07 इतरव्यपदेशाधिकरणम्

अर्हशब्दो मुक्त्तव्यावृत्तिपर इति - सुखदुःखयुक्त्तात्प्रत्यगात्मनोऽधिकमित्युक्त्ते मुक्त्तादाधिक्यं
न प्रतिपादितं स्यादित्यर्थः ।ननु उभयेपीतिसूत्रस्य कथमादिपदग्राह्यत्वम् ? तस्य भेदप्रतिपादनमात्रप्रवृत्तत्वेन प्रकारप्रकारिभावाप्रतिपादकत्वादित्याशङ्कयाह - उभयेपीत्यादिसूत्रमिति । घटकवाक्यविषयमिति - यो विज्ञाने तिष्ठन्नित्यादिना शरीरशरीरिभावप्रतिपादनादितिभावः । भाष्ये- अविद्यावियुक्त्तावस्थामभिप्रेत्येति । नित्यशुद्धवद्धमुक्त्तस्वभावस्य ब्रह्मणो जीवाद्भेदं वर्णयन्तीत्यर्थः । एवं हि तत्र परेषां भाष्यम्; यत्सर्वज्ञं सर्वशक्त्ति ब्रह्म नित्यमुक्त्तशुद्धबद्धस्वभावं शारीरादधिकमन्यत् तत् वयं जगतः स्रष्टृ ब्रूम इति । ततश्चाविद्यावियुक्त्तावस्थामभिप्रेत्येति वदन्तं प्रति किमविद्यावियुक्त्तस्य वा, तत्संसृष्टस्य वा ? इतिविकल्पमुखप्रवृत्तोत्तरभाष्यस्य कथं प्रवृत्तिः ? कथं वा ब्रह्मणो जीवाद्भेदे वक्त्तव्ये जीवस्य ब्रह्मणो भेद इति शङ्काद्वयं निरवकाशम्, तस्य वाक्यस्य नित्यशुद्धस्वभावस्य ब्रह्मणो जीवप्रतियोगिकभेदस्य प्रतिपादनपरत्वेनादोषादिति द्रष्टव्यम् । तत्र परभाष्ये नित्यशुद्धबद्धमुक्त्तस्वभावमितिविशेषणादविद्यावियुक्त्तस्येति पक्षस्योत्थानम् सर्वज्ञं सर्वशक्त्तीतिविशेषणात् अविद्यापरिकल्पितस्येतिपक्षस्योत्थानमिति पक्षद्वयसम्भवं हृदि निधाय विकल्प्य दूषयतीत्याह - जीवादविद्यावियुक्त्तस्येत्यादि । अकल्पितजीवस्वरूपज्ञानस्येति - परमार्थप्रत्यगभिन्नब्रह्मस्वरूपज्ञानाय विचारस्य कर्तव्यतया जिज्ञासासूत्रे प्रतिपादनादित्यर्थः । अबाधिते भेदव्यवहारे “सोन्वेष्टव्यः स विजिज्ञासितव्यः’ इत्येवञ्जातीयेन भेदनिर्देशेनावगम्यमानं ब्रह्मणेऽधिकत्वं हिताकरणादिदोषं निरुणद्धीति परभाष्योक्तमर्थादनुवदति - किञ्च तत्त्वमस्यादिवाक्यार्थप्रतिबोधनात्प्रागीश्वरस्य भेदेन प्रतिपाद्यमानस्य हिताकरणाद्यप्रसक्त्तिरिति । भेदेन प्रतिपाद्यमानस्य भिन्नतया निर्दिश्यमानस्येत्यर्थः । ननु भेदसत्त्वेपि तान् जीवानात्माभिन्नाननुभवतो हिताकरणादिदोषः किं न स्यादित्याशङ्कयम्, सत्यम्, अयं परमात्मा सर्वज्ञत्वात् यथा जीवान् वस्तुत आत्मनोभिन्नान्पश्यति एवं तत्त्वत एषां सुखदुःखादिवेदनासंयोगोऽस्ति अविद्यावशात्तेषां तद्वदभिमान इति पश्यति तथा च तेषां सुखदुःखादिवेदनायामपि अहमुदासीन इति । न च बन्धनागरनिवेशेपि अस्ति काचित्क्षतिमर्मेति । न हिताकरणादिदोषापत्तिरिति वाचस्पतितोक्तमनुवदति- मिथ्याभूतैर्जीवगतदोषैरिति । अस्यायंभावः, यथा ईश्वरः सर्वज्ञत्वात्स्वाभिन्नतया जीवान्पश्यति तथा सर्वज्ञत्वादेव तद्गतांश्च दोषान् मिथ्यात्वेन पश्यत्येवेति तस्य संसारप्रवर्ततेपि स्वाभिन्नस्य दुःखाप्रसक्त्तेः हिताकरणादिदोषप्रसङ्ग इति । यदा तत्त्वमसीत्येवञ्जतीयकेन भेदनिर्देशनाभेदः प्रतिबोधितो भवति, अपगतं तदा जीवस्य संसारित्वम्, ब्रह्मणश्च स्रष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यज्ज्ञानोदयेन बाधात् कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषा इति भाष्यमनुवदति - ऐक्यज्ञानोदयात्पश्चादिति । वक्त्तॄणामित्यादि - अयं भावः, तत्त्वमस्यादिवाक्यजन्यज्ञानात्प्राग्भेदव्यवहारः, ततः पश्चान्न भेदव्यहार इति वक्त्तुं युक्त्तम् “तद्यो देवानां प्रत्यबुध्यत स एतदभवत्’ इत्यादिश्रुतेः । शुकस्तु मारुताच्छीघ्रां गतिं कृत्वा अन्तरिक्षगः । दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्’ इत्यादिशुक्त्तमुक्त्तत्वप्रतिपादकप्रमाणाच्च शुकादीनां तत्त्वज्ञानावश्यम्भावात् शुकादीनां जातेपि तत्त्वज्ञाने इतरेषां यथापूर्वं भेदव्यवहारस्य स्थितत्वात् यस्य तत्त्वज्ञानं तस्य न भेदप्रतिभास इत्येव वक्त्तव्यम् । ततश्चेश्वरस्य तत्त्वज्ञाने विद्यमानेपि भेदप्रतिभाससंसारतन्त्रप्रवतर्कत्वादिकं न स्यादिति । भेदेन प्रतिपत्तेरिति - ल्यप्लोपे पञ्चमी, भेदप्रतिपत्तिमपेक्ष्येत्यर्थः । ईश्वरस्य तत्त्वमस्यादिवाक्यार्थानवबोधाधीनभेदप्रपित्त्यधीनस्रष्टृत्वनिबन्धनदोषपरिहारोऽनुपपन्न इत्यर्थः । स्रष्टृत्वे सति हिताकरणादिदोषः परिहार्यः । तत्त्वमस्यादिवाक्यार्थानवबोधाधीनभेदप्रतिपत्त्यधीनस्रष्टृत्वस्यैवाभावेन सृष्टिनिबन्धनहिताकरणादिोषाप्रसक्तया तत्परिहारो न प्रतिपाद्यः स्यादितिभावः । दोषपरिहारोऽनुपपन्न इति - ननु परभाष्ये अश्मादिवच्च तदनुपपत्तिरिति सूत्रे पाषाणत्वाद्यविशेषेपि वज्रवैडूर्यसूर्यकान्तादिवैचित्र्यवद्वृक्षे पत्रपुष्पादिवैचित्र्यवत्स्वप्नदृश्यभाववैचित्र्यवज्जीवप्राज्ञपृथक्तवमनुपपन्नमित्युक्त्तम् । तच्च सूत्रं हिताकरणादिदोषप्रसक्त्तिनिवारकतया परैर्व्याख्यातम् । यदि ब्रह्मविवर्ततो जीवः स्याद्धन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्गइत्यत आह - अश्मादिवच्च तदनुपपत्तिरिति । वाचस्पतिना अश्मादिवच्च तदनुपपत्तिरिति सूत्रस्यावतारितत्वेन तस्य सूत्रस्य चिदचिद्वैचित्रीमात्रप्रतिपादनहिताकरणादिदोषपरिहारपरत्वाभावेन वक्ष्यमाणदोषाणां प्रसक्त्तिरितिचेत् सत्यं वाचस्पतिना तथा व्याख्यातम्; न तु तदुपपत्तिमत्, हिताकरणादिदोषप्रसङ्गे तदवैचित्र्यशङ्काया अनुत्थितेः तत्परिहारस्यावक्त्तव्यत्वात्, न विलक्षणत्वादित्यादौ कृतकरत्वाच्च, अतो वाचस्पत्युक्त्तस्यानुपपन्नतामभिप्रेत्य यथाश्रुतभाष्यदूषणमुपन्यस्तम् । कर्मारब्धेनेति - शरीरेणेतिशेषः । कर्मवश्येनेति - जीवेनेतिशेषः । तत्रासत्कार्यवादनिराकरणं दृश्यत इतीति - तत्रासत्कार्यवादनिराकरणस्यापि दर्शनादित्यर्थः । ॥ इतरव्यपदेशाधिकरणम् ॥