06 आरम्भणाधिकरणम्

तदसत्त्वमिति सूत्रं शिक्षणीयमिति - न विलक्षणत्वादित्यादिषु प्रपञ्चस्यापि प्रकृतत्वाविशेषेण तच्छब्देन प्रपञ्चस्यापि परामर्शः सम्भवतीति भावः । सन्मात्रस्य कारणादनन्यत्वं स्यादिति - कार्यस्य कारणानन्यत्वं नाम कार्यशब्दोपलक्षितस्य सन्मात्रस्य कारणशब्दोपलक्षितत्वात्सन्मात्रादनन्यत्वमिति पर्यवसिताथर् इति भावः । पत्रपुष्पाद्युपादानत्वमिति - शाखागतपत्रपुष्पाद्युपादानत्वमित्यर्थः । ननु शाखागतपत्रपुष्पाणां चन्द्रगतत्वे प्रमाणाभावात् चन्द्रोपादानकत्वाभावेपि प्रपञ्चस्याविद्यागतत्वमेव न ब्रह्मगतत्वमित्यत्र प्रमाणाभावात्, प्रत्युत ब्रह्मण एव उपादानत्वग्राहकश्रुतिसत्त्वात् तदुपलक्षितस्य ब्रह्मण उपादानत्वं वक्त्तुं सुशकमिति चेन्न, ब्रह्मणो निर्विकारत्वश्रुतिबलेन तदसम्भवात् । न च विकारस्यापारमाथिर्कत्वात्तदविरोध इति वाच्यम्; अद्याप्यपारमार्थिकत्वासिद्धेस्तथा निर्वाहायोगादिति भावः । यद्य्वतिरेकेणेति - “भावे चोपलब्धे’रितिसूत्रे भाव इत्येतदुपलब्धेरप्युपलक्षणम्, उपलब्धेरित्येतत् भावस्याप्युपलक्षणम्; तथाच भावे उपलब्धौ च भावदुपलब्धेश्चेत्यर्थः, ततश्च कारणभावे कार्यस्य भावात् कारणोपलब्धौ कार्योपलब्धेश्च कार्यस्य कारणादनन्यत्वमिति व्याख्यातमित्यर्थः । धूमाग्न्योरिति - अग्निभाव एव धूमस्य भावः । आलोकोपलम्भे सत्येव रूपोपलम्भ इति एकैकसत्त्वेपि धूमस्य अग्न्युपलम्भानुविधाप्युपलम्भविषयत्वाभावात् रूपस्य चालोकसद्भावानुविधायित्वसद्भावाच्च न व्यभिचार इति भावः । जातीयव्यक्तयोरनेकान्तत्वाच्चेति - यद्यपि जात्युपलम्भ एव व्यक्तयुपलम्भ इति न नियमोऽस्ति, दूरत्वादिदोषवशेन गोत्वब्राह्मणत्वाद्यग्रहेपि व्यक्त्तिग्रहणसम्भवात्; तथाप्यसति बाधके तदुपलम्भानुविधाय्युपलम्भवत्त्वमस्तीति भावः । निरधिष्ठानभ्रमासम्भवनिराकरणेनेति - श्लोकः स्वरूपानादित्वस्वपरघटने दुर्घटनता प्रवाहानादित्वं पुनरिति चतस्त्रो हि गतयः । असत्या विद्याया वदितुमनवस्थापरिहृतौ मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ’ इति दत्तोत्तरमित्यर्थः । सामान्यरूपमिति - जातिरूपमित्यर्थः । उपाधिरूपमिति - अर्थक्रियाकारित्वप्रमाविषयत्वतद्योग्यत्वादिरूपमित्यर्थः । तदवस्थतन्त्वादिभाव एव प्रावरणादिकार्यदर्शनादिति - पटावस्थतन्त्वादित एव प्रावरणादिलक्षणस्य घटकार्यस्य दर्शनात्तन्त्वादिरेव प्रावरणादेः कारणम्; न तन्त्वादिव्यतिरेकेण पटादिः कश्चिदस्तीत्यर्थः । निर्विषयत्वप्रसङ्गमेवोपपादयति - सद्द्रव्यं हीति । तत्र दूषणमुक्त्तमिति सत्यपीत्यादिना सर्वदा कारकव्यापारेण नोपरन्तव्यमित्यन्तेन भाष्येणेत्यर्थः । नहि घटार्थमारोपित इति । ननु वर्णनित्यत्वपक्षे उच्चारणविशेषाणां वर्णविशेषव्यञ्जकत्वनियमवत्कारकव्यपारेष्वप्यभिव्यङ्गयनियमोपपत्तेः, वर्णनित्यत्वपक्षेपि रविकिरणैर्युगपदभिव्यङ्गययोर्नैल्योत्पलत्वयोः प्रदीपप्रभया उत्पलत्वस्यैवाभिव्यक्त्तिर्न नैल्यस्य, वियति विक्षिप्तकूपजलगतशौक्लयजलत्वयोः रविकिरणैस्सहोपलब्धावपि कूपान्तरावस्थितिसमये रविकिरणैर्जलत्वस्यैवाभिव्यक्त्तिरित्यादिव्यवस्थादर्शनादवस्थानां प्रतिनियतव्यञ्जकव्यङ्गयत्वमुपपद्यत इति चेदुच्यते, केयमभिव्यक्त्तिः ? ज्ञानं चेत्तदा दण्डचक्रादिमेलनस्य घटज्ञानकारणत्वापत्त्या तदपनयनानन्तरं घटज्ञानादयो न स्युः, आवरणापनयश्चेत् घटसामग्रया किमावरणमपनीयते ? ननु मृदि पूर्वस्थिता पिण्डावस्था, तस्या नित्यमेव स्थिताया अपि घटावस्थायाआवरणं तदा आवृतत्वात् सा तदा न प्रतीयते; घटसामग्रया पिण्डावस्थोपमर्दे सति तिलपीडनेन तैलमिव अवघातेन तण्डुल इव दोहनेनपय इव खननेन कूपजलमिव प्रक्षालनेन पटशौक्लयमिव प्रतीयते । न च तथासति मुद्गरपातानन्तरमपि घटावस्थायाः प्रतीतिप्रसङ्गः, तदावरणभूतायाः पिण्डावस्थाया अपि तिरोहितत्वादिति वाच्यम्, मुद्गरपाताभिव्यक्त्तायाः कपालत्वावस्थायास्तदावरणत्वात् । कारणेऽभिव्यक्त्तायाः कस्याश्चित्कार्यावस्थायास्तद्गतसकलकार्यावस्थान्तरावरणत्वाभ्युपगमात् । नच तथा सति कपालेषु कदादिद्घटकारणमेलने सति घटावस्थाभिव्यक्त्तिप्रसङ्गः, इष्टापत्तेः । कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनव्यापारैर्मार्दवं प्रापय्य दण्डचक्रादिमेलने घटावस्थाभिव्यक्त्तिदर्शनात् । नच दग्धपटानां पुनः पटभावो न दृश्यत इति वाच्यम्, तद्भस्मनां क्षितितलपतितानां क्षितिप्ररूढकार्पासतरुफलपरिणतौ क्रमेण तेषां पटभावोपपत्तेः । न च तन्त्ववस्थायाः पटवस्थावरणत्वस्य वक्त्तव्यत्वाद्विरलतन्त्वारब्धपटे तत्तिरोधानशङ्कानास्पदे पटावस्थाभिव्यक्त्तिर्न स्यादिति वाच्यम्; फलबलेन कुविन्दकृतसंयोगविशेषरहिततन्त्ववस्थायास्तदावारकत्वकल्पनात्, तस्मादविशेषिता विशेषिता वा पूर्वकार्यावस्थैव घटपटाद्यवस्थानामावरणमिति, नैतद्युक्त्तम्; तथा परिणाहशालिनी पटावस्था कुविन्दव्यापारात्प्रागपि यथादृष्टेन स्थूलेनैव रूपेण सती तन्तुत्वेनाव्रियते, उत कूर्माङ्गवत्सङ्कुचितेन रूपेण सती ? नाद्यः यथा दृष्टरूपायाः पटावस्थायास्तन्तुषु कुविन्दव्यापारात्प्राग्व्यस्तेषु समस्तेषु वा विप्रकीणर्ेषु संहतेषु वा पर्याप्त्यवृत्त्यसम्भवात् । न द्वितीयः, यथा दृष्टपटावस्थायाः आगन्तुकत्वापरिहारात् । न च वाच्यमनादिरेव सा पटावस्था अद्यतनेषु तन्तुषु न वर्तते, किन्तु मूलकारण इति; तथा सति यत्रेदानीं भविष्यत्पटप्रादुभर्ावप्रदेशे तन्तवो न सन्ति, तत्रावरणाभावेन तदभिव्यक्त्तिप्रसङ्गात् । न च तत्र या काचन कार्यावस्थाऽस्ति सैवावरणं स्यादिति वाच्यम्; तस्याः कुविन्दव्यापारानन्तरमपि सर्वत्रावर्जनीयत्वेन सवर्दा पटानभिव्यक्त्तिप्रसङ्गः, तस्मात् कार्याणि सर्वाण्यपि सादीन्येवेति भावः। मिथ्यात्वे हेत्वन्तरमिति - मिथ्यात्वं तु सदसद्विलक्षणत्वादन्यज्ज्ञाननिवर्त्त्यत्वादिकमितिभावः । व्यतिरेकिणं हेतुमाहेति उप लब्धिविनाशयोगित्वलक्षणं व्यतिरेकिहेतुमाहेत्यर्थः । पक्षेपि साधितत्वेनेति - प्रतिपन्नोपाधौ बाधितत्वरूपो बाधः उपाधेः पक्षवृत्तित्वेन साधव्यापकत्वादितिभावः । उपसंहारादितात्पर्यलिङ्गस्य प्रागनुक्त्ततया यथोक्तशब्देन परामशर्ो न सम्भवतीत्यस्वरसादाह - यद्वा किंशब्दत इति । यद्यपि नचागमावगतार्थस्य प्रत्यक्षविरोधः शङ्कनीय इति ग्रन्थस्योपरि किंशब्दतः प्रतीत्यभावादितिपक्षस्य नोत्थितिः सम्भवति, तथापि सम्भावनामात्रेणैवमुक्त्तमितिद्रष्टव्यम् । जीवाज्ञानपक्षमिति - “तदधीनत्वादर्थवत्’ इतिसूत्रे अविद्यात्मिका सा बीजशक्त्तिरव्यक्त्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी सूषुप्तिः, इतिशाङ्करभाष्यं व्याचक्षाणेन वाचस्पतिना जीवाधिकरणाप्यविद्या निमित्ततया विषयतया वेश्वरमाश्रयत इति ईश्वराश्रयेत्युच्यते, न त्वाधारतया विद्यास्वरूपे ब्रह्मणि तदनुपपत्तेरितिप्रतिपादनात्, तत्रैव न वयं प्रधानवदविद्यां सर्वजीवेषु एकामाचक्ष्महे; येनैवमुपलभ्येमहि, किन्त्वियं प्रतिजीवं भिद्यते, तेन यस्यैव जीवस्य विद्योत्पद्यते तस्यैव साऽविद्यापनीयते, न जीवान्तरस्य, भिन्नाधिकरणयोः विद्याविद्ययोरविरोधात् तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः, न चाविद्योपाधिभेदाधीनः जीवभेदः जीवभेदाधीनोऽविद्याभेद इति परस्पराश्रयादुभयासिद्धिरपि साम्प्रतम् । अनादित्वाद्बीजाङ्कुरादिवदुभयसिद्धेः, अविद्यात्वमात्रेण एकत्वव्यवहार इति प्रतिपादनात् तथा ज्योतिरुपक्रमा’ दिति सूत्रे वाचस्पत्यभिमतं जीवाज्ञानपक्षमुपन्यस्यतीत्यर्थः । अविद्याश्रयत्वोपपत्तेरित्यन्तभाष्यस्यैव एतावानर्थ इति भावः । काल्पनिकत्वोपपत्तिरित्यस्य जन्मजरामरणादिकाल्पनिकत्वपरतयोत्तरत्र व्याख्यास्यमानत्वादिति द्रष्टव्यम् । अशुद्धिविषयभ्रमेणेति- शुद्धस्याविद्याश्रयत्वासम्भवादशुद्धयधीनापि अविद्या अविद्याधीना च अशुद्धिरित्यर्थः । भेदवादेप्यकौशलं विवक्षितमिति - सबहुमानावलोकनकर्त्तॄणामित्यथर्ः । उभयतोपि भ्रष्टैरिति - मतान्तरस्थस्य मतान्तरस्थबहुमानलिप्सया उभयतो भ्रष्टत्वावश्यम्भावादित्यर्थः । भाष्ये- आगतोसि मदीयं मार्गमिति । ब्रह्माज्ञानवादमित्यर्थः । या जीवभेदकल्पिकेति - बद्धमुक्त्तव्यवस्थाहेतुतया जीवाश्रयतया च या अविद्याः सम्प्रतिपन्नास्तासामेव जीवभेदकल्पकत्वमस्तीतिपक्षमनूद्य तत्कल्पकस्य तदाश्रयत्वासम्भवादिति पूर्वोक्तदूषणेनैव दूषयतीत्यर्थः । ततश्च पूर्वदूषणे जाग्रति कथं पक्षान्तरोपन्यास इति न चोदनीयम् । यद्यप्यत्र कल्पिका अविद्या इतिबहुश आवृत्त्या पठ्यते तस्य च निर्वाहःसम्भवति तथापि कल्पिकाविद्येति एवमित्वरहित पाठ एव समीचीनः लेखकदोषादन्यथापाठ इति द्रष्टव्यम् । पूर्वपूर्वजीवभावाश्रयाविद्येतिपूर्वपूर्वजीवभावः आश्रयो निमित्तं यस्या इति बहुव्रीहिः,भ्रमाश्रय इत्यर्थ इति रजतकल्पकत्वं रजतभ्रान्त्याश्रयत्वमिति जीवकल्पकत्वमपि जीवविषयभ्रमाश्रयत्वमिति भावः । स्वेनैव सापेक्षत्वादिति - स्वस्यैव सापेक्षत्वे आत्माश्रयत्वमित्यर्थः । एतद्विभागहेतुरिति - सर्वज्ञस्यापि तस्यमायिनं त्विति मायित्वावेदनान्मायाविद्ययोर्भेदोऽस्तीतिप्रतिपादनादितिभावः । तस्याश्चापरमार्थत्वादिति - मायायाः इच्छाधीनदर्शनानुपपत्तेरपरमार्थत्वाच्चाविद्याकृतमेव तद्दर्शनमित्यर्थः । वक्ष्यमाणानुमानगर्भमिति - बन्धमोक्षव्यवस्था स्वपरव्यवस्थाश्च स्वाविद्याकल्पिता इत्यादि वक्ष्यमाणानुमानैः काल्पनिकत्वस्य सिद्धिं मनसि निधायाहेत्यर्थः । तञ्च भेदवादिनञ्चेति - जीवाज्ञानवादिमते शरीराणां भिन्नभिन्नजीवैरात्मवत्ताया मायैवात्मवन्तीत्यनभ्युपगमादितिभावः । नच प्रथमतृतीययोरप्यनुमानयोर्भेदवादिनिरासकत्वं किं नस्यादिति वाच्यम्; तन्मते अपारमार्थिकत्वात्कल्पितत्वादितिहेतोः असम्प्रतिपन्नत्वादिति द्रष्टव्यम् । सोपाधिकत्वकालात्ययापदिष्टत्वेति - प्रतिपन्नोपाधौ निषेधेन मिथ्यात्वसाधकव्यावर्तमानत्वहेतोः सोपाधिकत्वं मिथ्यात्वस्य प्रत्यक्षादिभिर्बाधः । ब्रह्मव्यतिरिक्त्तस्य सर्वस्य मिथ्यात्वे साध्ये मिथ्यात्वस्य मिथ्यात्वसाधनाद्य्वाहतिः । ब्रह्मणो व्यावर्तमानाद्य्वावर्तमानतया अनैकान्त्यमित्यादिदूषणानि द्रष्टव्यानि । यदि बाधमात्रमेव हेतुरिति - यदि बाधमात्रमेवोपाधिरित्यर्थः । यथा दुर्दिने सायङ्कालभ्रमान्वित इति । ननु दुर्दिने सायङ्कालभ्रमस्थले दुर्दिन रूपकालस्यैवोपाधिशब्दवाच्याधिष्ठानत्वाद्देशकालयोरुपाधित्वव्यभिचारस्य नेदमुदाहरणमिति चेत्, सत्यम्; अध्यस्यमानकालव्यतिरिक्त्तस्यैवोपोधित्वमिति तात्पर्यात् । देशभ्रमे काल उपाधिरिति - सायङ्काले काञ्चीदेशं प्राप्त इति काल उपाधिः । काञ्च्यां सायङ्कालः संवृत्त इति देश उपाधिरिति द्रष्टव्यम् । प्रमाणमुक्त्तमिति - अबाधितं दृश्यमानमिति भाष्येण प्रत्यक्षं प्रमाणमुक्त्तमित्यर्थः । सा प्रतीतिर्मिथ्या चेदिति - सा प्रतीतिः भ्रान्तिश्चेदित्यर्थः । भ्रान्तिजनकत्वपक्षेऽपि कायर्कारणभावः सिद्ध एवेति दूषणे सत्येव दूषणान्तरमाह - बाध एव इति । भाष्ये- स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धेति । ननु कथमाश्रयभूतस्य हेम्न आश्रितस्य स्वस्तिकस्य च अभेदः । तत् कथं स्वस्तिकहेमैक्यप्रतीतिर्घटतामिति चेन्न, गोत्वस्य हेम्नः ? स्वस्तिकावयवरूपत्वेपि द्रव्यत्वादिवत् अपृथक्सिद्धतया ? सत्त्वेन स्वस्तिकं द्रव्यमितिवद्धेमेति प्रतीतौ विरोधाभावादित्यत्र तात्पर्यात् । न हि परशरीरगत आत्मेति - अपरोक्षत्वे च चेष्टादिभिरनुमीयमानत्वं न स्यादिति भावः । ननु चेतनादन्यस्य जडत्वदर्शनात् सर्वचेतनानामनन्यत्वमित्यस्य प्रागुक्त्तत्वात् यच्चोक्तमिति भाष्यं न सम्भवतीत्याशङ्क्याह - सर्वं चेतनजातमहमेवेत्यादिना । अनिष्टप्रसङ्गमाहेति - मोक्षार्थश्रवणार्थप्रयत्ने अविद्याकायर्त्वस्योभयवादिसम्प्रतिपन्नत्वेन हेतुविधयानुमानरूपत्वाभावात् तर्करूपत्वं वाच्यमिति भावः । अभाविन्येव सा पश्चादिति - यदि इतः पूर्वं कस्यापि मुक्त्तिर्नास्ति, केषाञ्चिन्मुक्त्तत्वप्रतिपादिकापि श्रुतिः स्वप्नवाक्यतुल्येत्युच्येत, तर्हि इतः परमपि कस्यापि मुक्त्तिर्न स्यात् प्रतिपादिकाश्रुतिः स्वप्नवाक्यतुल्येत्यर्थः । यद्वा निर्विशेषज्ञानस्येति पूवर्स्मिन् पक्षे निर्विशेषज्ञानस्य ज्ञातृत्वज्ञानगतत्वयोरभावाच्च न प्रतीतिभासव्यवहारौ प्रतिहेतुत्वमित्युक्त्तम् । द्वितीये तु प्रतीयमानतयाप्रकारान्तरेण वा न हेतुत्वमुच्यत इति भिदा । पारमार्थिकापारमार्थिक शब्दाविति - प्रतिभासव्यवहारादेः पारमार्थिकत्वापारमाथिर्कत्वयोर्विषयाधीनत्वादिति भावः । तथात्वेन तेषामानन्त्य मिति - न्यूनाधिकभावेनानन्त्यमित्यर्थः । अत्र केचित्- दशघटाः सहस्रं माषा इति सङ्खयावत्त्वं दृश्यत इत्यानन्त्याक्षेपभाष्यस्य आनन्त्यं दर्शयितुमिति तात्पर्यवर्णनमयुक्त्तमिति वदन्ति । दश घटाः सहस्रं माषा इत्युक्त्तमिति - न त्वैकरूप्येण दश घटा दशमाषा इति वा सहस्रं घटा सहस्रं माषा इति वा उक्त्तमित्यर्थः । सिद्धान्ते- प्रतिजानतोऽभिप्रायमिति । ध्यानस्य विवक्षितत्वात् “सम्प्रतिभ्यामनाध्यान’ इति नात्मनेपदम् । ननु भाष्ये- वाचेत्यस्य वाक्पूर्वकेण व्यवहारेणेत्यर्थः कथं वणिर्त इत्याशङ्क्याह - अजहल्लक्षणेयमिति । उभयोरपि हेतुत्वायेति - वाक्शब्दिताभिलपनस्य नामधेयप्रयोजनत्वेऽपि विकारप्रयोजनत्वाभावात् अज हल्लक्षणया व्यवहारपरामर्शीति भावः । जात्युक्त्तिरिति । श्लों “धर्मस्य तदतद्रूपविकल्पानुपपतः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमा भवेत्’ इति तल्लक्षणम् । अवस्थैवोत्पत्तिरित्यभ्युपगमादिति । ननु घटत्वावस्थावस्थाया एवोत्पत्तिरूपत्वे यावद्घटावस्थत्वमुत्पद्यत इति व्यवहारः स्यात्, न तुत्पन्न इति उत्पत्तेरनतीतत्वान्मृत्पिण्डोनश्यतीति च स्यात्, न तु नष्टः इति नाशस्यानतीतत्वादिति चेन्न; घटत्वावस्थागताऽद्यक्षणसम्बन्धः घटत्वावस्थस्योत्पत्तिः पूवर्ावस्थस्य नाश इत्यभ्युपगमेनादोषात् । ननु यस्यागन्तुकत्वमाद्यक्षणसम्बन्धश्च न तस्योत्पत्तिः, यस्य च द्रव्यस्य नागन्तुकत्वं नाद्यक्षणसम्बन्धश्च तस्योत्पत्तिः लोकविरुद्धा काचन परिभाषा कृता स्यादिति चेन्न; श्रुतियुक्तयनुसारिण्या ईदृश्याः परिभाषाया एव शोभनत्वात् । पृथगुत्पत्तिनिरपेक्षा इति । ननु “छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति छन्दांसि जज्ञिरे तस्मात्’ इत्यादीनां गुणक्रियोत्पत्तिप्रतिपादकानां नामरूपव्याकरणप्रतिपादकश्रुतीनां गुणक्रियाद्युत्पत्तिग्राहिसर्वलोकप्रत्यक्षादिप्रमाणानां च विरोधप्रसङ्गात्, अन्ततो गत्वा सर्वस्यापि ब्रह्मापृथक्सिद्धतया पृथक्स्थितिप्रतिपत्तिकार्यानर्हत्वेन ब्रह्मव्यतिरिक्त्तस्यापि उत्पत्त्यभावप्रसङ्गेन सर्वप्रमाणसङ्क्षोभापत्तेः । न च ब्रह्मापृऽथक्सिद्धस्य द्रव्यस्योत्पत्तिसम्भवेपि द्रव्यभिन्नस्योत्पत्तिर्नास्तीति वाच्यम्; विनिगमकाभावात्सर्वप्रकरणविरोधस्याविशिष्टत्वादिति चेत्, सत्यम् न द्रव्यव्यतिरिक्त्तानामागन्तुकधमर्ाणामुत्पत्तिरपलपितुं शक्यते । अभूत्वा भवनरूपोत्पत्तेर्लोकवेदसिद्धतया अपलपितुमशक्यत्वात् । अपि तु द्रव्ये तादृशोत्पत्तिर्नाभ्युपगन्तुं शक्यते । यदि वैशेषिकादिरीत्या मृदादिव्यतिरिक्त्तं तदुत्पाद्यद्रव्यान्तरमभ्युपेयते तदा कारणगुणप्रक्रमेण तस्य गुरुत्वान्तराधिकरणतया गुरुत्वद्वैगुण्यमुपलभ्येत । अपि च महति कनकसूत्रे कालायसृङ्खले वा लोहकारैः सङ्ग्रथ्यमाने तत्रान्तराकण्डसूत्राणि खण्डृङ्खलानिच जायन्त इत्यभ्युपगन्तव्यम्, अन्यथा किञ्चिद्ग्रथनानन्तरमुपरि सूत्रृङ्खलग्रथने परित्यक्त्ते सति ग्रथितभागे सूत्रृङ्खलव्यवहारो न स्यात् महासूत्रृङ्खलग्रथनानन्तरं खण्डिते तस्मिन् सूत्रृङ्खलव्यवहारश्च न स्यात् । एवञ्च यत्रोपर्युपरि खण्डसूत्रृङ्खलग्रथनक्रमेण महासूत्रृङ्खलग्रथनं समापितम्, तत्र खण्डसूत्रृङ्खलवृन्दारब्धं महासूत्रृङ्खलमभ्युपगम्येत । तत्र सूत्रृङ्खलनिर्माणार्थं यावत्सु वर्णकालायसं लोहकारहस्ते दत्तम् । तावत उपादानस्य गुरुत्वं तदारब्धखण्डसूत्रृङ्खलानां गुरुत्वानि तदारब्धमहासूत्रृङ्खलानां प्रत्येकं गुरुत्वानि तदारब्धमहासूत्रृङ्खलगुरुत्वं चेत्यतिमहत्तरं गुरुत्वमापद्येत, तस्मान्मृत्पिण्डखण्डसूत्र ृङ्खल व्यतिरिक्त्तं घटशरावमहासूत्रृङ्खलं तत्त्वतो नास्तीत्येवाभ्युपगन्तव्यम्, किञ्च उभयसम्प्रतिपन्नावस्थयैवोपपत्तौ अवस्थान्तरवतो द्रव्यान्तरस्याप्युत्पत्तिकल्पने गौरवात् । पूर्वाह्ने मृत्पिण्डात्मना स्थितैव मृत् अपराह्ने घटाद्यात्मतां भजत इत्यबाधितप्रत्यभिज्ञासिद्धत्वाच्चासतो द्रव्यस्योत्पत्तिर्नास्ति । तत्रोत्पत्तिवादास्तु अवस्थामात्रनिबन्धना इत्यत्रैव नः संरम्भ इति न कश्चिद्दोषः । सद्वारकत्वादविरोध इति - एकस्मिन् ब्रह्मण्यनेकत्वावस्थायाः सद्वारकत्वादितिभावः । तन्त्वादिसाधारणं पारमार्थिकं च परिहारमाह - कालभेदाच्चाविरोध इति । ननु विरलतन्त्वारब्धपटे एकस्मिन्नेव काले कथमेकत्वानेकत्वयोर्युगपदुपलम्भः ? एकस्मिन् धर्मिणि विरुद्धधर्मद्वयासम्भवादिति चेन्न, एकस्मिन्नेव वृक्षे मूलाद्यवच्छेदकभेदेन संयोगतदभावसत्त्ववत्कुविन्दकारितसंयोगविशेषावच्छेदेन तन्तुषु पटत्वमेकत्वं च तन्तुत्वावच्छेदेनानेकत्वं चेत्युपपत्तेः । ननु कुविन्दकारितसंयोगाः तन्तुत्वसङ्कीर्णा एवेति कथं विरुद्धधर्मावच्छेदकत्वमिति चेन्न; एकस्मिन्नेव वह्नौ आर्द्रेन्धनप्रभववह्नित्वावच्छेदेन व्याप्तेः, सदसङ्कीर्ण वह्नित्वावच्छेदेन व्याप्यमानस्य च, आर्देन्धनप्रभव वह्नित्वावच्छेदेन व्याप्यत्वावच्छेदकत्वति वह्नित्वे अविशेषितवह्नित्वत्वावच्छेदेन व्याप्यतावच्छेदकत्वाभावस्य न वृत्त्यभ्युपगमात् । एवं कार्यकारणानन्यत्ववादेपि एकस्मिन्नेव द्रव्ये तन्तुत्वावस्थाप्रापकसंयोगविशेषावच्छेदेन तन्तुत्वं तन्तुत्वावच्छेदेनन अनैकत्वं च पटत्वप्रापकतन्तुसंयोगविशेषावच्छेदेन पटत्वं तदवच्छेदनैकत्वं चेति पटत्वतन्तुत्वयोरेकत्वानेकत्वयोश्च समावेशोपपत्तेर्न कश्चिद्दोषः एवम् । उपादानोपादेययोः तृणच्छदिषोरिष्टकाप्राकारयोश्चानन्यत्वेपि तृणत्वच्छदिष्ट्वादिसमावेशे अविरोधो द्रष्टव्यः । इयांस्तु विशेषः, छदिषि तृणानां तदीयतनुत्वाद्याकारस्य प्राकारे इष्टकानां चतुरत्वाद्याकारस्यानुपलम्भः, विरलतन्त्वारब्धे तूपलम्भ इति । भाष्ये- स एवेदमिदानीमिति । अत्र वक्त्तव्यं प्रथमसूत्र एवोक्तम् । सदेव एकमेवाद्वितीयमिति वाक्यस्य सजातीयविजातीयस्वगतभेदनिषेधः क्रियत इति मते अनुपपत्तिमाह - नहि सजातीयेति । कार्यकारणयोरनन्यत्वं च लब्धमित्याह- आत्मनो बहुभवनं सङ्कल्प्येतेति पाठश्चेत्समीचीनः शङ्काविशेषव्युदासकत्वादिति । ननु सेयं देवतेति उत्तरश्रुतिसन्दर्भस्य व्यष्टिप्रतिपादनमुखेन निखिलजगदुपादानत्वप्रतिपादनद्वारा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वहणार्थप्रवृत्तितया कथं पूर्वसन्दर्भप्रतिपादितार्थशङ्काविशेषव्युदासकत्वमितिचेत्- सत्यम्; तस्यापि सम्भवतस्त्यागायोगादितिभावः । चेतनांशैक्यानुपपत्तिमभिप्रयन्नाह- नामरूपविभागाभावेनैकत्वमितीति । सच्छब्दस्य जगत्परत्वे तदैक्षतेत्यादिभिर्विरोध इत्यभिप्रयन्नाह- बहुभवनसङ्कल्परूपेक्षणमिति पाठश्चेत्समीचीनः । स तु कारणावस्थायामेकत्वादिति - शरीरशरीरिभावस्य भेदगर्भत्वादिति भावः । शक्त्तौ हस्तिकवाटयोरित्यादिहस्तिकवाटयोरुप पदयोः शक्त्तौ गम्यमानायां “हन्तेष्ठक्’ हस्तिघ्नो भटः, हस्तिनं हन्तुं शक्य इत्यर्थः । एवं कवाटघ्नश्चोर इत्यपि द्रष्टव्यम् । “शकि लिङ् च’ शक्तयर्थोपाधिकार्थवृत्तेर्धातोर्लिङ् च, चकारात्कृत्याश्च, भवान् खलु भारं वहेत् भवता खलु भारो वोढव्यः, वोढुं शक्य इत्यर्थः । कृत्प्रत्ययान्तराणामिति - अन्तरशब्दो विशेषवाची । कृत्प्रत्ययविशेषाणाम्- कृत्यत्प्रत्ययाणामित्यर्थः । कृत्याश्चेत्यनुवृत्तेः । भाष्ये- पाचकादिष्वगत्येति । कदापि पाकमकुर्वति शक्त्तिमात्रेण यत्र पाचकशब्दः प्रयुज्यते तत्र पाचकशब्दस्य लक्षणेत्यर्थः, नतु तादात्विकपाकाभावमात्रेण पाचकशब्दस्य लक्षणेति मन्तव्यम् । तृजादिषु वर्तमानकालोपादानमध्यापकवेदाध्ययनाथर्मिति वार्तिकेन पूर्वपक्षं कृत्वा न वा कालमात्रे दर्शनादन्येषामिति वार्तिकेन धात्वर्थस्य वर्तमानत्वाभावेपि ण्वुलादिप्रत्ययसाधुत्वस्य समर्थितत्वादिति द्रष्टव्यम् । नचैवं सुप्ते शास्त्रज्ञादिशब्दमुख्यत्ववत्सुप्तिस्थानीयप्रलयदशापन्ने सन्मात्रब्रह्मणिसर्वज्ञादिशब्दस्य सार्वदिकज्ञानाभावेपि साधुत्वसम्भवात् ज्ञानस्य नित्यत्वं न सिध्द्येत् । नहि यश्शास्त्रज्ञस्तमानयेत्युक्त्ते शास्त्रज्ञानस्य नित्यत्वमस्ति, न वा तद्दशायां ज्ञानमस्तीति वाच्यम्; “स्वाभाविकी ज्ञानबलक्रिया च’ इत्यत्र भावार्थल्युडन्तज्ञानादिशब्दस्य शक्त्यर्थत्वाभावेन लक्षणत्वावश्यम्भावादिति भावः । यद्वा अध्येष्यमाणशास्त्रेऽधीतविस्मृतशास्त्रे वा शास्त्रज्ञं इति प्रयोगाभावेन शास्त्रज्ञादिशब्दस्य वस्तुतो वर्तमानविषयत्वमेव सुषुप्तादौ तत्प्रयोगश्च वर्तमानत्वोपचाराल्लक्षणया, अत एवोत्सृष्टसृजि पुरुषे स्रग्विशब्दस्य व्यवहाराभावात् अकुर्वति मृत्पिण्डे कार्यजनननिमित्तस्य कारणशब्दस्य न मुख्यत्वं तदा तत्प्रयोगस्तु लाक्षणिक इति मीमांसकोक्तेरकुर्वद्दशायां पाचकशब्दो लाक्षणिक एव । न चेह तथाश्रयणं युक्त्तम्, मुख्यार्थत्वे सम्भवत्युपचारस्य अन्याय्यत्वादिति भावः । काशस्य कुशत्वेन कुशस्थानेवलम्बनमिति - यद्यपि काशस्य कुशस्यावलम्बनं काशकुशावलम्बनम् तथापि प्रकृते अस्यार्थस्य उचितत्वादेवमुक्त्तमिति द्रष्टव्यम् । प्रत्यभिज्ञाप्रत्यक्षसिद्धानन्यत्वमिति - प्रत्यभिज्ञारूपप्रत्यक्षसिद्धानन्यत्वमित्यर्थः ॥सामानाधिकरण्येन प्रत्यभिज्ञानस्याभिमतत्वे युक्त्तिमाह - समवायिकारणानुवृत्तिमिति । स्वपक्षासाधकत्वादिति विद्धान्तसाधकत्वादित्यर्थः । नहि घटस्थे जल इति - यद्यपि हिरण्यत्वस्य पृथिवीत्वादिवत्कुड्यावयवे कुण्डले च सत्त्वाभ्युपगमेन कुण्डलं हिरण्यमिति नोपादानोपादेया भेदसाधिका, तथापि पिण्डावस्थं तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञाया अस्मिन्सूत्रे अभेदसाधकत्वेन विवक्षितत्वादितिभावः ॥। सोयमितिज्ञानं प्रत्यभिज्ञेति - प्रत्यभिज्ञा हि द्विविधा, तदर्थविशेष्यका इदमर्थविशेषणिका इदमर्थविशेष्यका तदर्थविशेषणिका च, यदा संस्कारस्य प्राधान्यमिन्द्रियस्योपसर्जनत्वं तदा तदथर्विशेष्यकत्वम्, इन्द्रियस्य तु प्राधान्ये इदमर्धविशेष्यकत्वं तदर्थविशेषणकत्वं च; ततश्च पूर्वसूत्रे तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञायाः प्रमाणतयोपादानात्तदर्थविशेष्यकत्वम् । अस्मिंस्तु सूत्रे “सदेव सोम्येद’मिति श्रुत्यर्थस्य विवक्षितत्वात् इदमर्थस्य विशेष्यत्वं सद्रूपतापत्तेर्विशेषणत्वमिति मतमाश्रित्यैवमुक्त्तमिति द्रष्टव्यम् । सोयमिति या प्रत्यभिज्ञा सा पूर्वोक्ता, अयं स इति या प्रत्यभिज्ञा सा अत्रोच्यते इति पाठश्चेत्समीचीनः । अयं स इति ज्ञानमभिज्ञा सा अत्रोच्यत इति पाठे तु न समीचीन्यम्, अत एवायं स इति विपरीतप्रत्यभिज्ञेति सर्वार्थसिद्धौ व्यवहृतम् । श्रुतिसिद्धमिति - वाचारम्भणमितिश्रुतिसिद्धमित्यर्थः । यद्यपि ज्ञानव्यपदेशभेदेन पूर्वोत्तरसूत्रयोर्भिदा पूर्वमेव वर्णिता, तथापीति ज्ञानव्यपदेशयोः श्रुतिसिद्धत्वलोकसिद्धत्वरूपविशेषणान्तरमप्यस्तीति प्रदर्श्यत इति द्रष्टव्यम् ।प्रदेशेषु निर्वाहमाह, तदैकार्थ्यादिति ग्रन्थस्यानन्तरं युक्त्तेश्चेतीति प्रतीकोपादानं दृश्यते, न तस्य प्रयोजनं पश्यामः । कालविशेषविशिष्टदेशविशेषत्वमिति - यस्मिन् देशे यस्मिन् काले परैघर्टाभावोभ्युपगम्यते, तत्कालविशिष्टदेशविशेषत्वमेव घटात्यन्ताभाव इत्यर्थः । अल्पत्वविशेषितदेशान्तरसंसर्गइतिपरिच्छिन्नस्य घटस्य युगपद्देशद्वयेप्यवस्थातुमशक्त्तस्य देशान्तरसंसर्गोस्य देशस्य घटात्यन्ताभाव इत्यर्थः । साधिते सतीत्यर्थ इति - साधितप्रायो सतीत्यर्थः । ततश्च साधितत्वे दृष्टान्तोपन्यासेन साधनीयांशाभावात् दृष्टान्तवैफल्यं स्यादिति शङ्का परास्ता ॥ यथा विशिष्टवस्तुनीति - यथा चिदचिद्विशिष्टे अंशभूते ब्रह्मण्येकत्वं विशिष्टत्वस्य कृत्स्नव्यक्त्तित्वात्, विशेषणत्वेनांशभूतानां चिदचितां प्रत्येकं भेदः, एवं विशिष्टत्वस्थानीयं पटत्वं विशेषणत्वस्थानीयं तन्तुत्वमित्यभिप्रायः । कृत्स्नतन्तुवृत्तिना पटत्वेनेति - तन्तुष्वेव तन्तुत्वावच्छेदेनानेनकत्वं पटत्वावच्छेदेनैकत्वमित्यर्थः । नन्वतिरिक्त्तपटानभ्युपगमे तन्तुषु पटाशत्वव्यवहारः कथम् ? तन्त्वन्तरं प्रति तन्त्वरस्यांशत्वाभावादित्याशङ्कयाह - पृथगवस्थानदशायामिति । अंशिन एकत्वं चेति - सङ्घातो विशषष्यमंशी च । तन्तवोविशेषणभूताः अंशाश्चेतिभावः । पटस्य प्रादेशिकविशेषणानि भवन्तीति - तन्तुपटयोरभेदेपि तन्तून्प्रति प्रादेशिकविशेषणत्वाभावेपि पटं प्रति प्रादेशिकविशेषणानि भवन्ति । आकारभेदसत्त्वादितिभावः । प्रादेशिकविशेषाः कादाचित्का इति - कादाचित्का एवेत्यर्थः । स्वाभाविकांशवादोपि निरस्त इति - स्वाभाविकांशसद्भावे केचन प्रादेशिकविशेषा नित्या अपि स्युरितिभावः । गगनादिव्यापकपदार्थानामिति - गगनादिरूपव्यापकपदार्थानामित्यर्थः । गगनादीनां क्षणिकत्वमेवोपपादयति । परिणामविशेषादित्यादिना ॥is not available.