09 कृत्स्नप्रसक्त्यधिकरणम्

is not available.is not available.is not available.is not available.श्रुतेस्तु शब्दमूलत्वा’ दिति सूत्रेण पौनरुक्त्यमाश्ङ्कयाह । श्रुत्या निरवयवत्वेति - नन्वपहतापाप्मेत्यादीनामपि धर्मिवैलक्षण्यद्वारा सर्वशक्त्तियोगलक्षणधर्मवैलक्षण्यापादकत्वस्यापि सम्भवात् सत्यकामस्सत्यसङ्कल्प इत्यस्य विशेष्यसर्वशक्त्तियोगप्रतिपादकत्वकथनं भाष्ये कथमित्याशङ्कयाह - एवं धर्मिवैलक्षण्यादिति । आसन्नेति - धर्मिवैलक्षण्याद्धर्मवैलक्षण्यमात्रं सिध्येत्, नतु सर्वशक्त्तियोगरूपधर्मविशेषः । पारिशेष्यादिना तत्सिद्धिस्तु विलम्बिता ।सत्यसङ्कल्पत्वलक्षणकार्यलिङ्गसर्वशक्त्तिप्रतीतिस्तु शीघ्रं भवतीतिभावः । चन्द्रद्वित्वाभावेपि चन्द्रो बहुधा विभज्य इति पाठो दृश्यते, वस्तुतस्तु चन्द्रानेकत्वाभावेपि चन्द्रोऽनेकधाप्रतीयत इत्यर्थः । वस्तुतोऽनेकत्वशून्यस्यापि चन्द्रस्य तिमिरकल्पितानेकत्ववदिति पर्यवसितोर्थः । नात्मा श्रुतेरित्यादि । एषु सूत्रेषु श्रुतिशब्दादिपदस्य मिथ्याविषयत्वाभावस्य सिद्धत्वादित्यर्थः । नित्यसम्पन्नत्वादिति - ततश्च सुषुप्तिकाल इत्यनुपपन्नमिति भावः । तस्यैन्द्रियिकत्वादिति - ततश्च द्रष्टव्य इति विधिवैयर्थ्यमिति भावः । द्वितीयपक्षे परिहारमाशङ्कते - यदेव ब्रह्मेति । ननु सर्वत्रापरमार्थभूते अविद्यासंसर्गे विद्यमानेपि परमार्थभूताविद्यासंसर्गाभावान्न कृत्स्नप्रसक्त्तिरित्याशङ्कते - न तावता अविद्यानिर्मुक्त्तब्रह्मसिद्धिरिति । परिणामोपयोगिन्या अविद्यया वियुक्त्तब्रह्मासिद्धिरित्यर्थः । सर्वमपि ब्रह्म जगदाकारेण परिणमेतेत्यर्थः । यादृशोऽभिमत इति - जगदाकारेण परिणामोपयोगी यादृशोभिमत इत्यर्थः । कायर्प्रयोजककारे विद्यमाने तदप्रयोजकाकारनिवृत्तेरप्रयोजकत्वे दृष्टान्तमाह - यथा स्वप्नदृष्टेति । किञ्च किमविद्याकल्पितेति - ननु शाङ्करभाष्ये अविद्याकल्पितेन नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्मपरिणामादिसर्वव्यवहारास्पदत्वं प्रतिपाद्यते, पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमेव तिष्ठत इति ृङ्गग्राहिकयानिर्वचनीयस्य नामरूपलक्षणभेदस्यैव अविद्याकल्पितरूपत्वेन प्रदर्शितत्वात् तथा वाचस्पत्येपि नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामव्यवहारास्पदं ब्रह्म पतिपद्यते । न च कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकजनस्य द्वित्वकल्पनं चन्दमसो द्वित्वमावहति । द्वित्वानुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः । तस्माद्वास्तवपरिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहतीति स्पष्टं प्रतिपादितत्वाच्च कथमस्य विकल्पस्यावकाशः? अस्तु वा कथञ्चिदवकाशः; तथाप्यविद्याविशिष्टस्य वा तदुपलक्षितस्य प्रधानस्य वा अविद्याकल्पितरूपभेदशब्दार्थत्वे तेषामवयवत्वमेव सिध्येत्, न तु सावयवत्वम् यथा देवदत्तो यज्ञदत्तेन पितृमानित्युक्त्ते यज्ञदत्तस्य पितृत्वमेवायाति न तु पितृमत्त्वम्; एवमविद्याकल्पितरूपभेदेन सावयवमित्युकतै अविद्याकल्पितरूपभेदस्यावयवत्वमेव सिध्येत्, न तु सावयवत्वमिति चेन्न; अविद्याकल्पितरूपभेदेन सावयवत्वमित्यस्याविद्याकल्पितरूपभेदयुक्त्तं यत्सावयवत्वमित्यस्याप्यर्थस्य सम्भवात्, तत्र च सावयवत्वेन प्रतिपिपादयिषितम् अविद्याकल्पितनामरूपयुक्त्तं ब्रह्म किमविद्याविशिष्टम्, उतोपलक्षितम्, उत प्रधानं वेति विकल्पसम्भवान्नानुपपत्तिः, किमविद्याकल्पितं किमविद्याविशिष्टमिति ग्रन्थे अविद्याकल्पितं रूपं यस्येति बहुव्रीहिः, ततश्चाविद्याकल्पितनामरूपयुक्त्तमित्यर्थः । अतो नानुपपत्तिरिति द्रष्टव्यम् । तदुभयविरोधपरिहार इति - कृत्स्नप्रसक्त्तिनिरवयवत्वपरिहार इत्यर्थः । पाश्चात्यसूत्रद्वयार्थस्येति - सर्वोपेता च । विकरणत्वान्नेतिचेदिति सूत्रद्वयार्थस्येत्यर्थः । उपपाद्यकोटिघटकमिति - सर्वकारणत्वोपपाद्यत्वान्नामरूपोपेतत्वस्येत्यर्थः । ननु निरवयवस्य सर्वकारणत्वे श्रुतिवाक्यस्यैव साक्षादुपपादकत्वात्तदेवास्मिन्विवक्ष्यताम्, किं सवर्शक्त्तियोगोपन्यासेनेति ।