10 प्रयोजनवत्त्वाधिकरणम्

is not available.कन्तुकाद्यारम्भस्य लीलात्वं युक्त्तमित्यादि - ननु केवलं लीलैकप्रयोजनाः कन्तुकाद्यारम्भा दृश्यन्ते । जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति कन्तुकारम्भजन्मस्थितिध्वंसादेर्लीलप्रयोजनकत्वप्रतिपादकभाष्ये विद्यमाने तदनादरेण कन्तुकाद्यारम्भस्य लीलात्वं युक्त्तम् । यत्नगोरवाभावाज्जगद्य्वापारस्य लीलात्वमनुपपन्नमिति कथं व्यापारस्यैव लीलात्वकथनमिति चेत्- अत्र केचित्; “क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमितिचापरे देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा’ इति माण्डूक्यश्रुतौ सृष्टेर्लीलाथर्त्वस्य परपक्षत्वोपन्यासात् लीलाशब्दोत्रानायासकर्मपरः, लीलामात्रमेतस्य भारत्रयधान्यवहनमिति । तत्रापि प्रयोगदर्शनात्, यथा अङ्गुलिचालनादयोऽनायाससाध्याः क्रियाः, न प्रयोजनापेक्षाः । अत एव न तत्र प्रयोजनप्रश्नः, तत्प्रश्नेपि तूष्णीमेवोत्तरम्, एवं परमात्मनोप्यनायाससाध्याः सृष्टयादिक्रियाः, न प्रयोजनापेक्षाः, अत्र च “अखिलभूवनजन्मस्थेमभङ्गादिलीला’ इत्याद्यपद्यस्यैव साक्षित्वात् केवललीलैकप्रयोजनाः कन्तुकाद्यारम्भाः ध्वंसादेर्लीलैव प्रयोजनमिति भाष्यस्यापि स्वस्य स्वयं दास इतिवत् स्वस्य स्वयमेव प्रयोजनमित्यर्थे तात्पर्यमित्येवाचार्याभिप्रायं वर्णयन्ति ॥is not available.is not available.स्वान्यत्वज्ञानाच्चेति न लीलासम्भव इत्युत्तरत्रान्वयः । विषमसृष्टया सम्बन्धमर्हतीति - ननु पररीत्या ईश्वरेण सृष्टेत्यथर्ः । नहीश्वरश्चेत् कर्मसापेक्ष इति नियमो नहीत्यर्थः । एवं सृष्टिश्चेदित्युत्तरवाक्येपि द्रष्टव्यम् । समष्टितत्त्वसृष्टाविति - ननु कार्यमात्रे जीवदृष्टस्य कारणत्वात्तत्रापि कर्मसापेक्षत्वं शक्यते वक्त्तुमिति चेन्न; मुक्त्तापेक्षितमाताश्चित्रादिभोग्यसृष्टौ व्यभिचारेण सर्वत्र कार्ये तत्सापेक्षत्वाभावादिति भावः । सूत्राभिप्रायो भवतीत्यभिप्रायेणाहेति - सूत्राभिप्रेतो भवतीत्यभिप्रायेणोक्तवानित्यर्थः । सूत्रमप्यधिकरणान्तरमाहुरिति - यद्यपि मृषावादिमतेपीदं सूत्रमधिकरणान्तरमिति कल्पतरौ व्यक्त्तमुक्त्तम्, तथापि भाष्यभामत्योरप्रतीतत्वादेवमुक्त्तमिति द्रष्टव्यम् । प्रलयात्ययज्ञानजन्मत्वादिति - प्रलयोऽतीत इति ज्ञानजन्यत्वादित्यर्थः । योग्यतान्तरानुपपत्तेरिति - प्रबोध शक्त्तेरपि योग्यतारूपत्वादितिभावः । प्रलयकालात्ययज्ञानादीति - प्रलयकालात्ययं जानातीत्यर्थः । ॥ इति प्रयोजनत्वाधिकरणम् ॥ #missing colphon.