अन्यथा वेति पक्षस्य भाष्ये दूषराभावामाशङ्कयाह - उभयात्मकत्वेचेति । पराभ्युपगमप्रकारेणेति - सिद्धान्त्यभ्युपगतप्रकारेणेत्यर्थः । ननु “नेष्टं तदपि धीराणां विज्ञानं पारमार्थिकम् । एकानेकस्वमावेन वियोगाद्वियदव्जवत् । न सन्नासन्नसदसन्नचाप्यनुभयात्मकम् । चतुष्कोटिविर्निमुक्त्तं तत्वं माध्यमिका विदुः । इति चतुप्कोटिविर्निमुक्त्तस्यैवोक्तेः कथं सत्वासत्वयोः एवं तावदित्याशङ्कय चतुष्कोरितिर्निमुक्त्तत्वमपि सदात्मना असदात्मना सदसद्विलक्षणात्मना च असत्वमिति असत्वकोटावेव पर्यवस्यतीत्यभिप्रायेण आह - न हि शून्यवादिन इति । उभयात्मकत्वे च अवस्थान्तरापत्तिरेव उक्त्ता स्यादिति अमुमर्थं सिंहावलोकितकेनोपपादयति । घटस्स्वापेक्षयेत्यादिना- अणुहेतुको भूतभौतिकसंहतिरूप इति । अणुहेतुको भूतभौतिकसंगो बाह्यः, चित्तच्चैत्तात्मा आन्तरः पञ्चस्कन्धारम्भः पञ्चस्कन्धीरूपश्च समुदायो बाह्य उभयहेतुकः समुदाय इति परैरपरैश्चोक्तमित्यर्थः । ज्ञानमिथ्यात्वार्थसत्यत्वयोरन्यतरप्रसंगादिति - उभो रैक्यज्ञानस्य सत्यत्वेऽर्थस्यापि सत्यत्वं स्यात्, अर्थस्य मिथ्यात्वे ज्ञानस्यापि मिथ्यात्वं स्यादित्यर्थः । यद्वाऽर्थेनाश्रेयणेनेति - यद्यपि शाघ्कयभाष्ये नेयं व्याख्यास्पष्टं प्रतीयते; अर्थानुपलब्धिपरतयैव व्याख्यातत्वात् । वासनानुपलब्धिपरतया व्याख्यानादर्शनात्, तथाऽप्यभिप्रेतत्वसम्भवाद्वाएवनुक्त्तमिति दृष्टव्यम् । अन्ये त्वित्यादि - शून्यवादिनिरासपरतया व्याख्यातसिति; “नाभाव उपलब्धेः’ “वैधर्म्याच्च न स्वप्नादिवत्’ इति सूत्रद्वयं सिद्धान्त इव तन्मतेऽपि योगाचारमतनिराकरणपरत्वात् नोद्भावितमिति दृष्टव्यम् । अर्थसद्भावप्रतिधेधरूपेण वैषम्यस्येति - ज्ञानास्तित्वं वैभाषिकसौत्रास्तिकयोगाचाराणां त्रयाणामपि सामानम्, तत्र चाद्ययोरर्थस ूद्भावप्रतिषधवादि निराकरणमिष्ट मिति भावः । नापि स्वयमसदिति - असतः पदार्थात् उतपत्तिर्नास्ति, असतः पदार्थस्योत्पत्तिर्नास्तीति प्रतिज्ञाद्वयं सूत्रे विवक्षितमिति भावः ॥ ॥ इति सर्वथानुपपत्त्यधिकरणम् ॥