चरमो विचार इति - न ह वै सशरीरस्येत्यर्थः । न त्वसाधारणतयेति भोक्तृत्वं किं सशरीरत्वप्रयुक्त्तम्, उत कर्मपारतन्त्र्यप्रयुक्त्तम् ? इति चिन्ताया एव तदधिकरणकृत्यत्वादितिभावः । सूत्रभेदस्त्विति - सम्भोगप्राप्तिरित्यस्य भोक्त्रापत्तेरिति सूत्रस्य चेत्यर्थः । मुक्त्तिपाद इति - भावं जैमिनिरितिसूत्र इति भावः । भाष्ये - प्रचुरदन्दशूक इति । दन्दशूकशब्दो दन्दश्यत इत्यवयवव्युत्पत्त्यादंशमशकादिपरः, नतु रूढ्या सर्पपर इति द्रष्टव्यम् । भोग्यस्य भोक्तृतापत्तिमिति - एकब्रह्मोपादेयत्वेन भोक्तृभोग्ययोरुपादानभूत ब्रह्मानन्यतया भोक्तृभोग्ययोः परस्पराभेदप्रसङ्ग इत्याशङ्कय एकसमुद्रोपादानकतया समुद्रादनन्ययोरपि फेतनारङ्गयोः परस्परभेदवद्भोक्तृभोग्यव्यवस्थेति परिहृतमित्यर्थः । त्रयाणामपि वाचक इति - कारणान्तर्गतशक्तयविद्योपाध्युपहितस्येति कुदृष्टित्रयाभिहतानां त्रयाणामपि परामर्शादिति भावः ॥ ॥ इति भोक्त्रापत्यधिकरणम् ॥