीन्द्रियपदार्थानां सर्वविज्ञानप्रतिज्ञाविषयत्वं न स्यात्, ततश्च त्यक्त्तव्यम्वा नित्यविभूतीनां नित्यत्वम्, स्वीकर्त्तव्यम्वा आकाशस्यापि नित्यत्वमिति न, अस्य दोषस्य सर्वैरपि समाधेयत्वात्, इतरथा अविद्यावद् आकाशस्यापि अनाद्यध्यस्ततया अजन्यत्वमस्तु, ब्रह्माव्यतिरेकेऽपि तद्वदेव उपपद्यत इत्युक्त्तौ समाधानस्य मृग्यत्वात्, न च कल्पतरौ - तथा प्राण इत्युक्त्तम्, तत्र्यायादत्रापि सषुप्तावपि उपलम्भप्रसङ्ग इति वाच्यम् । अनाध्यद्यस्तेश्वरवत् उपपत्तेः, जीवान्तराविद्यावदनुपलम्भोपपत्तेश्चानन्यथासिद्धप्रमाणबलात् अविद्याजन्यत्वमभ्युपगन्तव्यम्, आकाशे न तथा, प्रत्युत्पत्तिश्रुतिरेववर्तत इति, यदि तर्हि प्रकृतेऽपि नित्यविभूतावपि समानमेतत्’ ॥अवान्तरसाध्यविषयहेतुभेदानामिति - “असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद् युक्त्तेः शब्दान्तराच्च” इत्यादाववान्तरसाध्यविषयत्वात्,असमस्तपदोपात्तहेतूनामप्येकसूत्रप्रतिपाद्यत्वं दृष्टं परमसाध्येऽपि समस्तपदोपात्तहेतूनामेकसूत्रप्रतिपाद्यत्वं दृष्टम्, “कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च” इत्यादिष्विति भावः । इदञ्च चशब्दाभावस्थल इति द्रष्टव्यम्, तेन “वाङ्मनसि दर्शनाच्छब्दाच्च” उपादानाद्विहारोपदेशाच्च” इत्यादौ परमसाध्ये असमस्तपदोपात्तहेनूनामपि एकसूत्रप्रतिपाद्यत्वं दृश्यत इति न चोदनीयम् ॥6॥ननु कार्य्यत्वं सिद्धवत्कृत्य कथं विभागशब्दिता उत्पत्तिः समर्थ्यते । विकारशब्दितकार्यत्व एव विवादादितरथा उत्पत्तावप्यविवादादिति चेत् न, छान्दोग्ये क्कचिद्विकारेषु उत्पत्तिवादाभावस्य गतिप्रदर्शनभावपरत्वेनाऽददोषात् ।is not available.परे त्वित्यादि - परमसाध्यत्वाभावादिति । विप्रतिषेधमात्रस्य स्वतोऽनिष्टत्वाभावेन तस्यैव पूर्वपक्षपर्य्यवसानभूमित्वाभावादित्यर्थः । न विप्रतिषेधमात्रं पूर्वपक्षितम्, नाप्युत्पत्तिसिद्धान्त्येकदेशिनतं कृत्वेति पाठः, यद्यपि कल्पतरौ - एवमध्यायपरिसमाप्तेः प्रथमं विप्रतिषेधादप्रामाण्येन पूर्वपक्षः, तत एकदेशिमतेन व्याख्या ततः सिद्धान्त इति दर्शनीय इत्युक्त्तम्, तथापि तस्य ग्रन्थस्याधुनिकत्वात् तन्नोद्धाटितामिति द्रष्टव्यम् । हेतुतया उपन्यासोऽनुपपन्न इति - ननु वाचस्पतिना तैत्तिरीयके वियदुत्पत्तिश्रुतिः यद्यप्यस्ति, तथापि तस्याः प्रमाणान्तरविरोधात्, बहुश्रुतिविरोधाच्च गौणत्वम्; ततश्च मुख्यार्थश्रुत्यभाव एवाश्रुतेरित्यस्यार्थः, ततश्च “वियदश्रुतेः’ “गौण्यसम्भवात्, शब्दाच्च, स्याच्चैकस्य ब्रह्मशब्दवत्’ इति सूत्रचतुष्टयमपि सिद्धान्त्येकदेशिमतमस्त्विति पूर्वपक्षसूत्रम्, तस्य च आकाशसृष्टिप्राथभ्यपअतिपादकं तैतिरीयके, तेजस्सृष्टिप्राथम्यप्रतिपादकञ्च छान्दोग्येऽस्ति, अतः श्रुत्योः परस्परप्रतिषेध इति व्याख्यातमिति चेत्, सत्यं व्याख्यातम्, तत्तु शाङ्करभाषेयविरुद्धमिति भाष्टाभिमतयोजनयैव दूषितमिति द्रष्टव्यम् । पृथक् परिहरणीयत्वाभाताच्चेति - ननु “वायुश्चान्तरिक्षञ्चैतदमृतम्’ इति उभयसाधारण्येन अमृतत्वमुक्त्ता पुनः वायोः विशिेष्योच्यते “सैषाऽनस्तमिता देवता यद्वायुः’ इति अतोऽभ्यासाद्वायोरमृतत्वं विवक्षितमिति ज्ञायते, अभ्यासे भूयस्त्वमर्थस्य भवतीति न्यायात्, अधिकाशङ्काव्यवृत्यर्थमतिदेशाधिकरणमेवास्तु, नतु पृथभ्योगकरणमुत्तरार्थमिति सामाधानं युक्त्तम्, तेनसि विशेषपक्षपाताभावात् “तेजोऽतस्तथाह्माह’ इत्येव वूत्रयितव्यम्’ अहङ्कारस्तथेत्याहेति वा वक्त्तव्यम् । महदहङ्कारादीनामपि तन्मिन्नधिकरणे विषयत्वस्य भाष्य एव वक्ष्यमाणत्वात्, अतः पृथग्योगकरणमुत्तरार्थमिति नातीव युज्यत इति चेत् सत्यम्, महदहङ्काराकाशवाय्वादिसाधारणावेव पूर्वोत्तरपत्तौ, तथापि “तदैक्षत तत्तेजोऽसृजत"इति बहुभवनसङ्कल्पपूर्वकसृष्टेः स्फुटप्रतिपादनेन सिद्धान्तावतरणस्य सौलभ्यं पर्य्यालोच्य “तेजोऽतस्तथा ह्याह’ इति सूत्रयिष्यन् तदर्थेऽधिकाशङ्कामाद्येऽप्यतिदिशति “एतेन मतिरिश्वा व्याख्यात;’ इति, अतो न किञ्चिदवद्यमित्युत्पश्यामः । ॥ इति वियदधिकरणम् ॥