08 उपसंहारदर्शनाधिकरणम्

सङ्कुचितवृत्तित्वशङ्कयोत्थानादिति उपकरणान्तरसद्भावदशायां सङ्कल्पस्य सत्यत्वेपि तद्राहित्यदशायां सङ्कल्पस्य सत्यता नास्तीति सङ्कोच इत्यर्थः । किं बाह्यकरणसापेक्षत्वमुच्यते, उतान्तः करणसापेक्षत्वम् ? आद्ये क्षीरादौ व्यभिचारः । द्वितीये कालादृष्टाद्यनन्तकारणसद्भावान्न ब्रह्मणस्स्रष्टृत्वविरोध इत्यभिप्रयन्नाह, भाष्ये- यथा क्षीरजलादेरिति ।वैदिकं दृष्टान्तमाहेति - क्षीराचेतनस्य कार्यजनने ब्राह्यकारणे निरपेक्षत्वेपि चेतनस्य बाह्यकरणान्तरसापेक्षत्वमस्तीत्याशङ्कय वैदिकदृष्टान्तमाहेत्यर्थः । भाष्ये - सुखग्रहणायेति प्रतिपत्तव्यमिति । परमितशक्त्तीनां देवादीनामपि श्रुतिवशात्तादृशसामर्थ्येऽभ्युपगम्यमाने किमु वक्त्तव्यं सर्वशक्त्तेः परस्य ब्रह्मणः इति ग्रहणायेत्यर्थः ॥